२५

विश्वास-प्रस्तुतिः

पञ्चविंशोऽध्यायः

मार्कण्डेय उवाच

कालो नाम स्वयं देवः सृष्टिस्थित्यन्तकारकः ।
अविच्छिन्नः स प्रलयं स्तेन भागेन केनचित् ॥ १ ॥

मूलम्

लयभागे व्यतीते तु सिसृक्षा समजायत ।
ज्ञानरूपस्य च तदा परमब्रह्मणो विभोः ॥ २ ॥

ततोऽस्य प्रकृतिस्तेन सम्यक्सङ्क्षोभिता धिया ।
स क्षुब्धा सर्वकार्यार्थमभूत् सा त्रिगुणात्मिका ॥ ३ ॥

यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते ।
मनसो लोककर्तृत्वात्तथासौ परमेश्वरः ॥ ४ ॥

स एव क्षोभको ब्रह्मन् क्षोभ्यश्च परमेश्वरः ।
स सङ्कोचविकाशाभ्यां प्रधानत्वेऽपि च स्थितः ॥ ५ ॥

इच्छामात्रेण पुरुषः शृष्ट्यर्थं परमेश्वरः ।
ततः सङ्क्षोभयामास पुनरेव जगत्पतिः ॥ ६ ॥

गुणसाम्यात्ततस्तस्मात् क्षेत्रज्ञाधिष्ठितात् ततः ।
गुणव्यञ्जनसम्भूतिः सर्गकाले बभूव ह ॥ ७ ॥

प्रधानतत्त्वादुद्भुतमीश्वरेच्छासमीरितात् ।
महत्तत्वं प्रथमतस्तत् प्रधानं समावृणोत् ॥ ८ ॥

प्रधानेनावृतात्तस्मादहङ्कारो व्यजायत ।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥ ९ ॥

त्रिविधोऽयमहङ्कारो यो जातो महतोऽग्रतः ।
भूतानामिन्द्रियाणाञ्च स वै हेतुः सनातनः ॥ १० ॥

स महांस्तमहङ्कारं जातमात्रं समावृणोत् ।
तन्मात्राणि ततः पञ्चजज्ञिरेऽस्मात् समावृतात् ॥ ११ ॥

प्रथमं शब्दतन्मात्रं स्पर्शतन्मात्रमन्तरम् ।
तृतीयं रूपतन्मात्रं रसतन्मात्रमेव च ॥ १२ ॥

पञ्चमं गन्धतन्मात्रमेतानि क्रमशोऽभवन् ।
प्रत्येकं सर्वतन्मात्रमहङ्कारः समावृणोत् ॥ १३ ॥

ससर्ज शब्दतन्मात्रादाकाश शब्दलक्षणम् ।
शब्दमात्रं तथाकाश भूतादि स समावृणोत् ॥ १४ ॥

शब्दतन्मात्रसहितात् स्पर्शतन्मात्रतस्ततः ।
वायुं समभवत् स्पर्शगुणः शब्दसमन्वितः ॥ १५ ॥

आकाशवायुसंयुक्ताद्रूपतन्मात्रतस्ततः ।
तेजः समभवद्दीप्त सर्वतस्तदवर्धतः ॥ १६ ॥

मूलम्

आकाशवायुसंयुक्ताद्रूपतन्मात्रतस्ततः ।
तेजः समभवद्दीप्त सर्वतस्तदवर्धतः ॥ १६ ॥

विश्वास-प्रस्तुतिः

तच्छब्दवत् स्पर्शवच्च रूपवच्च व्यजायत ।
ततो वियद्वायुतेजोयुक्तात्तोयं ससर्ज ह ।
रसतन्मात्रतः सम्यक् तेन व्याप्त समन्तः ॥ १७ ॥

तोयान्याधारशक्तिर्या विष्णोरमिततेजसः ।
सा दध्रेऽथ निराधाराण्यनिलान्दोलितानि वै ॥ १८ ॥

तेषु बीजं प्रथमतः ससर्ज परमेश्वरः ।
तदण्डमभवद् हैमं सहस्रांशुसमप्रभम् ॥ १९ ॥

महदादिविशेषान्तैरारब्धं सर्वतो वृतम् ।
वारिवह्न्यनिलाकाशैस्तमोभूतादिना बहिः ।
वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥ २० ॥

बीजं यथा बाह्यदलैर्व्याप्तमण्डं तथा पुनह् ।
तोयादिभिस्तथा व्याप्तं ब्रह्माण्डमतुलं द्विजाः ॥ २१ ॥

तदण्डमध्ये स्वयमेव विष्णुर्ब्रह्मस्वरूपं विनिधाय कायम् ।
दिव्येन मानेन स वर्षमेकं स्थितोऽग्रहीद्बीजगणं स्वबुद्ध्या ॥ २२ ॥

ध्यानेन चाण्डं स्वयमेव कृत्वा द्विधा स तस्थौ क्षणमात्रमस्मिन् ।
तदैव तन्मात्रगणैः समस्तैर्गन्धोत्तरैर्भूरमुनैव सृष्टा ॥ २३ ॥

स्पर्शस्य शब्दस्य समस्तरूपगुणस्य गन्धस्य रसस्य चैषा ।
आधारभूता सकलैः कृता यत्तन्मात्रवर्गैरखिला धरित्री ॥ २४ ॥

जातस्तदुत्थैः कनकचलोऽसौ जरायुभिः पर्वतसञ्चयोऽभूत् ।
गर्भादिकैः सप्तपयोधयस्तु स्कन्धद्वयेन त्रिदशालयोऽभूत् ॥ २५ ॥

स्कन्धद्वयेनापरदेशजेन सप्ताभवन्नागगृहाणि तानि ।
पातालसञ्ज्ञानि महासुखानि यत्र स्वयं स्यात् परतो महेशः ॥ २६ ॥

तेजोगणात्तस्य बभूव लोको योऽसौ महर्लोक इति श्रुतोऽभूत् ।
जनाह्वयोऽभून्मरुतोऽथ गर्भाद् ध्यानात्तपोलोकवरो बभूव ॥ २७ ॥

अण्डोर्धगत्यामभवत्तु सत्यं ब्रह्माण्डखण्डोपरि विष्णुरच्युतः ।
परं पदं यन्निगदन्ति धीरा यज्ज्ञानगम्यं परिनिष्ठरूपम् ॥ २८ ॥

एवं विधाय प्रथमं बभूव विष्णुस्वरूपी स्थितये स एव ।
स्वयं समुद्भूततनुर्यतोऽयं स्वभूरिति ख्यातिरवाप विष्णुः ॥ २९ ॥

ततोऽभवत् यज्ञवराहरूपी विष्णुर्भुवः प्रोद्धरणाय पीनः ।
निमज्जमानां पृथिवी स मध्ये भित्त्वा गतो धर्तुमधोऽतिवेगा ॥ ३० ॥

दंष्ट्राग्रदेशे विनिधाय पृथ्वी स उद्गतः सर्वमतीत्य तोयम् ।
ततोऽभवत् सप्तकणान्वितोऽयमनन्तमूर्तिः पृथिवीं विधर्तुम् ॥ ३१ ॥

प्रसार्य शेषोऽपि फलाः स वैष मध्ये निधायैकफणां धरित्रीम् ।
दधार तोयोपरि तोयसंस्थितस्ततोऽत्यजद् यज्ञवराह उर्वीम् ॥ ३२ ॥

प्रसारिताः फणाः सर्वास्तासामेका तु पूर्वतः ।
अपरा पश्चिमायां तु दक्षिणोत्तरयोः परे ॥ ३३ ॥

एका गता फणैशान्यामाग्नेय्यामपरा दिशि ।
पृथ्वीमध्ये स्थिता चैका नेरृत्यां तस्य वै तनुः ।
शून्या दिग्वायवी तत्र ततो नम्रा स्थिता क्षितिः ॥ ३४ ॥

स तु दीर्घतनुस्तोये यदानन्तो न चाशकत् ।
कूर्मरूपी तदा भूत्वानन्तं कायमधाद्धरिः ॥ ३५ ॥

अधो ब्रह्माण्डखण्डं स पद्भिराक्रम्य कच्छपः ।
ग्रीवां वितत्य वायव्यां पृष्ठेऽनन्तमधारयत् ॥ ३६ ॥

अनन्तः कूर्मपृष्ठे तु नवभिर्वेष्टनैस्तनुम् ।
निधाय पृथ्वीं दध्रे सुखेनैव महातनुः ॥ ३७ ॥

ततः फणास्वनन्तस्य चलन्ती पृथिवी स्थिता ।
वराहः कर्तुमचलामचलामकरोद्दृढाम् ॥ ३८ ॥

मेरुं खुरप्रहारेण प्रहृत्य पृथिवीतलम् ।
न्यखनत् स विवेशाथ पृथ्वीं भित्त्वान्तरं ततः ॥ ३९ ॥

योजनानां सहस्राणि षोडशैव रसातलम् ।
प्रविवेश महाशैलो वराहाङ्घ्रिप्रहारतः ॥ ४० ॥

द्वात्रिंशत्तु सहस्राणि योजनानां तु विस्तृतम् ।
मेरोः शिरोऽभवत्तेन प्रहारेण द्विजोत्तमाः ॥ ४१ ॥

मर्यादा पर्वतनाथस्य पार्श्वे पोत्री तदाकरोत् ।
यदा चलति नैवैष पर्वतः पृथिवीधरः ॥ ४२ ॥

हिमवत्प्रभृतीनाञ्च भागं भागं सपञ्चकम् ।
पदा क्षित्यन्तरं चक्रे तदुच्छ्रायप्रमाणतः ॥ ४३ ॥

ततो ब्रह्मा वराहाय नमस्कृत्य महीजसे ।
अर्धनारीश्वरं कक्षाद् देवदेवं व्यजायतः ॥ ४४ ॥

प्रथमं जातमात्रः स प्ररुरोद महास्वनः ।
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह ॥ ४५ ॥

नम देहीति तं सोऽथ प्रत्युवाच महेश्वरः ।
रुद्रनामा रोदनाच्च मा रोदीस्त्वं महाशय ॥ ४६ ॥

एवमुक्तः पुनः सोऽथ सप्तवारान् रुरोद सः ।
ततोऽपराणि नामानि सप्त ब्रह्माकरोत् पुनः ॥ ४७ ॥

शर्वं भवं च भीमञ्च महादेवं चतुर्थकम् ।
पञ्चमं चोग्रमीशानं षष्ठं पशुपतिं परम् ॥ ४८ ॥

मया यथा विभक्तस्त्वं तथात्मा स्वो विभज्यताम् ।
त्वयापि भूरिसृष्ट्यर्थं भवांश्चापि प्रजापतिः ॥ ४९ ॥

ततो ब्रह्मा द्विधा भूत्वा पुरुषोऽर्धेन सोऽभवत् ।
अर्धेन नारी तस्यां तु विराजमसृजत् प्रभुः ॥ ५० ॥

तमाह भगवान् ब्रह्मा कुरु सृष्टिं प्रजापते ।
तपस्तप्त्वा विराट् सोऽपि मनुं स्वायम्भुवं ततः ॥ ५१ ॥

ससर्ज सोऽपि तपसा ब्रह्माणं पर्यतोषयत् ।
तोषितस्तेन मनसा दक्षं सृष्ट्यै ससर्ज सः ॥ ५२ ॥

सृष्टे दक्षेऽथ दशधा प्रणतो मनुना विधिः ।
पुनरेव सुतानन्यान् ससर्ज दश मानसान् ॥ ५३ ॥

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठञ्च भृगुं नारदमेव च ॥ ५४ ॥

एतानुत्पाद्य मनसा मनुं स्वायम्भुवं पुनः ।
यूयं सृजध्वमित्युक्त्वा लोकेशोऽन्तर्दधे पुनः ॥ ५५ ॥

वराहोऽप्यथ पोत्रेण खनित्वा सप्तसागरान् ।
पृथिव्यां बलयाकारान् ससर्ज परमेश्वरः ॥ ५६ ॥

सप्तधा भमणेनासौ सृष्ट्वा सप्ताथ सागरान् ।
सप्तद्वीपानवच्छिद्य पृथिव्यन्तं ततो गतः ॥ ५७ ॥

लोकालोकाह्वयं शैलः कृत्वा पृथ्व्यास्तु वेष्टनम् ।
लक्षद्वयोच्छ्रितं मानाद् योजनानां समन्ततः ।
सुदृढं स्थापयामास भित्तिप्रान्ते यथा गृहम् ॥ ५८ ॥

आदिसृष्टिरियं विप्राः कथिता भवतां मया ।
प्रतिसर्गमहं वक्ष्ये तच्छृण्वन्तु महर्षयः ॥ ५९ ॥

इति श्रीकालिकापुराणे वराहसर्गो नाम पञ्चविंशोऽध्यायः ।