२४

विश्वास-प्रस्तुतिः

चतुर्विंशोऽध्यायः

मार्कण्डेय उवाच

ततो हिमवतः प्रस्थे गिरेः शिप्रसरस्तीरे ।
उपविष्टो महादेवस्तन्सरोऽपश्यदन्तिके ॥ १ ॥

मूलम्

पुनः पुनः प्रेष्यमाणो ब्रह्मणा हरिणा च सः ।
ध्यानं कर्तुं तत्र मनः स्थिरं कृत्वा दृढात्मवान् ॥ २॥

आत्मानमात्मना द्रष्टुमात्मन्येव विशेषतः ।
परमं यत्नमकरोद् यानेन स्मरणशासनः ॥ ३ ॥

ध्याने प्रविष्टचित्तन्तु तं दृष्ट्वा द्रुहिणादयः ।
हरे प्रविष्टां मायाख्यां तुष्टुवुर्यतमानसाः ॥ ४ ॥

मायया मोहितो भर्गः सतीशोकाकुलो भृशम् ।
विलपत्येव तां तस्मिन् मोहयतुं जगत्प्रसूम् ॥ ५ ॥

स्तुत्वा शम्भुशरीरात्तु निःसार्येनां निराकुलाम् ।
शम्भुचित्तं करिष्यामो ध्यानासक्तं निरञ्जनम् ॥ ६ ॥

यावत् सती पुनर्देहं गृहीत्वा हरभामिनी ।
भवित्री तावदेवैष विशोको ध्यातु निष्कलम् ॥ ७ ॥

इति सञ्चिन्त्य मनसा ब्रह्माद्यास्त्रिदिवौकसः ।
योगनिद्रां महामाया स्तोतुमेवं समारभन ॥ ८ ॥

देवा ऊचुः

श्रीशक्ति पावनी तान्तु पुष्टिं परमनिष्कलाम् ।
वयं स्तुमो महाभक्त्या महदव्यक्तरूपिणीम् ॥ ९ ॥

शिवां शिवकरी शुद्धां स्थूलां सूक्ष्मां परावराम् ।
अन्तर्विद्यामविद्याख्यां प्रीतिमेकाग्रयोगनिम् ॥ १० ॥

त्वं मेधा त्वं धृतिस्त्वं ह्रीस्त्वएका सर्वगोचरा ।
त्वं दीधितिः सूर्यगता सुप्रपञ्चप्रकाशिनी ॥ ११ ॥

या तु ब्रह्माण्डसंस्थानं जगद्बीजेषु या जगत् ।
आप्याययति ब्रह्मादींस्तम्बान्तान् या त्वमापगा ॥ १२ ॥

य एकः सर्वजगतां प्राणभूतः सदागतिः ।
देवानाञ्च य आधारः स नभस्वांस्तवांशकः ॥ १३ ॥

एवं विसारि यत्तेजः सर्वत्रैव समिध्यते ।
तत्ते रूपं जगद्बीजं बहुधा यच्च दृश्यते ॥ १४ ॥

या ब्रह्मलोकपातालसान्तरालगता सदा ।
सा त्वं वियन्मध्यबहिर्ब्रह्माण्डस्य च सर्वतः ॥ १५ ॥

अचलाचलचक्रेण यन्त्रिता या प्रपञ्चसूः ।
जगद्धात्री लोकमाता सा च त्वं माधवी क्षितिः ॥ १६ ॥

त्वं बुद्धिस्त्वं तद्विषया त्वं माता छन्दसां गतिः ।
गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती ॥ १७ ॥

त्वं माता सर्वजगतां त्वं त्रयी कामरूपिणी ।
त्वं हि निद्रास्वरूपेण प्राणिनो निर्जरादयः ।
ये स्वर्गाद्योकसः सर्वान् सुखयन्ती प्रमोहसि ॥ १८ ॥

त्वं लक्ष्मीः पुण्यकर्त्रीणां पापिनां त्वं हि यातना ।
तथा नीतिभृतां श्रीश्च सुखदानैशिकी धृति ॥ १९ ॥

त्वं शान्तिः सर्वजगतां त्वं कान्तिश्चन्द्रगोचरा ।
त्वं धात्री सर्वभूतानां लक्ष्मीस्त्वं विष्णुमोहिनी ॥ २० ॥

त्वं तत्त्वरूपा भूतानां पञ्चानामपि सारकृत् ।
त्वं त्रिलोकी महामायां त्वं नीतिर्मोहकारिणी ॥ २१ ॥

संसारचक्रेष्वारोप्य सर्वभूतं महेश्वरः ।
भ्रामयन्नस्ति च यथा सा त्वं माया महेश्वरि ॥ २२ ॥

जयन्ती जययुक्तानां ह्रीर्विद्यां नीतिरुत्तमा ।
गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ॥ २३ ॥

समस्तगीर्वाणगणस्य शक्तिस्तमोमयी सत्त्वगुणैकदृश्या ।
रजःप्रपञ्चानुभवैककारिणी या न स्तुता भव्यकरीह सास्तु ॥ २४ ॥

संसारसागरकरालतरङ्गदुःखनिस्तारकारितरणिश्चिरीतिहीना ।
याष्टाङ्गरूपपरपावनकेलिगीतविक्षेपकारिणी गिरौ प्रणनाम तां वै ॥ २५ ॥

नासाक्षिवक्त्रभुजवक्षसि मानसे च धृत्वा सुखानि विदधाति सदैव जन्तोः ।
निद्रेति याति सुभगा जगतीभवानां सा नः प्रसीदतु धृतिस्मृतिवृत्तिरूपा ॥ २६ ॥

सृष्टिस्थित्यन्तरूपा या सृष्टिस्थित्यन्तकारिणी ।
सृष्टिस्थित्यन्तशक्तिर्या सा माया नः प्रसीदतु ॥ २७ ॥

मूलम्

सृष्टिस्थित्यन्तरूपा या सृष्टिस्थित्यन्तकारिणी ।
सृष्टिस्थित्यन्तशक्तिर्या सा माया नः प्रसीदतु ॥ २७ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

योगनिन्द्रा महामाया संस्तुतेयं तदा सुरः ।
हरस्य हृदयात् क्षिप्रं निःससार तदाञ्जसा ॥ २८ ॥

विनिःसृतायां तस्यां तु विवेश मधुसूदनः ।
शम्भोरन्त स्वयं तस्य शान्त्यर्थं विश्वरूपधृक् ॥ २९ ॥

प्रविश्य हृदयं तस्य कल्पे कल्पे यथाभवत् ।
सृष्टि स्थितिस्तथैवान्तस्तथादर्शयदच्युतः ॥ ३० ॥

यथा सती तस्य जायां भूता सा या च यत्सुता ।
तत् सर्वं दर्शयामास मुक्तदेहा च सा यथा ॥ ३१ ॥

बहिर्व्यक्त तु निःसारं प्रपञ्च रजसं बहु ।
दर्शयित्वा परं ज्योतिर्गतचितं तदाकरोत् ॥ ३२ ॥

ततो हरोऽपि तान् सर्वान् प्रपञ्चान् वीक्ष्य चासकृत् ।
निःसारांश्च तदा मत्वा सारे चित्तं न्यवेशयत् ॥ ३३ ॥

ब्रह्मादीनां तदा माया देवानां तैः परिष्टुता ।
प्रतिश्रुत्य च कर्तव्यं तत्रैवान्तर्दधे द्रुतम् ॥ ३४ ॥

भगवानपि वैकुण्ठः शम्भोश्चित्तं पदे पदे ।
संयम्य निःसृतः कायाद्राजेव रविमण्डलात् ॥ ३५ ॥

कृतकृत्यास्तदा देवा ब्रह्मनारायणादयः ।
स्वं स्वं स्थानं ययुः प्रीतियुतास्त्यक्त्वा हरं गिरौ ॥ ३६ ॥

ध्यानासक्तं महादेवं प्रणम्येन्द्रादयः सुराः ।
विज्ञाप्य मौनिनं देवं जग्मुः स्थानं स्वकं स्वकम् ॥ ३७ ॥

यातेषु तेषु देवेषु कपर्दी वृषवाहनः ।
सहस्रं दिव्यमानेन दध्यौ ज्योतिः परं समाः ॥ ३८ ॥

ऋषय ऊचुः

कथं मधुरिपुः शम्भोः प्रविश्य हृदयेऽञ्जसा ।
कल्पे कल्पे स्थितिं सृष्टिं संयमञ्चाप्यदर्शयत् ॥ ३६ ॥

यथा जगत्प्रपञ्चाय रजसा जगतीं गताः ।
निःसारता कथं तेषां दर्शिता कैटभारिणा ॥ ४० ॥

किन्नु सारतरं गुह्यं परं ज्योतिः सनातनम् ।
दर्शितं तेन तत् सत्यमाचक्ष्व द्विजसत्तम ॥ ४१ ॥

श्रोतुमिच्छाम इति ते मुनीन्द्राद्भूतमुत्तमम् ।
विस्तरादिदमाख्याहि धर्म निःश्रेयसं परम् ॥ ४२ ॥

मूलम्

श्रोतुमिच्छाम इति ते मुनीन्द्राद्भूतमुत्तमम् ।
विस्तरादिदमाख्याहि धर्म निःश्रेयसं परम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

आदिसर्गमहं वक्ष्ये वाराहं द्विजसत्तमाः ।
कल्पे कल्पे यथा सृष्टिर्वाराहे यादृशी भवेत् ॥ ४३ ॥

आदिसृष्टि दर्शयित्वा प्रतिसर्गं तथा हरिः ।
शम्भवं दर्शयामास प्रलयादीन् निबोधतः ॥ ४४ ॥

प्रलय प्रथमं वक्ष्ये सर्गमादि ततः परम् ।
प्रतिसर्ग ततो विप्रा वाराहं विनिबोधतः ॥ ४५ ॥

निमेषो नाम कालांशो नेत्रोन्मेषविलक्षितः ।
तैरष्टादशभिः काष्ठा काष्ठानां त्रिंशता कला ॥ ४६ ॥

कलाभिस्तावतीभिस्तु क्षणाख्यः परिकीर्तितः ।
क्षणैर्द्वादशभिः प्रोक्तो मुहूर्तस्तैस्तु त्रिंशता ॥ ४७ ॥

मानुषः स्यादहोरात्रः पक्षस्ते दश पञ्च च ।
पक्षाभ्यां मानुषो मासः पितॄणां तदहर्निशम् ॥ ४८ ॥

मासैर्द्वादशभिर्वर्षो देवानां तदहर्निशम् ।
कृष्णपक्षः पितॄणां तु कर्मार्थं दिवसो मतः ॥ ४९ ॥

स्वप्नार्थं शुक्लपक्षस्तु रजनी परिकीर्तिता ।
देवानां तु दिनं प्रोक्तं षण्मासा उत्तरायणम् ॥ ५० ॥

रात्रिः स्वप्नाय देवानां षण्मासा दक्षिणायणम् ।
द्वाभ्यां द्वाभ्यान्तु मासाभ्यामर्कजाभ्यामृतुः स्मृतः ॥ ५१ ॥

ऋतुभिश्चायनं प्रोक्तं त्रिभिस्तन्मानुषं मतम् ।
ऋतुभिर्वत्सरः षड्भिस्तांश्च शृणु पृथक् पृथक् ॥ ५२ ॥

चैत्रादि-मासयुगलैः सञ्ज्ञाभेदाद् द्विजोत्तमाः ।
वसन्तश्चैत्रवैशाखो ग्रीष्मो ज्येष्ठः शुचिस्तथा ॥ ५३ ॥

प्रावृट् नभोनभस्यौ तु शरत् स्यादिष-कार्तिकौ ।
सहः पौषौ च हेमन्तः शिशिरो माघफाल्गुनौ ॥ ५४ ॥

षडिमे ऋतवः प्रोक्ता यज्ञादौ विहिताः पृथक् ।
नृणां मानेन दशभिर्लक्षैः सप्तभिरुत्तरैः ।
अष्टाविंशतिसाहस्रैमनिं कृतयुगस्य तु ॥ ५५ ॥

सन्ध्या चतुःशतानीह वर्षाणामन्तरालतः ।
सन्ध्यांशस्तावता प्रोक्तस्तदन्तर्गत ईप्सितः ॥ ५६ ॥

त्रेता द्वादशभिर्लक्षैर्मानुषैर्वत्सरैर्भवेत् ।
षण्णवत्या सहस्रैश्च सन्ध्या चास्य शतत्रयम् ॥ ५७ ॥

शतत्रयं तु सन्ध्यांशस्तदन्तः परिकीर्तितः ।
चतुःषष्टिसहस्राणि लक्ष्याण्यष्टौ प्रमाणतः ॥ ५८ ॥

भवेद्युगं द्वापराख्यं तेषु सन्ध्या शतद्वयम् ।
शतद्वयं तु सन्ध्यांशस्तदन्तर्गत इष्यते ॥ ५९ ॥

द्वात्रिंशत्तु सहस्राणि चतुर्लक्षाणि वै कलेः ॥ ६० ॥

संवत्सरैर्भवेन्मानं सन्ध्यैकं प्रोच्यते शतम् ।
वत्सराणामेकशतं सन्ध्यांशश्च तदन्तरे ॥ ६१ ॥

एवं कृतश्च त्रेता च द्वापरश्च तथा कलिः ।
मानुषेण प्रमाणेन भवेद् युगचतुष्टयम् ॥ ६२ ॥

त्रिचत्वारिंशता लक्षैर्मानञ्चातुर्युगं भवेत् ।
सहस्रैरपि विंशत्या सन्ध्या सन्ध्यांशसंयुतम् ॥ ६३ ॥

दैवं दिनं वत्सरेण मानुषेण सरात्रकम् ।
एवं क्रमं गणित्वा तु मानुषीयैश्चतुर्युगैः ।
दैवं द्वादशसाहस्रं वत्सराणां प्रकीर्त्तितम् ॥ ६४ ॥

देवैर्द्वादशसाहस्रैर्वत्सरैदैविकं युगम् ।
तद्वै चतुर्युगं नृणां सन्ध्या सन्ध्यांशसंयुतम् ॥ ६५ ॥

देवानां तु कृते त्रेताद्वापरादिव्यवस्थया ।
न युगव्यवहारोऽस्ति न च धर्मादिभिन्नता ॥ ६६ ॥

किन्तु चातुर्युगं नारं भवेद्दैवयुगं सदा ।
दैविकैरेकसप्तत्या युगैर्मन्वन्तरं भवेत् ॥ ६७ ॥

दैवयुगसहस्रे द्वे ब्रह्मणः स्यादहर्निशम् ।
चतुर्युगसहस्रे द्वे नृणां मानेन तद्भवेत् ॥ ६८ ॥

एकस्मिन् ब्राह्मदिवसे मनव स्युश्चतुर्दश ।
एवं ब्राह्मणे मानेन दिवसैस्तु त्रिभिः शतैः ।
स-षष्टिभिर्वत्सरः स्याद् ब्राह्मो वर्षो नृणां यथा ॥ ६९ ॥

ब्राह्मै पञ्चशता वर्षैः परार्धः परिकीर्तितः ।
तदीश्वरस्य दिवसस्तावती रात्रीरीड्यते ॥ ७० ॥

शतेन ब्रह्मणो वर्षो कालः स्याद् द्विपरार्धकः ।
परार्धद्वितयेऽतीते ब्रह्मणः प्रलयो भवेत् ॥ ७१ ॥

प्रलीने ब्रह्मणि परे जगतां प्राकृतो लयः ।
समस्तजगदाधारमव्ययं यत् परात्परम् ॥ ७२ ॥

तस्य ब्रह्मस्वरूपस्य दिवारात्रस्य यद् भवेत् ।
तत्परं नाम तस्यार्धं परार्धम्मभिधीयते ॥ ७३ ॥

जगत्स्वरूपी भगवान् परमात्माक्षयोऽव्ययः ।
स्थूलात् स्थूलतमः सूक्ष्माद् यस्तु सूक्ष्मतमो मतः ।
न तस्यास्ति दिवारात्रिव्यवहारो न वत्सरः ॥ ७४ ॥

किन्तु पौराणिकैः पूर्वैरस्माभिरपि तादृशैः ।
सृष्टिप्रलयबोधार्थं कल्प्यते तदहर्निशम् ॥ ७५ ॥

स एव रात्रिः स दिवा स वर्षः स वै क्षितिः सृष्टिकरो हरश्च ।
स विष्णुरूपी पुरुषः पुराणस्तस्मिन् समस्तञ्च विभाति तद्वत् ॥ ७६ ॥

ततो ब्रह्मणि लीने तु परमात्मनि शाश्वते ।
जगत् सर्वं क्रमेणैव तद्रूपत्वाय गच्छति ॥ ७७ ॥

ब्रह्मणः शतवर्षान्ते रुद्ररूपी जनार्दनः ।
जगदन्तं स्वयं कृत्वा परमे लीनमेति वै ॥ ७८ ॥

प्रथमं सविता सर्वं स्थावरं जङ्गमं तथा ।
तीव्रैः करैः शोषयित्वा जलं सर्वं ग्रहीष्यति ॥ ७९ ॥

शुष्का वृक्षास्तृणगणाः प्राणिनः पर्वतास्तथा ।
चूर्णीकृत्वा विशीर्णा स्युर्दिव्यवर्षशतेन तु ॥ ८० ॥

ततो द्वादशसूर्यस्य रश्मयः प्रबला भृशम् ।
अभवन् द्वादशादित्या जगद्भोग्योपबृंहिताः ॥ ८१ ॥

रश्मिद्वारेण सकलास्सूर्यास्ते भुवनानि च ।
अदहन् पृथिवी द्यौश्च मेदिनी चोष्णतां गता ॥ ८२ ॥

ततो विनष्टे सकले स्थावरे जङ्गमे तथा ।
आदित्यरश्मितौ देवो रुद्ररूपी जनार्दनः ॥ ८३ ॥

निःसृत्य प्रथमं यातः पातालतलमुन्नतः ॥ ८४ ॥

सप्तपातालसंस्थांस्तु नागगन्धर्वराक्षसान् ।
देवानृषींश्च शेषञ्च जघान वरशूलधृक् ॥ ८५ ॥

एवं स्वर्गे च पाताले पृथिव्यां सागरेषु च ।
ये प्राणिनस्तान् समस्तान् जघान स जनार्दनः ॥ ८६ ॥

ततो मुखान्महावायुं रुद्रश्च सृष्टवान् स्वयम् ।
सोऽव्याहतगतिर्गाढं ससार भुवनत्रये ॥ ८७ ॥

यावद्वर्षशतं वायुर्भ्रमन् भुवनगर्भगः ।
सर्वमुत्सारयामास यत् किञ्चत्तुलाराशिवत् ॥ ८८ ॥

समस्तं तत् समुत्सार्य जगद्वर्ति समन्ततः ।
विवेश द्वादशादित्यान् स वायुर्जवनाधिकः ॥ ८९ ॥

प्रविश्य मण्डलं तेषां तेजोभिः सह मारुतः ।
महामेघान् समारेभे रुद्रेण प्रतियोजितः ॥ ९० ॥

ततस्ते प्रेरिता मेघास्तेन वातेन वेगिना ।
रुद्रेणाप्यतिरौद्रेण पर्याववुर्नभस्तलम् ॥ ९९ ॥

संवर्ताख्या महामेघा भिन्नाञ्जनचयोपमाः ।
केचिद्धूम्रा शोणवर्णाः शुक्लाश्चित्राश्च भीषणाः ॥ ९२ ॥

केचिच्च पर्वताकाराः केचिन्नागसमप्रभाः ।
प्रासादसदृशाः केचित् क्रौञ्चवर्णाविभीषणाः ॥ ९३ ॥

गर्जन्त्स्ते महामेघा वर्षाणामधिकं शतम् ।
ववृषुस्त्रीनथो लोकान् प्लावयन्तो महास्वनाः ॥ ९४ ॥

अथ स्तम्भप्रमाणेन धारापातेन वै दृढम् ।
धारासारेण महता पूरितं भुवनत्रयम् ॥ ९५ ॥

मूलम्

अथ स्तम्भप्रमाणेन धारापातेन वै दृढम् ।
धारासारेण महता पूरितं भुवनत्रयम् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

आध्रु वस्थानमासाद्य तोयराशौ स्थिते ततः ।
स मुखादसृजद्वायुं रुद्ररूपी जनार्दनः ॥ ९६ ॥

तेनौघवायुनाक्षिप्ता मेघाः संवत्सराञ्छतम् ।
अव्याहतगतेनाशु विध्वस्ता अभवंस्ततः ॥ ९७ ॥

नष्टेषु तेषु मेघेषु जनलोकादिकं पुनः ।
रुद्रस्त्वाब्रह्मभुवनं ध्वंसयामास निर्दयः ॥ ९८ ॥

विध्वस्तेषु समस्तेषु भुवनेषु विशेषतः ।
विनष्टे ब्रह्मलोके च रुद्रोऽगाद् द्वादशारुणान् ॥ ९९ ॥

स गत्वा द्वादशादित्यान् वेगेन महता हरिः ।
अग्रसच्चातिजज्वाल तैर्गर्भस्थैर्दिवाकरैः ॥ १०० ॥

ततो ब्रह्माण्डमासाद्य रुद्रः कालान्तकोपमः ।
चूर्णीचकार सकलं मुष्टिपेषं महाबलः ॥ १०१ ॥

चूर्णीकुर्वन्तु ब्रह्माण्डं पृथिव्यपि विचूर्णिता ।
तोयानि च समस्तानि स दध्रे योगतो हरिः ॥ १०२ ॥

यद् ब्रह्माण्डाद्बहिस्तोयं स्थितं पूर्वं समन्ततः ।
यद्वाभ्यन्तर्गतं तोयं तत् सर्वञ्चैकतां गतम् ॥ १०३ ॥

एकीभूतेषु तोयेषु सर्वव्यापिषु सर्वतः ।
ब्रह्माण्डखण्डपूर्णौधः प्लवन्नासीत् स नौरिव ॥ १०४ ॥

ततः पृथिव्याः सारन्तु गन्धं तन्मात्रकं क्रमात् ।
अम्भो जग्राह सकलं विनष्टा पृथिवी ततः ॥ १०५ ॥

पुनः स रुद्रस्तेजांसि गर्भस्थानि स्वकायतः ।
निःसारयामास पुनः पुञ्जोभूतानि भीषणः ॥ १०६ ॥

तानि तेजांसि सकलं जगृहुः सर्वतः स्थितम् ।
अन्तर्बहिश्च ब्रह्माण्डात्तेजो यच्चान्यतो गतम् ॥ १०७ ॥

जगद्गतं सर्वतेजो गृहीत्वा चैकतो ज्वलन् ।
रौद्रब्रह्माण्डखण्डानि तेजोऽथ न्यदहज्जले ॥ १०८ ॥

दग्ध्वा ब्रह्माण्डचूर्णानि तेजांस्युज्ज्वलितानि च ।
जलेभ्यो रसतन्मात्रं सारभूतं ततोऽग्रहीत् ।
गृहीतसारास्ता आपः प्रनष्टास्तेजसा ततः ॥ १०९ ॥

अप्सु नष्टासु तत्तेजः प्रविश्याथ सदागतिः ।
एकीभूतो महाभागो रूपं तन्मात्रमग्रहीत् ॥ ११० ॥

गृहीते रूपतन्मात्रे तेजांसि सकलान्यथ ।
विनष्टानि ततो वायुः प्रबलोऽभूदवारितः ॥ १११ ॥

महास्वनं ततो वायुमासाद्याग्निरिव ज्वलन् ।
रुद्रः सङ्क्षोभयामास तदाकाशं स्वयं ततः ॥ ११२ ॥

तेन सङ्क्षुब्धमाकाशमग्रहीन्मरुतस्ततः ।
तद्गतं स्पर्शतन्मात्रं ततो नष्टः प्रभञ्जनः ॥ ११३ ॥

नष्टे वायौ ततो रुद्र आकाशात् सारमग्रहीत् ।
शब्दतन्मात्रकं तस्मिन् गृहीते विगतं वियत् ॥ ११४ ॥

नष्टे नभसि रुद्रोऽसौ काये ब्राह्मे तदाविशत् ।
ब्राह्मं तदाकुलं कायं निराधारं निराकुलम् ।
विवेश वैष्णवे काये शङ्खचक्रगदाधरे ॥ ११५ ॥

ततः शौरिर्महातेजाः कायं तत् पाञ्चभौतिकम् ।
शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् ।
स्वशक्त्या सञ्जाहाराशु सारमादाय सर्वतः ॥ ११६ ॥

निराधारं निराकारं निःसत्त्वं निरवग्रहम् ।
आनन्दमयमद्वैतं द्वैतहीनाविशेषणम् ॥ ११७ ॥

न स्थूलं न च सूक्ष्मं यज्ज्ञानं नित्यं निरञ्जनम् ।
एकमासीत् परं ब्रह्म स्वप्रकाश समन्ततः ॥ ११८ ॥

नाहो न रात्रिर्न वियन्न पृथ्वी नासीत्तमो ज्योतिरभून्नचान्यत् ।
श्रोत्रादिबुद्ध्याद्युपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥ ११९ ॥

एवं यावत्स्थितां सृष्टिस्तावत् कालमसृष्टिकम् ।
आसीदेकं परं तत्त्वं ततः सृष्टिः प्रवर्तते ॥ १२० ॥

प्रकृतौ संस्थितो यस्मात् सर्वतन्मात्रसञ्चयः ।
अहङ्कारं महत्तत्त्वं गतो यत् प्राकृतो लयः ॥ १२१ ॥

प्रकृतौ संस्थितं व्यक्तमतीत प्रलयन्तु तत् ।
तस्मात् प्राकृतसञ्ज्ञोऽयमुच्यते प्रतिसञ्चरः ॥ १२२ ॥

अयं वः कथितो विप्राः प्राकृताख्यो महालयः ।
आदिसृष्टिं शृणुष्वेमां कथ्यमानां मया पुनः ॥ १२३ ॥

इति श्रीकालिकापुराणे संहारकथनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥