विश्वास-प्रस्तुतिः
षड्विंशोऽध्यायः
मार्कण्डेय उवाच
वाराहोऽयं श्रुतः सर्गो वराहाधिष्ठितो यतः ।
प्रतिसर्गः श्रुतः सर्वैर्दक्षाद्यैर्यः कृतः पृथक् ॥ १ ॥
मूलम्

रुद्रो विराण्मनुर्दक्षो मरीच्याद्यास्तु मानसाः ।
यं यं सर्गं पृथक् चक्रुः प्रतिसर्गश्च स स्मृतः ॥ २ ॥

विराट्-सुतोऽसृजद्वंश्यान्मनून् यैर्विततं जगत् ।
मनुः सप्त मनून् सृष्ट्वा चकार बहुशः प्रजाः ॥ ३ ॥

प्रजाः सिसृक्षुः स मनुर्योऽसौ स्वायम्भुवाह्वयः
असृजत् प्रथमं षड् वै मनून् सोऽथ परान् सुतान् ॥ ४ ॥

स्वारोचिषश्चौत्तमिश्च तामसो रैवतस्तथा ।
चाक्षुषश्च महातेजा विवस्वानपरस्तथा ॥ ५ ॥

यक्षरक्षःपिशाचांश्च नागगन्धर्वकिन्नरान् ।
विद्याधरानप्सरसः सिद्धान् भूतगणान् बहून् ॥ ६ ॥

मेघान् सविद्युतो वृक्षान् लतागुल्मतृणादिकान् ।
मत्स्यान् पशूंश्च कीटांश्च जलजान् स्थलजांस्तथा ॥ ७ ॥

एतादृशानि सर्वाणि मनुः स्वायम्भुवः सुतैः ।
सहितः ससृजे सोऽन्यः प्रतिसर्गः प्रकीर्तितः ॥ ८ ॥

अन्ये षण्मनवो ये वै तेऽपि स्वे स्वेऽन्तरेऽन्तरे ।
प्रतिसर्गं स्वयं कृत्वा प्राप्नुवन्ति चराचरम् ॥ ९ ॥

यज्ञस्य सम्भूतं यज्ञं यूपं प्राग्वंशमेव च ।
धर्माधर्मौ गुणान् सर्वान् वराह इव सृष्टवान् ॥ १० ॥

सुतान् बहून् समुत्पाद्य दक्षो देवर्षिसत्तमान् ।
महर्षीन् सोमपायींश्च बहून् पितृगणांस्तथा ॥ ११ ॥

सृष्टिं प्रवर्त्तयामास प्रतिसर्गोऽस्य स स्मृतः ।
अजायन्त मुखाद्विप्राः क्षत्रिया बाहुयुग्मतः ॥ १२ ॥

ऊर्वोर्वैश्याः पदोः शूद्राश्चतुर्वेदाश्चतुर्मुखात् ।
ब्रह्मणः प्रतिसर्गोऽयं ब्राह्मः सर्गः स्मृतस्ततः ॥ १३ ॥

मरीचेः कश्यपो जातः कश्यपात् सकलं जगत् ।
देवा दैत्या दानवाश्च तस्य सर्गः प्रकीर्तितः ॥ १४ ॥

अत्रेर्नेत्रादभूच्चन्द्रश्चन्द्रवंशस्ततोऽभवत् ।
तेन व्याप्तं जगत् सर्वं सोऽस्य सर्गः प्रकीर्तितः ॥ १५ ॥

अथर्वागिरस पुत्राः पौत्राश्च बहुशोऽपरे ।
मन्त्रयन्त्रादयो ये वै ते सर्वेऽङ्गिरसः स्मृताः ॥ १६ ॥

आज्यपाख्याः पुलस्त्यस्य पुत्राश्चान्ये च राक्षसाः ।
प्रतिसर्गः पुलस्त्यस्य बलवेगसमन्विताः ॥ १७ ॥

काद्रवेया गजा अश्वाः प्रजा बहुतरास्तथा ।
ससृजे पुलहेनैष सर्गस्तस्य प्रकीर्तितः ॥ १८ ॥

क्रतोः पुत्राः बालखिल्याः सर्वज्ञा भूरितेजसः ।
अष्टाशीतिसहस्राणि ज्वलद्भास्करसन्निभाः ॥ १९ ॥

प्रचेतसः सुताः सर्वे ते वै प्राचेतसाः स्मृताः ।
षडशीतिसहस्राणि पावकोपमतेजसः ॥ २० ॥

सुकालिनो वसिष्ठस्य पुत्राश्चान्ये च योगिनः ।
आरुन्धतेयाः पञ्चाशद्वाशिष्ठः सर्ग उच्यते ॥ २१ ॥

भृगोश्च भार्गवा जाता ये वै दैत्यपुरोधसः ।
कवयस्ते महाप्राज्ञास्तैर्व्याप्तमखिलं जगत् ॥ २२ ॥

नारदात्तारका जाता विमानानि तथैव च ।
प्रश्नोत्तरास्तथैवान्ये नृत्यगीतं च कौतुकम् ॥ २३ ॥

एते दक्षमरीच्याद्याः कृतदारान् बहून् सुतान् ।
उत्पाद्योत्पाद्य पृथिवीं दिवं च समपूरयन् ॥ २४ ॥

तेषां सुतेभ्यश्च सुतास्तत्पुत्रेभ्यः परे सुताः ।
समुत्पन्नाः प्रवर्तन्ते ह्यद्यापि भुवनेषु वै ॥ २५ ॥

विष्णोस्तु चक्षुषोः सूर्यो मनसश्चन्द्रमाः स्मृतः ।
श्रोत्राद्वायु समुद्भतोमुखादग्निरजायत ॥ २६ ॥

प्रतिसर्गो ह्ययं विष्णुस्तथा चापि दिशो दश ।
सृष्ट्यर्थं चन्द्रमा पश्चादत्रिनेत्रादवातरत् ।
भास्करं कश्यपाज्जातो भार्यया च समन्वितः ॥ २७ ॥

रुद्राश्च बहवो जाता भूतग्रामाश्चतुर्विधाः ।
श्ववराहोष्ट्ररूपाश्च प्लवगोमायुगोमुखा ॥ २८ ॥

ऋक्षमार्जारवदना सिंहस्याघ्रमुखाः परे ।
नाना शस्त्रधरा सर्वे नानारूपा महाबलाः ॥ २९ ॥

एष व प्रतिसर्गोऽपि कथितो द्विजसत्तमाः ।
दैनन्दिन च प्रलय शृणुध्वं कल्पशेषतः ॥ ३० ॥

इति श्रीकालिकापुराणे सृष्टिकथने षड्विशोऽध्यायः ॥ २६ ॥