२८

विश्वास-प्रस्तुतिः

अष्टाविंशोऽध्यायः

मार्कण्डेय उवाच

जगत् सर्वं तु निःसारमनित्यं दुःखभाजनम् ।
उत्पद्यते क्षणादेतत् क्षणादेतद्विपद्यते ॥ १ ॥

मूलम्

तथैवोत्पद्यते सारान्नि सारं जगदञ्जसा ।
पुनस्तस्मिन् विलीयन्ते महाप्रलयसङ्गमे ॥ २ ॥

उत्पत्तिप्रलयाभ्यां तु जगन्निःसारतां हरिः ।
शम्भवे दर्शयामास भावेन जगतां पतिः ॥ ३ ॥

एकं शिवं शान्तमनन्तमच्युतं परात्परं ज्ञानमयं विशेषम् ।
अद्वैतमव्यक्तमचिन्त्यरूपं सारं त्वेकं नास्ति सारं तदन्यत् ॥ ४ ॥

यस्मादेतज्जायते विश्वमग्र्यं यस्माल्लीनं स्यात्तु पश्चात् स्थितञ्च ।
आकाशवन्मेघजालस्य वृत्त्या यद्विश्वं वै ध्रियते तत्त्वसारम् ॥ ५ ॥

अष्टाङ्गयोर्गैर्यदवाप्तुमिच्छन् योगी पुनात्यात्मरूपं सदैव ।
निवर्तते प्राप्य यं नेह लोके तद्वैसारं सारमन्यन्न चास्ति ॥ ६ ॥

सारो द्वितीयो धर्मस्तु यो नित्यप्राप्तये भवेत् ।
यो वै निवर्तको नाम तत्रासारः प्रवर्तकः ॥ ७ ॥

धर्म शनैः सञ्चिनुयाद्वल्मीको मृत्तिकां यथा ।
सहायार्थं परे लोके पूर्वपापविमुक्तये ॥ ८ ॥

एको धर्मः परं श्रेयः सर्वसंसारकर्मसु ।
इतरे तु त्रयो धर्माज्जायन्तेऽर्थादयोऽपरे ॥ ९ ॥

वरं प्राणपरित्यागः शिरसो वाथ कर्तनम् ।
न तु धर्मपरित्यागो लोके वेदे च गर्हितः ॥ १० ॥

धर्मेण ध्रियते लोको धर्मेण ध्रियते जगत् ।
धर्मेणैव सुराः सर्वे सुरत्वमगमन् पुरा ॥ ११ ॥

धर्मश्चतुस्पाद् भगवान् जगत् पालयतेऽनिशम् ।
स एव मूलं पुरुषो धर्म इत्यभिधीयते ॥ १२ ॥

सर्वं क्षरति लोकेऽस्मिन् धर्मो नैव च्युतो भवेत् ।
धर्माद् यो न विचलति स एवाक्षर उच्यते ॥ १३ ॥

एतद्वः कथितं सारं निःसारं सकलं जगत् ।
यथा स्वयं ददर्शासौ शम्भुर्ज्ञानेन स्वेऽन्तरे ॥ १४ ॥

एतद्वै दर्शयामास स विष्णुर्जगतां पतिः ।
स्वयं जग्राह अम्नसां ध्यानेनात्मनि शङ्करः ॥ १५ ॥

सारं तत्त्वं परमं निष्कलं यन्मूर्त्या हीनं मूर्तिमान् धर्म एषः ।
सारोऽन्योऽसौ सारहीनं तदन्यज्ज्ञात्वैवेत्थं याति नित्यं महाधीः ॥ १६ ॥

इति श्रीकालिकापुराणे सारासारनिरूपणं नाम अष्टाविंशोऽध्यायः ॥ २८ ॥