२३

विश्वास-प्रस्तुतिः

त्रयोविंशोऽध्यायः

मार्कण्डेय उवाच

अथ सा ववृधे देवी तस्मिन् मुनिवराश्रमे ।
चन्द्रभागानदीतीरे तापसारण्यसञ्ज्ञके ॥ १ ॥

मूलम्

यथा चन्द्रकला शुक्लपक्षे नित्यं विवर्धते ।
यथा ज्योत्स्ना तथा सापि प्राप वृद्धिमरुन्धती ॥ २ ॥

सम्प्राप्ते पञ्चमे वर्षे चन्द्रभागा तदा गुणैः ।
तापसारण्यमपि सा पवित्रमकरोत् सती ॥ ३ ॥

तत्र तीर्थं महापुण्यं मेधातिथिनिषेवितम् ।
क्रीडास्थानमरुन्धत्याः पूतं बाल्योचितं कृतम् ॥ ४ ॥

अद्यापि तापसारण्ये चन्द्रभागानदीजले ।
अरुन्धतीतीर्थतोये स्नात्वा याति हरिं नरः ॥ ५ ॥

कार्तिकं सकलं मासं चन्द्रभागानदीजले ।
स्नात्वा विष्णुगृहं गत्वा ह्यन्ते मोक्षमवाप्नुयात् ॥ ६ ॥

माघे मासि पौर्णमास्याममायां वा तथैव च ।
चन्द्रभागाजले स्नानं यस्तु कुर्यात् सकृत् सकृत् ॥ ७ ॥

तस्य वंशे राजयक्ष्मा न कदाचिद् भविष्यति ।
देहान्ते चन्द्रभवनं गत्वा याति हरेर्गृहम् ॥ ८ ॥

पुण्यक्षयादिहागत्य वेदज्ञो ब्राह्मणो भवेत् ।
चन्द्रभागाजलं पीत्वा चन्द्रलोकमवाप्नुयात् ॥ ९ ॥

सकृत् स्नात्वा तु विधिवद्वाजिमेधायुतं लभेत् ॥ १० ॥

चन्द्रभागाजले स्नात्वा क्रीडन्तीं बाल्यलीलया ।
पितुः समीपे तत्तीरे कदाचित्तामरुन्धतीम् ।
गच्छन्नाकाशमार्गेण ददर्श कमलासनः ॥ ११ ॥

अथावतीर्य भगवान् ब्रह्मा लोकपितामहः ।
अरुन्धत्यास्तदा कालमुपदेशे ददर्श ह ॥ १२ ॥

अथोवाच तदा ब्रह्मा मुनिभिः परिपूजितः ।
मेधातिथिप्रभृतिभिरुचितं तं महामुनिम् ॥ १३ ॥

ब्रह्मोवाच

उपदेशस्य कालोऽयमरुन्धत्या महामुने ।
तस्मादेनां सतीनान्तु स्त्रीणां त्वं कुरु सन्निधिम् ॥ १४ ॥

स्त्रिभिस्त्रियश्चोपदेश्याः काचिदन्यत्र विद्यते ।
बहुलायाश्च सावित्र्याः पुत्री त्वं स्थापयान्तिके ॥ १५ ॥

तयोः संसर्गमासाद्य पुत्री तव महामुने ।
महागुणैश्वर्ययुता न चिरात् तु भविष्यति ॥ १६ ॥

मेधातिथिर्वचः श्रुत्वा ब्रह्मणः परमात्मनः ।
एवमेवेति प्रोवाच तं तदा मुनिसत्तमः ॥ १७ ॥

ततो गते सुरश्रेष्ठे पुत्रीं मेधातिथिर्मुनिः ।
समादाय ययौ सूर्यभवनं प्रति तत्क्षणात् ॥ १८ ॥

ददर्श तत्र सावित्रीं सूर्यमण्डलमध्यगाम् ।
पद्मासनगतां देवीमक्षमालाधरां सिताम् ॥ १९ ॥

दृष्टा सा तेन मुनिना निःसृत्य रविमण्डलात् ।
बहुला सा गता तूर्णं मानसभूभृतः ॥ २० ॥

प्रत्यहं तत्र सावित्री गायत्री बहुला तथा ।
सरस्वती च द्रुपदा पञ्चैता मानसाचले ॥ २१ ॥

धर्माख्यानैस्तथा साध्वीः कथाः कृत्वा परस्परम् ।
स्व खं स्थानं पुनर्याति लोकानां हितकाम्यया ॥ २२ ॥

मेधातिथिस्तु ताः सर्वा दृष्ट्वैकत्र तपोधनः ।
मातृः सर्वस्य लोकस्य प्रणनाम पृथक् पृथक् ॥ २३ ॥

उवाच च स ताः सर्वा ऋषिः श्लक्ष्णं तपोधनः ।
ससाध्वसो विस्मितश्च तासामेकत्र दर्शनात् ॥ २४ ॥

मेधातिथिरुवाच

मातः सावित्रि बहुले मत्पुत्रीयं शुभाशया ।
कालोऽयमुपदेशेऽस्यास्तदर्थमहमागतः ॥ २५ ॥

जगत्स्रष्ट्रा समादिष्टा प्रयातु तव शिष्यताम् ।
एषा तेन भवत्पार्श्वमानीता पुत्रिका मम ॥ २६ ॥

सौचारित्र्यं यथाऽस्याः स्यात्तथैनां बालिकां मम ।
युवा विनयतं देव्यौ मातर्मातर्नमोऽस्तु वाम् ॥ २७ ॥

अथोवाच तदा देवी सावित्री मुनिसत्तमम् ।
स्मितपूर्व बहुलया सहिता ताञ्च बालिकाम् ॥ २८ ॥

ते ऊचतुः

ब्रह्मन् विष्णोः प्रसादेन सुचरित्रा भवत्सुता ।
पूर्वमेव मुने भूता तद्दुद्देशेन किं पुनः ॥ २९ ॥

किं त्वहं ब्रह्मवाक्येण बहुला च महासती ।
विनेष्यावस्तव सुतां धीरा स्यान्नचिराद् यथा ॥ ३० ॥

ब्रह्मणः पूर्वदुहिता भवतस्तु तपोबलात् ।
तथा विष्णोः प्रसादेन सुता तेऽभूदरुन्धती ॥ ३१ ॥

कुलं पुनाति भवतः सत्यसौ वर्धयिष्यति ।
लोकानामथ देवानां शिवमेषा करिष्यति ॥ ३२ ॥

मूलम्

कुलं पुनाति भवतः सत्यसौ वर्धयिष्यति ।
लोकानामथ देवानां शिवमेषा करिष्यति ॥ ३२ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

अथ ताभिर्विसृष्टः स मुनिर्मेधातिथिः सुताम् ।
आश्वास्यारुन्धती नत्वा ताः स्वस्थानं जगाम ह ॥ ३३ ॥

गते तस्मिन् मुनिवरे सह ताभ्यामरुन्धती ।
मातृभ्यामिव निर्भीता पालिता मोदमाप सा ॥ ३४ ॥

कदाचित् सह सावित्र्या रात्रौ याति रवेर्गृहम् ।
तथा बहुलया याति शक्रगेहं कदाचन ॥ ३५ ॥

एवं ताभ्यां समं देवी विहरन्ती सुरालये ।
निनाय दिव्यमानेन सा सप्त परिवत्सरान् ॥ ३६ ॥

ताभ्यां तथोपविष्टा सा स्त्रीधर्ममचिरात् सती ।
सर्व ज्ञातवती भूता सावित्री-बहुलाधिका ॥ ३७ ॥

अथ तस्यास्तदा काले सम्प्राप्ते उचितेऽभवत् ।
शोभनो यौवनोद्भेदः पद्मिनीनां रुचिर्यथा ॥ ३८ ॥

उद्भूतयौवना सा तु वसिष्ठं मानसाचले ।
विहरन्ती ददर्शिका चारुतेजस्विनं मुनिम् ॥ ३९ ॥

दृष्ट्वा तमिच्छयाञ्चक्रे कामभावेन सा सती ।
बालसूर्यप्रभं चारुरूपं ब्रह्मश्रिया युतम् ॥ ४० ॥

अथ सोऽपि महातेजा वसिष्ठो वरवर्णिनीम् ।
दृष्टैवोद्भूतमदनो वीक्षाञ्चक्रे त्वरुन्धतीम् ॥ ४१ ॥

तयो परस्परं दृष्ट्वा ववृधे हृच्छयो महान् ।
अमर्यादं द्विजश्रेष्ठाः प्राकृते मदनो यथा ॥ ४२ ॥

अथ धैर्यं समालम्ब्य तथा मेधातिथेः सुता ।
आत्मानं धारयामास मनश्च मदनेरितम् ॥ ४३ ॥

वसिष्ठोऽपि महातेजा धैर्यमालम्ब्य चात्मनः ।
मनः संस्तम्भयामास मदनोन्मथितं ततः ॥ ४४ ॥

अरुन्धती ततो देवी विहाय मुनिसन्निधिम् ।
जगाम यत्र सावित्री निन्दन्ती स्वं मनोरथम् ॥ ४५ ॥

बाध्यमानातिदुःखेन मानसेन महासती ।
सतीभावः परित्यक्तश्चिन्तयन्ती मयेति वै ॥ ४६ ॥

तस्या मनोजदुःखेन विवर्णमभवन्मुखम् ।
शरीरं सकलं म्लानं गतिश्च वलिताभवत् ॥ ४७ ॥

इदं विममृषे सा च गर्हयन्ती स्वकं मनः ।
मृणालतन्तुवत् सूक्ष्मा क्षिन्ना च तत्क्षणादपि ॥ ४८ ॥

स्थितिः सतीनामल्पेन चापल्येनैव नश्यति ।
इति स्त्रीधर्ममध्याप्य मामाह चरितव्रता ॥ ४९ ॥

सावित्री सारमेतधि सतीधर्मस्य चोद्धृतम् ।
तदद्य नाशितं पुंसि परकीये मनोरथम् ॥ ५० ॥

वर्द्धयन्त्या तदा किं मे परत्रेह भविष्यति ।
इति सञ्चिन्तयन्ती सा पुत्री मेधातिथेस्तदा ॥ ५१ ॥

दुःखार्ता बहुलां देवीं सावित्रीं चाससाद ह ।
तथाविधान्तु तां दृष्ट्वा विवर्णवदनां सतीम् ॥ ५२ ॥

ध्यानचिन्तापरा भूतां सावित्री विममर्ष ह ।
विमृष्य दिव्यज्ञानेन सर्वं ज्ञातवती सती ॥ ५३ ॥

वसिष्ठेन त्वरुन्धत्या यथाभूद्दर्शन तथा ।
यथा तयोः सम्प्रवृद्धो मनोजश्चातिदुःसहः ॥ ५४ ॥

मुखवैवर्ण्यहेतुश्च सावित्री दिव्यदर्शिनी ।
अथ मेधातिथेः पुत्र्या मूर्ध्नि हस्तं निवेश्य सा ॥ ५५ ॥

इदमाह महादेवी सावित्री चरितव्रता ।

सावित्युवाच

वत्स तव मुखं कस्माद्भिन्नवर्णमभूदिदम् ॥ ५६ ॥

छिन्ननालं यथापद्मं सूर्यांशुपरितापितम् ।
कथं शरीरमभवत् म्लानं ते गुणवत्तमे ॥ ५७ ॥

यथा निशापतेर्विम्बं तनुकृष्णाभ्रसंवृतम् ।
अन्तर्मनश्च ते भद्रे सचिन्तमिव लक्ष्यते ।
तन्मे कथय ते गुह्यं नैतच्चेद्दुःस्वकारणम् ॥ ५८ ॥

अथ साधोमुखी भूत्वा किञ्चिन्नोवाच लज्जया ।
सावित्रीं मातरं गुर्वीं तथा पृष्टाप्यरुन्धती ॥ ५९ ॥

यदा दोक्तवती किञ्चित्तदा नेधातिथेः सुता ।
स्वयं प्रकाश्य सावित्री तामुवाच तपस्विदी ॥ ६० ॥

वत्से योऽसौ त्वया दृष्टो मुनिर्भास्करसन्निभः ।
स वसिष्ठो ब्रह्मसुतस्तव स्वामी भविष्यति ।
तव तस्य च दाम्पत्यं पुरा धात्रैव निर्तिम् ॥ ६१ ॥

अतस्तव सतीभावो न हीनस्तस्य दर्शनात् ।
यद्वा तवाभूद्ध्रदयं सकामं तस्य दर्शनात् ॥ ६२ ॥

न तद्दोषकरं पुत्रि मनोदुःखं ततस्त्यज ।
त्वया परं तपः कृत्वा पूर्वजन्मनि शोभने ॥ ६३ ॥

वृतः स एव दयितः सकामस्तेन स त्वयि ।
शृणु पूर्वं त्वया वत्से वसिष्ठोऽयं वृतः पतिः ।
यथा तपः कृतं तत्र येन भावेन सन्ततम् ॥ ६४ ॥

इत्युक्त्वा सा च सावित्री यथा सन्ध्याभवत् पुरा ॥ ६५ ॥

कृतं तपो यदर्थन्तु चन्द्रभागाह्वये गिरौ ।
वसिष्ठेन यथा पूर्वं वर्णिरूपेण वेधसः ॥ ६६ ॥

वचनादुपदिष्टा सा तपश्चर्यां दुरत्ययाम् ।
यथा प्रसन्नो बह्गवान् विष्णुः प्रत्यक्षतां गतः ॥ ६७ ॥

वरं यथा ददौ तस्ये मर्यादा स्थापिता यथा ।
यथा वा वाञ्छितः स्वामी वसिष्ठः स तया मुनिः ॥ ६८ ॥

मेधातिथेर्यथा यज्ञे वह्नौ त्यक्तं तवया वपुः ।
यथा तत्तनया जाता तस्यैतद्विस्तरात् तदा ॥ ६९ ॥

सावित्री कथयामास क्रमाद् बहुलया सह ॥ ७० ॥

अथ तस्या वचः श्रुत्वा यदभूत् पूर्वजन्मनि ।
तच्छ्रुत्वा वै तदा ज्ञातं मम सर्वं मनोगतम् ॥ ७१ ॥

इत्यतीवत्रपां प्राप्य सातीवाभुदधोमुखी ।
सावित्रीवचनाद्भूता पूर्वजन्मस्मरा च सा ॥ ७२ ॥

तथैवाधोमुखी भूत्वा यद्वृत्तं पूर्वजन्मनि ।
तस्य सर्वस्य सस्मार दिव्यज्ञारुन्धती तदा ॥ ७३ ॥

पूर्वं विष्णुप्रसादेन सा भूत्वा दिव्यदर्शिनी ।
अधुना बाल्यभावेन प्रच्छन्ना दिव्यदर्शना ॥ ७४ ॥

सावित्रीवचनाच्छ्रुत्वा वृत्तान्तं पूर्वजन्मनः ।
प्रत्यक्षमिव तत् सर्वं पूर्वज्ञानमवाप सा ॥ ७५ ॥

अवाप्य पूर्वं ज्ञानं तद् यद् दत्तं विष्णुणा पुरा ।
वसिष्ठोऽयं वृतं स्वमी मया वै पूर्वजन्मनि ॥ ७६ ॥

इति ज्ञानवती देवी सामोदारुन्धती स्वयम् ।
वसिष्ठदर्शनाद्भूते पूर्वं तस्यास्तु हृच्छये ॥ ७७ ॥

यथातङ्कः समुत्पन्नः सतीत्वस्य निवारणे ।
तञ्च स्वयं सा तत्याज तदा मेधातिथेः सुता ॥ ७८ ॥

त्यक्तचिन्तां ततस्तान्तु विज्ञायारुन्धतीं सतीम् ।
सावित्री सूर्यभवनं तया सार्धं जगाम ह ॥ ७९ ॥

अरुन्धती निवेश्याथ सावित्री सूर्यमन्दिरे ।
जगाम ब्रह्मभवनं सर्वज्ञा सा सतीवरा ॥ ८० ॥

अथ प्रणम्य ब्रह्माणं पृष्टा तेनैव तत्क्षणात् ।
इदं जगाद सावित्री ब्रह्माणममितौजसम् ॥ ८१ ॥

भगवन् जगता नाथ वसिष्ठं भवतः सुतम् ।
मानसस्य गिरेः सानौ ददर्शारुन्धती सती ॥ ८२ ॥

तयोर्दर्शनमात्रेण ववृधे हृच्छयो महान् ।
परस्परं तौ स्पृहयाञ्चक्रतुश्च प्रजापते ॥ ८३ ॥

ततो धैर्यात्तु संस्तभ्य मनोजं तौ सुदुःखितौ ।
विमनस्कौ गतौ स्थानं लज्जितौ तौ स्वकं स्वकम् ॥ ८४ ॥

एवम्प्रवृत्ते यद्योग्यं तदा त्वेतद्विधीयताम् ।
आयत्याञ्च सुरश्रेष्ठे लोकानां हितकाम्यया ॥ ८५ ॥

इति श्रुत्वा वचस्तस्या ब्रह्मा सर्वजगद्गुरुः ।
ददर्श दिव्यज्ञानेन प्रवृत्तिं भाविकर्मणः ॥ ८६ ॥

इदञ्च स्वागतं प्रोचे तदा लोकपितामहः ।
तयोर्दाम्पत्यभावस्य कालोऽयं समुपस्थितः ॥ ८७ ॥

अतो लोकहितार्थाय यास्येऽहं तत्प्रवृत्तये ।
इति निश्चित्य मनसा सावित्रीसहितो विधिः ।
जगाम मानसप्रस्थं यत्राभूद् दर्शनं तयोः ॥ ८८ ॥

पितामहे तत्र याते शर्वः सुरगणैर्युतः ।
नन्दिभृङ्गिप्रभृतिभिः समायातो वृषध्वजः ॥ ८९ ॥

भगवान् वासुदेवोऽपि ब्रह्मणा परिचिन्तितः ।
भक्त्या सोऽपि जगन्नाथः शङ्खचक्रगदाधरः ।
स्थितौ ब्रह्महरौ यत्र तत्रैव स्वयमागतः ॥ ९० ॥

अथ ते जगता नाथा ब्रह्मविष्णुमहेश्वराः ।
नारदं प्रेषयामासुर्दूत मेधातिथि प्रति ॥ ९१ ॥

याहि द्रुतं नारद त्व चन्द्रभागाह्वय गिरिम् ।
मुनिस्तस्योपत्यकायामास्ते मेधातिथिः परः ॥ ९२ ॥

तमानय यथाकालमस्माकं वचनात् स्वयम् ।
मेधातिथि समादाय भवानागच्छतु द्रुतम् ॥ ९३ ॥

ब्रह्मादीनां वचं श्रुत्वा नारदोऽपि द्रुतं ययौ ।
मेधातिथि समानेतु महाकार्यस्य सिद्धये ॥ ९४ ॥

मेधातिथि समाभाष्य देवानां वचनैस्ततः ।
मेधातिथि समादाय ययौ मानसपर्वतम् ॥ ९५ ॥

मूलम्

मेधातिथि समाभाष्य देवानां वचनैस्ततः ।
मेधातिथि समादाय ययौ मानसपर्वतम् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

सेन्द्रा देवगणाः सर्वे मुनयश्च तपोधनाः ।
साध्या विद्याधरा यक्षा गन्धर्वाश्च समागताः ॥ ९६ ॥

देवाश्च सर्वे देव्यश्च ये देवानुचरास्तथा ।
ते सर्वे मानसप्रस्थं याताश्चान्ये च जन्तवः ॥ ९७ ॥

अथ भूते समाजे तु देवानां कमलासनः ।
मेधातिथिं मुनिं वाक्यमिदमाहातिदेशयन् ॥ ९८ ॥

मेधातिथे वसिष्ठाय पुत्रीं ते चरितव्रताम् ।
देहि ब्राह्मणे विधिना समाजे त्रिदिवौकसाम् ॥ ९९ ॥

वधूवरत्वमनयोः पूर्वं सृष्टं मयैव हि ।
हरिणां चाप्यनुज्ञातं कर्म चैतत् समञ्जसम् ॥ १०० ॥

एवं कृते तव कुले भविष्यति महद्यशः ।
हितं च सर्वभूतानां देहि त्वां मां चिरं कृथाः ॥ १०१ ॥

ततो ब्रह्मवचं श्रुत्वा ह्यतिप्रमोदितो मुनिः ।
एवमस्त्विति चोवाच नत्वा तान् सुरपुङ्गवान् ॥ १०२ ॥

एषा तु वचनात् पुत्रीमादायारुन्धती मुनिः ।
ध्यानस्थस्य वसिष्ठस्य देवैः सह जगाम ह ॥ १०३ ॥

गत्वा वसिष्ठनिकटं देवैः परिवृतो मुनिः ।
ब्राह्मश्रिया दीप्यमान ज्वलन्तमिव पावकम् ॥ १०४ ॥

धर्मार्थकाममोक्षेषु धृतबुद्धि पृथक् पृथक् ।
ददर्श मुनिमासीनं मानसाचलकन्दरे ॥ १०५ ॥

वसिष्ठमोजस्विवर बालसूर्यमिवोदितम् ।
अथ पुत्रीमग्रगता कृत्वा मेधातिथिर्मुनिः ।
वसिष्ठ नियतात्मानमुवाचारुन्धतीपिता ॥ १०६ ॥

ऋषिरुवाच

भगवन् ब्रह्मणः पुत्र पुत्रीं मे चरितव्रताम् ।
दत्तां प्रतिगृहाणैनां मया ब्राह्मेण धर्मतः ॥ १०७ ॥

यत्र यत्राश्रमे ब्रह्मन् स्वेच्छया निवसिष्यसि ।
त्वद्भक्त्यैषा भवित्री चच्छायेवानुगता तव ॥ १०८ ॥

तत्र तत्रैव मे पुत्री समानव्रतचारिणी । पतिव्रता वरारोहा शुश्रूषां ते करिष्यति ॥
१०९ ॥

मूलम्

तत्र तत्रैव मे पुत्री समानव्रतचारिणी । पतिव्रता वरारोहा शुश्रूषां ते करिष्यति ॥
१०९ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इति श्रुत्वा वसिष्ठस्तु मुनेर्मेधातिथेर्वचः ।
दृष्ट्वा समागतान् देवान् ब्रह्मविष्णुशिवादिकान् ॥ ११० ॥

अवश्यमेतद्भावीति निश्चित्य दिव्यचक्षुषा ।
ब्रह्मणः सम्मते पुत्रीं तदा मेधातिथेर्मुनेः ।
वसिष्ठः प्रतिजग्राह वाढमित्युक्तवांश्च ह ॥ १११ ॥

गृहीतपाणिः सा देवी वसिष्ठेन महात्मना ।
पत्युः पादयुगे चक्षुर्युगं न्यस्तवती सती ॥ ११२ ॥

ततो ब्रह्मा च विष्णुश्च रुद्रश्चान्ये तथामराः ।
विवाहविधिना तौ तु मोदयाञ्चक्रुरुत्सवैः ॥ ११३ ॥

सावित्रीप्रमुखा देव्यो देवाश्चेन्द्रादयस्तथा ।
दक्षाद्याः कश्यपाद्यास्तु मुनयोऽतितपोधनाः ॥ ११४ ॥

उन्मुच्य ब्रह्मवचनाद्वल्कलञ्चाजिनं जटाः ।
मन्दाकिनीजलेनाशु स्नापयित्वा सुतं विधेः ॥ ११५ ॥

जाम्बुनदैस्तथा दिव्यैर्भूषणैश्च मनोहरैः ।
वसिष्ठं भूषयाञ्चक्रुस्तथैवारुन्धतीं सतीम् ॥ ११६ ॥

भूषयित्वाथ तौ तत्र समाप्य मुनिभिर्विधिम् ।
विवाहावभृथं चक्रुस्तयोर्विधिहरीश्वराः ॥ ११७ ॥

निधाय सर्वतीर्थानां तोयं जाम्बुनदे घटे ।
आशीर्वादकरैर्मन्त्रैर्गायत्र्या द्रुपदादिभिः ॥ ११८ ॥

स्वयं तौ स्नापयाञ्चक्रुर्ब्रह्माविष्णुमहेश्वराः ।
ततो महर्षयश्चान्ये तथा देवर्षयश्च ये ॥ ११९ ॥

ते सर्वे ऋग्यजुःसामवेदभागैर्महास्वरैः ।
गङ्गादि सरितां तोयैश्चक्रुः शान्तिं तयोर्मुहुः ॥ १२० ॥

भुवनत्रयसञ्चारि विमानं सूर्यवर्चसम् ।
अव्याहतगतिं ब्रह्मा सतोयञ्च कमण्डलुम् ॥ १२१ ॥

ताभ्यां दायं ददौ विष्णुर्दुष्प्रापं स्थानमुत्तमम् ।
यदूर्ध्वं सर्वदेवानां मरीच्यादेः समीपतः ॥ १२२ ॥

सप्तकल्पान्तजीवित्वं रुद्रः प्रादात्तयोर्वरम् ।
अदितिः कुण्डलयुगं ब्रह्मणा निर्मितं स्वकम् ।
ददौ स्वकर्णादाकृष्य पुत्र्यै मेधातिथेस्तदा ॥ १२३ ॥

पतिव्रतात्वं सावित्री बहुला बहुपुत्रताम् ।
देवेन्द्रो बहुरत्नानि धनेशेन समं ददौ ॥ १२४ ॥

एवं देवाश्च मुनयो देव्यश्चान्ये च ये स्थिताः ।
ददुस्तत्र यथायोग्यं दायं ताभ्यां पृथक् पृथक् ॥ १२५ ॥

एवं विवाह्य विधिवत् सौवर्णे मानसाचले ।
अरुन्धती वसिष्ठस्तु मोदमाप तया सह ॥ १२६ ॥

तत्र यत् पतितं गोयं मानसाचलकन्दरे ।
विवाहावभृथार्थाय शान्त्यर्थे च सुराहृतम् ॥ १२७ ॥

ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम् ।
तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात् ॥ १२८ ॥

हिमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक् ।
तत्तोयं पतितं शिप्रे देवभोग्ये सरोवरे ॥ १२९ ॥

तेन शिप्रानदीजाता विष्णुना प्रेरिता क्षितौ ।
महाकौषी प्रपाते तु यद्वारि पतितं तु वै ॥ १३० ॥

कौषिकी नाम सा जाता विश्वामित्रावतारिता ।
उमा क्षेत्रे यत् पतितं तोयं तेन महानदी ॥ १३१ ॥

कावेरी नाम सा जाता कावेरसरसः सृता ।
महाकाले सरःश्रेष्ठे पतितं तज्जलं गिरेः ॥ १३२ ॥

हिमाद्रेः पार्श्वभागे तु दक्षिणे शम्भुसन्निधौ ।
गोमती नाम तैर्जाता नदी गोमदुदीरिता ॥ १३३ ॥

मैनाको नाम यः पुत्रः शैलराजस्य तत्समः ।
तस्मिन् सानौ समुत्पन्नो मेनकोदातः पुरा ॥ १३४ ॥

यत्तत्र पतितं तोयं तेन जाता महानदी ।
देविकाख्या महादेवप्रेरिता सागरं प्रति ॥ १३५ ॥

यत्तोयं सङ्गतं दर्यां हंसावतारसन्निधौ ।
तेनाभूत् सरयूर्नाम्ना नदी पुण्यतमा स्मृता ॥ १३६ ॥

यान्यम्भांसि महाखाण्डवारण्यसन्निधौ ।
हिमवत्कन्दरे याम्ये इराया ह्रदमध्यतः ॥ १३७ ॥

इरावतीनाम नदी तैर्जाता च सरिद्वरा ।
एताः सर्वाः स्नानपानसेवनैर्जाह्नवी यथा ॥ १३८ ॥

फलं ददति मर्त्यानां दक्षिणोदधिगाः सदा ।
धर्मार्थकाममोक्षाणां बीजभूताः सनातनाः ॥ १३९ ॥

महानद्यस्तु सप्तैताः सर्वदा देवभोगदाः ।
एवं नद्यः सप्तजाताः सदापुण्यतमोदकाः ॥ १४० ॥

अरुन्धत्या वसिष्ठस्य विवाहे देवसन्निधौ ॥ १४१ ॥

एवं विवाह्य स तदा वसिष्ठस्तामरुन्धतीम् ।
देवैर्दत्तं तदा स्थानं विमानेन जगाम ह ॥ १४२ ॥

ब्रह्मविष्णुमहेशानां वचनान्मुनिसत्तमः ॥ १४३ ॥

हिताय सर्वजगतां त्रिषु लोकुषु सर्वदा ।
यस्मिन् यस्मिन् युगे यादृक् स्त्रीणां भवति तादृशम् ॥ १४४ ॥

वेशं भावं शरीरं च कृत्वा धर्मे नियोजनम् ।
विचरत्येष लोकांस्त्रीनप्रमत्तः प्रसन्नधीः ॥ १४५ ॥

एवं पुरा वसिष्ठेन परिणीता त्वरुन्धती ।
सा हितार्थाय जगतां देवानां वचनात् पुरा ॥ १४६ ॥

य इदं शृणुयान्नित्यमाख्यानं धर्मसाधनम् ।
सर्वकल्याणसंयुक्तं चिरायुर्वित्तवान् भवेत् ॥ १४७ ॥

या स्त्री शृणोति सततमरुन्धत्याः कथा मिमाम् ।
पतिव्रता सा भूत्वेह परत्र स्वर्गमाप्नुयात् ॥ १४८ ॥

इदं परं स्वस्त्ययनमिदं धर्मप्रदं परम् ।
आख्यानं सर्वदा कीर्तिर्यशः पुण्यविवर्धनम् ॥ १४९ ॥

विवाहे पुंसि यात्रायां यः श्राद्धे श्रावयेत्तथा ।
स्थैर्यं पुंसवनं सिद्धिः पितृप्रीतिश्चजायते ॥ १५० ॥

इति वः कथितं सर्वं वसिष्ठस्य महात्मनः ।
अरुन्धती यथाभूता भार्या वापि पतिव्रता ॥ १५१ ॥

यस्य वा तनया जाता यथोत्पन्ना च यत्र च ।
यथा ब्रह्महरीशानां वचनात् स वृतः पतिः ॥ १५२ ॥

एतत् वः सर्वमाख्यातं गुह्याद्गुह्यतरं परम् ।
पुण्यदं पापहरणमायुरारोग्यवर्धनम् ॥ १५३ ॥

इति विपुलवृषौधक्षेमकारीतिहासं सदसि सकृदपीह श्रावयेद्यो द्विजानाम् ।
स भवति कलुषौर्घैर्हीनदेहः समेतो मुनिवरसहचर्यां प्रेत्य गीर्वाण एव ॥ १५४ ॥

इति श्रीकालिकापुराणे वसिष्ठारुन्धतीविवाहे त्रयोविंशोऽध्यायः ॥ २३ ॥