विश्वास-प्रस्तुतिः
सप्तविंशोऽध्यायः
मार्कण्डेय उवाच
मन्वन्तरं मनोः कालो यावत् पालयते प्रजाः ।
एको मनुः स कालस्तु मन्वन्तरमिति श्रुतम् ॥ १ ॥
मूलम्

तदेकसप्ततियुगैर्देवानामिह जायते ।
तैश्चतुर्दशभिः कल्पो दिनमेकं तु वेधसः ॥ २ ॥

दिनान्ते ब्रह्मणो जाते सुषुप्सा तस्य जायते ।
योगनिद्रा महामाया समायाति पितामहम् ॥ ३ ॥

नाभिपद्मं प्रविश्याथ विष्णोरमिततेजसः ।
सुखं शेते स भगवान् ब्रह्मा लोकपितामहः ॥ ४ ॥

ततो विष्णुः स्वयं भुत्वा रुद्ररूपी जनार्दनः ।
पूर्ववन्नाशयामास स सर्वं भुवनत्रयम् ॥ ५ ॥

वायुना वह्निना सार्धं दाहयामास वै यथा ।
महाप्रलयकालेषु तथा सर्वं जगत् त्रयम् ॥ ६ ॥

जनं यान्ति प्रतापार्ता महर्लोकनिवासिनः ।
त्रैलोक्यदाहसमये पीडिता दारुणाग्निना ॥ ७ ॥

ततः कालान्तकैर्मेघैर्नानावर्णैर्महास्वनैः ।
समुत्पाद्य महावृष्टिमापूर्य भुवनत्रयम् ॥ ८ ॥

चलत्तरङ्गैस्तोयौघैराध्रुवस्थानसङ्गतैः ।
निधाय जठरे लोकानिमांस्त्रीन् स जनार्दनः ।
नागपर्यङ्कशयने शेते स परमेश्वरः ॥ ९ ॥

शयान नाभिकमले ब्रह्माणं स जगद्गुरुः ।
संस्थाप्य त्रीनिमाल्लोकान् दग्ध्वा जग्ध्वा श्रिया सह ॥ १० ॥

शेते स भोयिशय्यायां ब्रह्मा नारायणात्मकः ।
योगनिद्रावशं जातस्त्रेलोक्यग्रासवृंहितः ॥ ११ ॥

त्रैलोक्यमखिलं दग्धं यदा कालाग्निना तदा ।
अनन्तः पृथिवी त्यक्त्वा विष्णोरन्तिकमागगः ॥ १२ ॥

तेन त्यक्ता तु पृथिवी क्षणमात्रादधोगता ।
पतिता कूर्मपृष्ठे च विशीर्णेव तदाभवत् ॥ १३ ॥

कूर्मोऽपि महतो यत्नाच्चलन्तीं पृथिवीं जले ।
ब्रह्माण्डं पद्भिराक्रम्य पृष्ठे दध्रे धरां तदा ॥ १४ ॥

ब्रह्माण्डखण्डसंयोगाच्चूर्णिता पृथिवो भवेत् ।
इति तां परिजग्राह कूर्मरूपी जनार्दनः ॥ १५ ॥

चलज्जलौघसंसर्गाच्चलन्त्या धरया तदा ।
कूर्मपृष्ठं बहुतरैर्वरण्डैर्विततीकृतम् ॥ १६ ॥

अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः ।
तत्र स्वयं श्रिया युक्तं सुषुप्सन्तं जनार्दनम् ॥ १७ ॥

फणया मध्यया दध्रे त्रैलोक्यग्रासबृंहितम् ।
पूर्वं फणाः वितत्योर्ध्वं पद्मं कृत्वा महाबलः ।
विष्णुमाच्छादयामास शेषाख्यः परमेश्वरम् ॥ १८ ॥

तस्योपधानमकरोदनन्तो दक्षिणां फणाम् ।
उत्तरां पादयोश्चक्रे उपधानं महाबलः ॥ १९ ॥

तालवृन्तं तदा चक्रे सशेषः पश्चिमा फणाम् ।
स्वपन्नं बीजयामास शेषरूपी जनार्दनम् ॥ ३० ॥

शङ्खं चक्रं नन्दकासिमिषुधी द्वे महाबलः ।
ऐशान्ययाथ फणया स दध्रे गरुडं तथा ॥ २१ ॥

गदा पद्मं च शार्ङ्गश्च तथैव विविधायुधम् ।
यानि चान्यानि तस्यासन्नाग्नेय्या फणया दधौ ॥ २२ ॥

एवं कृत्वा स्वकं कायं शयनीय तदा हरेः ।
पृथ्वीमधरकायेन मग्नामात्रम्य चाम्भसि ॥ २३ ॥

त्रैलोक्य ब्रह्मसहितं सलक्ष्मीकं जनार्दनम् ।
सोपासङ्ग जगद्बीज जगत्कारणकारणम् ॥ २४ ॥

नित्यानन्दं वेदमयं ब्रह्मण्य परमेश्वरम् ।
जगत्कारणकर्तार जगत्कारणकारणम् ॥ २५ ॥

भूतभव्यभवन्नाथ परावरगतिं हरिम् ।
दधारं शिरसा तान्तु स्वयमेव स्वकां तनुम् ॥ २६ ॥

एवं ब्रह्मदिनस्यैव प्रमाणेन निशां हरिः ।
सन्ध्यां च समभिव्याप्य शेते नारायणोऽव्ययः ॥ २७ ॥

यस्मादयन्तु प्रलयो ब्रह्मणः स्याद् दिने दिने ।
तस्माद् दैनन्दिनमिति ख्यापयन्ति पुराविदः ॥ २८ ॥

व्यतीतायां निशायां तु ब्रह्मा लोकपितामहः ।
त्यक्त्वा निद्रां समुत्तस्थौ स पुनः सृष्टये हितः ॥ २९ ॥

त्रैलोक्यं तोयसम्पूर्णं शयानं पुरुषोत्तमम् ।
निरीक्ष्य वैष्णवीं मायां महामायां जगन्मयीम् ।
योगनिद्रां स तुष्टाव हरेरङ्गे च संस्थिताम् ॥ ३० ॥

ब्रह्मोवाच
चितिशक्तिं निर्विकारां परब्रह्मस्वरूपिणीम् ।
प्रणमामि महामायां योगनिद्रां सनातनीम् ॥ ३१ ॥

त्वं विद्या योगिनां देवि त्वं गतिस्त्वं मतिः स्तुतिः ।
त्वं सृष्टिस्त्वं स्थितिः स्वाहा स्वधा त्वमिह गीतिका ॥ ३२ ॥

त्वं सामगीतिस्त्वं नीतिस्त्वं ह्रीः श्रीस्त्वं सरस्वती ।
योगनिद्रा महामाया मोहनिद्रा त्वमीश्वरी ॥ ३३ ॥

त्वं कान्तिः सर्वशक्तिस्त्वं त्वं तनुर्वैष्णवी शिवा ।
त्वं धात्री सर्वलोकानामविद्यां त्वं शरीरिणाम् ॥ ३४ ॥

आधारशक्तिस्त्वं देवी त्वं हि ब्रह्माण्डधारिणी ।
त्वमेव सर्वजगतां प्रकृतिस्त्रिगुणात्मिकाम् ॥ ३५ ॥

त्वं सावित्री च गायत्री सौम्यासौम्यातिशोभना ।
त्वं सिसृश्चा हरेर्नित्या सुषुप्सा त्वं सुषुप्तिका ॥ ३६ ॥

पुष्टिर्लज्जा क्षमा शान्तिस्त्वं धृतिः परमेश्वरी ।
त्वमेव क्षितिरूपेण ध्रियसे सचराचरम् ॥ ३७ ॥

त्वमापस्त्वमपां माता सर्वान्तर्गतचारिणी ।
स्तुतिः स्तुत्या च स्तोत्री च स्तुतिशक्तिस्त्वमेव च ॥ ३८ ॥

त्वामहं किन्नु स्तोष्यामि प्रसीद परमेश्वरि ।
नमस्तुन्यं जगन्मातः प्रबोधय जनार्दनम् ॥ ३९ ॥

एवं स्तुता महामाया ब्रह्मणा लोककारिणा ।
नेत्रास्यनासिका-बाहु-हृदयान्निर्गता हरेः ।
राजसी मूर्तिमाश्रित्य सा तस्थौ ब्रह्मद्र्शने ॥ ४० ॥

ततो जनार्दनो भोगिशयनान्निद्रया क्षणात् ।
परित्यक्तः समुत्तस्थौ सृष्टये चाकरोन्मतिम् ॥ ४१ ॥

ततो वराहरूपेण निमग्नां पृथिवीं जले ।
मग्नां समुद्दधाराशु न्यधाच्च सलिलोपरि ॥ ४२ ॥

तस्योपरि जलौघस्य महती नौरिव स्थिता ।
विततत्वाच्च देहस्य न मही याति सम्प्लवम् ॥ ४३ ॥

ततो हरिः क्षितिं गत्वा तोयराशिं स्वमायया ।
संहृत्य जन्तुस्थितये प्रवृत्तः स्वयमेव हि ॥ ४४ ॥

अनन्तोऽपि यथापूर्वं तथा गत्वा क्षितेस्तलम् ।
पृथिवीं धारयामास कूर्मस्योपरि संस्थितः ॥ ४५ ॥

ततो ब्रह्मा समुत्पाद्य सर्वानेव प्रजापतीन् ।
जगदुत्पादयामास सर्वलोकपितामहः ॥ ४६ ॥

ब्रह्मा वा कुरुते सृष्टि यदान्ये वापि कुर्वते ।
दक्षाद्यास्तु प्रजापालाः स्वयमेव तदिच्छया ॥ ४७ ॥

परब्रह्मस्वरूपीय सोऽनुगृह्णाति सन्ततम् ।
प्रकृतिश्चानुगृह्णाति महाभूतानि पञ्च वै ॥ ४८ ॥

पुरुषश्चानुगृह्णति तथैव महदादयः ।
ईश्वरेच्छान्वधिष्ठानात् पुरुषादष्टसञ्चयात् ॥ ४९ ॥

पुरुषाणामधिष्टानान्महाभूतगणस्य च ।
तथैव महदादीनां कालस्य च महात्मनः ।
अधीष्ठानात् प्रधानस्य यच्च किञ्चन जायते ॥ ५० ॥

स्थावरं जङ्गमं वापि स्थिरं वाप्यथवाद्भूतम् ।
सर्वमेतदधिष्ठानाज्जायते द्विजसत्तमाः ॥ ५१ ॥

इति वः कथितं सर्वं यथैवादर्शयत् पुरा ।
हराय सृष्टिसंहार-कल्पास्तान् भगवान् हरिः ॥ ५२ ॥

यथा जगत् प्रपञ्चस्यासारता दर्शिता परा ।
यच्च सारं दर्शितं तन्मत्तः शृण्वन्तु वै द्विजाः ॥ ५३ ॥

इति श्रीकालिकापुराणे सृष्टिकथेन सप्तविंशोऽध्यायः ॥ २७ ॥