विश्वास-प्रस्तुतिः
द्वाविंशोऽध्यायः
मार्कण्डेय उवाच
यत्र देवसभा भूता सानौ तस्य महागिरेः ।
तत्र जाता देवनदो सीताख्या वचनाद्विधेः ॥ १ ॥
मूलम्

स्नापयित्वा यदा चन्द्रं सीततोयैर्मनोहरैः ।
चन्द्रं पपुर्ब्रह्मवाक्यात् सर्वे ते त्रिदिवौकसः ॥ २ ॥

तदा सीताजलं चन्द्रस्नानयोगाच्च सामृतम् ।
भूत्वा निपतित तस्मिन् बृहल्लोहितसञ्ज्ञके ॥ ३ ॥

तद्विवृद्धं तदा तोयं तस्मिन् सरसि नो ममौ ।
तद्ददर्श स्वयं ब्रह्मा विवृद्धं सामृतं जलम् ॥ ४ ॥

तद्दर्शनाज्जलात् तस्मादुत्थिता कन्यकोत्तमा ।
चन्द्रभागेति तन्नाम विधिश्चक्रे स्वयं ततः ॥ ५ ॥

भार्यार्थे सागरस्तां तु जग्राह ब्रह्मसन्मते ॥ ६ ॥

तयैवाधिष्ठितं तोयं गदाग्रेण निशापतिः ।
निर्भिद्य पश्चिमे पार्श्वे गिरि तं समवाहयत् ॥ ७ ॥

तस्यामृतजलं भित्त्वा वृहल्लोहितनामकम् ।
कासारं सागरं याता चन्द्रभागा नदी तु सा ॥ ८ ॥

सागरोऽपि तदा भार्यां चन्द्रभागां महानदीम् ।
तेन तोयप्रवाहेण निनाय भवनं स्वकम् ॥ ९ ॥

एवं तस्मिन् समुत्पन्ना चन्द्रभागाह्वया नदी ।
चन्द्रभागे महाशैले गुणैर्गङ्गासमा सदा ॥ १० ॥

नद्यश्च पर्वताः सर्वे द्विरूपाश्च स्वभावतः ।
तोयं नदीनां रूपन्तु शरीरमपरं तथा ॥ ११ ॥

स्थावरः पर्वतानान्तु रूपं कायः तथापरः ।
शुक्तीनामथ कम्बूनां यथैवान्तर्गता तनुः ॥ १२ ॥

बहिरस्ति स्वरूपन्तु सर्वदैव प्रवर्तते ।
एवं जलं स्थावरस्तु नदीपर्वतयोस्तदा ॥ १३ ॥

अन्तर्वसति कायस्तु सततं नोपपद्यते ॥ १४ ॥

आप्याय्यते स्थावरेण शरीरं पर्वतस्य तु ।
तथा नदीनां कायस्तु तोयेनाप्याय्यते सदा ॥ १५ ॥

नदीनां कामरूपित्वं पर्वतानां तथैव च ।
जगत्स्थित्यै पुरा विष्णुः कल्पयामास यत्नतः ॥ १६ ॥

तोयहानौ नदी दुःखं जायते सततं सुराः ।
विशीर्णे स्थावरे दुःखं जायते गिरिकायजम् ॥ १७ ॥

तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् ।
सन्ध्यां दृष्ट्वाथ पप्रच्छं वसिष्ठः सादरं तदा ॥ १८ ॥

वसिष्ठ उवाच
किमर्थमागतां भद्रे निर्जनं तु महीधरम् ।
कस्य वा तनया गौरि किं वा तव चिकीर्षितम् ॥ १९ ॥

एतदिच्छाभ्यहं श्रोतुं यदि गुह्यं न ते भवेत् ।
वदनं पूर्णचन्द्राभं निःश्रीकं वा कथं तव ॥ २० ॥
मूलम्
एतदिच्छाभ्यहं श्रोतुं यदि गुह्यं न ते भवेत् ।
वदनं पूर्णचन्द्राभं निःश्रीकं वा कथं तव ॥ २० ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
एतच्छ्रुत्वा वचस्तस्य वसिष्ठस्य महात्मनः ।
दृष्ट्वा च तं महात्मानं ज्वलन्तमिव पावकम् ॥ २१ ॥

शरीरधृग्ब्रह्मचर्य-सदृशं तं जटाधरम् ।
सादरं प्रणिपत्याथ सन्ध्योवाच तपोधनम् ॥ २२ ॥

सन्ध्योवाच
यदर्थमागता शैलं सिद्धं तन्मे द्विजोत्तम ।
तव दर्शनमात्रेण तन्मे सेत्स्यति वा विभो ॥ २३ ॥

तपः कर्तुमहं ब्रह्मन्निर्जनं शैलमागता ।
ब्रह्मणोऽहं मनोजाता सन्ध्या नाम्ना च विश्रुता ॥ २४ ॥

नोपदेशमहं जाने तपसो मुनिसत्तम ।
यदि ते युज्यते गुह्यं मां त्वं समुपदेशय ॥
विश्वास-प्रस्तुतिः
एतच्चिकीर्षितं गुह्यं नान्यत्किञ्चन् विद्यते ॥ २५ ॥

अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता ।
चिन्तया परिशुष्येऽहं वेपते च मनः सदा ॥ २६ ॥
मूलम्
अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता ।
चिन्तया परिशुष्येऽहं वेपते च मनः सदा ॥ २६ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
आकर्ण्य तस्या वचनं वसिष्ठो ब्रह्मणः सुतः ।
स्वयं स सर्वतत्त्वज्ञो नान्यत्किञ्चन पृष्टवान् ॥ २७ ॥

अथ ता नियतात्मानं तपसेऽतिधृतोद्यमाम् ।
वसिष्ठो मन्त्रयाञ्चक्रे गुरुवच्छिष्यवत्तदा ॥ २८ ॥

परम यो महात्तेज परमं यो महत्तपः ।
परमो य समाराध्यो विष्णुर्मनसि धीयताम् ॥ २९ ॥

धर्मार्थकाममोक्षाणाय एकस्त्वादिकारणम् ।
तमेक जगतामाद्य भजस्व पुरुषोत्तमम् ॥ ३० ॥

शङ्खचक्रगदापद्मधरं कमललोचनम् ।
शुद्धस्फटिकसङ्काशं क्वचिन्नीलाम्बुदच्छविम् ॥ ३१ ॥

गरुडोपरि शुक्लाब्जे पद्मासनगतं हरिम् ।
श्रीवत्सवक्षमं शान्त वनमालाधरं परम् ॥ ३२ ॥

केयूरकुण्डलधरं किरीटमुकुटोज्वलम् ।
निराकारं ज्ञानगम्यं साकारं देहधारिणम् ॥ ३३ ॥

नित्यानन्दं निरालम्बं सूर्यमण्डलमध्यगम् ।
मन्त्रेणानेन देवेशं विष्णुं भज शुभानने ॥ ३४ ॥

ॐ नमो वासुदेवाय ओमित्यन्तेन सन्ततम् ।
तपस्यामारभेन्मौनीं तत्रैतान्वियमान् शृणु ॥ ३५ ॥

स्नानं मौनेन कर्तव्यं मौनेनैव तु पूजनम् ।
द्वयोः पर्णजलाहारं प्रथमं षष्ठकालयोः ।
तृतीये षष्ठकाले तु उपवास परो भवे ॥ ३६ ॥

एवं तपः समाप्तौ तु षष्ठे काले क्रिया भवेत् ।
वृक्षवल्कलवासाश्च काले भूमिशयस्तथा ।
एवं मौनी तपस्याख्या व्रतचर्या फलप्रदा ॥ ३७ ॥

एवं तपः समुद्दिश्य कामं चिन्तय माधवम् ।
स ते प्रसन्न इष्टार्थं न चिरादेव दास्याति ॥ ३८ ॥
मूलम्
एवं तपः समुद्दिश्य कामं चिन्तय माधवम् ।
स ते प्रसन्न इष्टार्थं न चिरादेव दास्याति ॥ ३८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
उपदिश्य वसिष्ठोऽथ सन्ध्ययायै तपसः क्रियाम् ।
तामाभाष्य यथान्यायं तत्रैवान्तर्दधे मुनिः ॥ ३९ ॥

सन्ध्यापि तपसो भाव ज्ञात्वा मोदमवाप्य च ।
तपः कर्तुं समारेभे बृहल्लोहिततीरगाः ॥ ४० ॥

यथोक्तन्तु वसिष्ठेन मन्त्रं तपसि साधनम् ।
व्रतेन तेन गोविन्द पूजयामास भक्तितः ॥ ४१ ॥

एकान्तमनसस्तस्या कुर्वन्त्याः सुमहत्तपः ।
विष्णौ विन्यस्तमनसो गतमेकं चतुर्युगम् ॥ ४२ ॥

न कोऽपि विस्मयं नापं तस्या दृष्ट्वा तपोऽद्भुतम् ।
न तादृशी तपश्चर्या भविष्यति च कस्यचित् ॥ ४३ ॥

मानुषेणाथ मानेन गते त्वेकचतुर्युगे ।
अन्तर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ॥ ४४ ॥

प्रसन्नस्तेन रूपेण यद्रूपं चिन्तितं तया ।
पुरः प्रत्यक्षां यातस्तस्या विष्णुर्जगत्पतिः ॥ ४५ ॥

अथ सा पुरतो दृष्ट्वा मनसा चिन्तितं हरिम् ।
शङ्खचक्रगदापद्मधारिणं पद्मलोचनम् ॥ ४६ ॥

केयूरकुण्डलधरं किरीटमुकुटोज्ज्वलम् ।
तार्क्ष्यस्थं पुण्डरीकाक्षं नीलोत्पलदलच्छविम् ॥ ४७ ॥

ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरिम् ।
इति चिन्तापरा भूत्वा न्यमीलयत चक्षुषी ॥ ४८ ॥

निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरिः ।
दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ॥ ४९ ॥

दिव्यं ज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप सा ।
प्रत्यक्षं वीक्ष्य गोविन्दं तुष्टाव जगतां पतिम् ॥ ५० ॥

निराकारं ज्ञानगम्यं नरं यन्नैव स्थूलं नापि सूक्ष्मं न चोच्चैः ।
अन्तश्चिन्त्यं योगिभिर्यस्य रूपं तस्मै तुभ्यं हरये मे नमोऽस्तु ॥ ५१ ॥

शिव शान्तं निर्मलं निर्विकार ज्ञानात्पर सुप्रकाश विसारि ।
रविप्रख्य ध्वान्तभागात् परस्ताद् रूपं यस्य त्वा नमामि प्रसन्नम् ॥ ५२ ॥

एकं शुद्धं दीप्यमानं विनोदं चित्तानन्द सत्वज पापहारि ।
नित्यानन्द सत्यं भूरिप्रसन्नं यस्य श्रीदं रूपमस्मै नमोऽस्तु ॥ ५३ ॥

विद्याकारोद्भावनीयं प्रभिन्नं सत्वच्छन्नं ध्येयमात्मस्वरूपम् ।
सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चेयं नमस्ते ॥ ५४ ॥

नित्यार्जवं व्ययहीनं गुणौर्धरष्टाङ्गैर्यश्चिन्त्यते योगयुक्तैः ।
तत्त्व व्यापि प्राप्य यज्ज्ञानयोगेपरं यातां योगिनस्तं नमस्ते ॥ ५५ ॥

यत्साकारं शुद्धरूपं मनोज्ञं गरुत्मस्थं नीलमेघप्रकाशम् ।
शङ्खं चक्रं पद्मगदे दधानं तस्मै नमो योगयुक्ताय तुभ्यम् ॥ ५६ ॥

गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ।
वायुः कालश्च रूपाणि तस्य तस्मै नमोऽस्तु ते ॥ ५७ ॥

प्रधानपुरुषौ यस्य कार्याङ्गत्त्वे निवत्स्यतः ।
तस्मादव्यक्तरूपाय गोविन्दाय नमोऽस्तु ते ॥ ५८ ॥

यः स्वयं पञ्च भूतानि यः स्वयं तद्गुणः परः ।
यः स्वयं जगदाधारस्तस्मै तुभ्यं नमोनमः ॥ ५९ ॥

परः पुराणः पुरुषः परमात्मा जगन्मयः ।
अक्षयो योऽव्ययो देवस्तस्मै तुभ्यं नमो नमः ॥ ६० ॥

यो ब्रह्मा कुरुते सृष्टि यो विष्णुः कुरुते स्थितिम् ।
संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमो नमः ॥ ६१ ॥

नमो नमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय ।
समस्त लोकान्तर-मोहदाय प्रकाशरूपाय परात्पराय ॥ ६२ ॥

यस्य प्रपञ्चो जगदुच्यते महान् क्षितिदिशः सूर्य इन्दुर्मनोजवः ।
वह्निर्मुखान्नाभितश्चान्तरीक्षं तस्मै तुभ्यं हरये ते नमोऽस्तु ॥ ६३ ॥

त्वं परः परमात्मा च त्वं विद्या विविधा हरे ।
शब्दब्रह्म परम्ब्रह्म विचारणपरात्परः ॥ ६४ ॥

यस्य नादिर्नमध्यञ्च नान्तमस्ति जगत्पतेः ।
कथं स्तोष्यामि तं देवं वामनोगोचराद्बहिः ॥ ६५ ॥

यस्य ब्रह्मादयो देवा मुनयश्च तपोधनाः ।
न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥ ६६ ॥

स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभोः ।
नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ ६७ ॥

नमस्तुभ्यं जगन्नाथ नमस्तुभ्यं तपोमय ।
प्रसीद भगवंस्तुभ्यं भूयोभूयो नमोनमः ॥ ६८ ॥
मूलम्
नमस्तुभ्यं जगन्नाथ नमस्तुभ्यं तपोमय ।
प्रसीद भगवंस्तुभ्यं भूयोभूयो नमोनमः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
अथ तस्याः शरीरन्तु वल्कलाजिनसंवृतम् ।
परीक्षीणं जटाव्रातैः पवित्रैर्मूर्ध्नि राजितम् ॥ ६९ ॥

हिमाणी तर्जिताम्भोजसदृशवदनं तथा ।
निरीक्ष्य कृपयाविष्टो हरिः प्रोवाच तामिदम् ॥ ७० ॥

श्रीभगवानुवाच
प्रीतोऽस्मि तपसा भद्रे भवत्याः परमेण वै ।
स्तवेन च शुभप्रज्ञे वरं वरय साम्प्रतम् ॥ ७१ ॥

येन ते विद्यते कार्यं वरेणास्ति मनोगतम् ।
तत् करिष्यामि भद्रन्ते प्रसन्नोऽहं तव व्रतैः ॥ ७२ ॥

यदि देव प्रसन्नोऽसि तपसा तम साम्प्रतम् ।
वृतस्तदाय प्रथमो वरो मम विधीयताम् ॥ ७३ ॥

उत्पन्नमात्रा देवेश प्राणिनोऽस्मिन्नभस्तले ।
न भवन्तु क्रमेणैव सकामाः सम्भवन्तु वै ॥ ७४ ॥

पतिव्रताह लोकेषु त्रिष्वपि प्रथिता यथा ।
भविष्यामि तथा नान्या वर एको वृतो मम ॥ ७५ ॥

सकामा मम दृष्टिस्तु कुत्रचिन्नपतिष्यति ।
ऋते पतिं जगन्नाथ सोऽपि मेऽति सुकृत्तरः ॥ ७६ ॥

यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् ।
नाशं गमिष्यति तदा स तु क्लीवी भविष्यति ॥ ७७ ॥
मूलम्
यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् ।
नाशं गमिष्यति तदा स तु क्लीवी भविष्यति ॥ ७७ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
प्रथमः शैशवो भावः कौमाराख्यो द्वितीयकः ।
तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा ॥ ७८ ॥

तृतीये त्वथ सम्प्राप्ते वयोभागे शरीरिणः ।
सकामाः स्युर्द्वितीयान्ते भविष्यन्ति क्वचित् क्वचित् ॥ ७९ ॥

पतिस्तव महाभागास्तपोरूपसमन्वितः ।
सप्तकल्पान्तजीवी च भविष्यति सह त्वया ॥ ८३ ॥

इति ये ते वरा मत्त प्रार्थितास्ते कृता मया ।
अन्यच्च ते वदिष्यामि पूर्वं यन्मनसि स्थितम् ॥ ८४ ॥

अग्नौ शरीरत्यागस्ते पूर्वमेव प्रतिश्रुतः ।
स च मेधातिथेर्यज्ञे मुनेर्द्वादशवार्षिके ॥ ८५ ॥

हुतं प्रज्वलिते वह्वौ न चिरात् क्रियता त्वया ।
एतच्छैलोपत्यकायां चन्द्रभागानदीतटे ॥ ८६ ॥

मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे ॥ ८७ ॥

तत्र गत्वा स्वयं छन्ना मुनिभिर्नोपलक्षिता ।
मत्प्रसादाद्वह्निजातां तस्य पुत्री भविष्यसि ॥ ८८ ॥

यस्त्वया वाञ्छनीयोऽस्ति स्वामी मनसि कश्चन ।
तं निधाय निजस्वान्ते त्यज वह्नौ वपुः स्वकम् ॥ ८९ ॥

यदा त्वं दारुणे सन्ध्ये तपश्चरसि पर्वते ।
यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे ॥ ९० ॥

त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यकाः ।
स ददौ कन्यका सप्तविंशतिञ्च सुधांशवे ॥ ९१ ॥

तासां हेतोर्यदा शप्तश्चन्द्रो दक्षेण कोपिना ।
तदा भवत्या निकटे सर्वे देवाः समागताः ॥ ९२ ॥

न दृष्टाश्च तया सन्ध्ये देवाश्च ब्रह्मणा सह ।
मयि विन्यस्तमनसा त्वञ्च दृष्टा न तैः पुनः ॥ ९३ ॥

चन्द्रस्य शापमोक्षार्थं चन्द्रभागा नदी यथा ।
सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः ॥ ९४ ॥

तपसा तत्समो नास्ति न भूतो न भविष्यति ।
तेन यज्ञः समारब्धो ज्योतिष्टोमो महाविधिः ॥ ९५ ॥

तत्र प्रज्वलितो वह्निस्तस्मिंस्त्यज वपुः स्वकम् ॥ ९६ ॥

एतन्मया स्थापितं ते कार्यार्थं भोस्तपस्विनि ।
तत् कुरुष्व महाभागे याहि यज्ञं महामुनेः ॥ ९७ ॥
मूलम्
एतन्मया स्थापितं ते कार्यार्थं भोस्तपस्विनि ।
तत् कुरुष्व महाभागे याहि यज्ञं महामुनेः ॥ ९७ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
नारायणः स्वयं सन्ध्यां पस्पर्शाथाग्रपाणिना ।
ततः पुरोडाशमयं तच्छरीरमभूत क्षणात् ॥ ९८ ॥

महामुनेर्महायज्ञ तस्मिन् विश्वोपकारिणि ।
नाग्निः कव्यादतां यातु त्वेतदर्थं तथा कृतम् ॥ ९९ ॥

एवं कृत्वा जगन्नाथस्तत्रैवान्तरधीयत ।
सन्ध्याप्यगच्छत्तत्सत्रे यत्र मेधातिथिर्मुनिः ॥ १०० ॥

अथ विष्णोः प्रसादेन केनाप्यनुपलक्षिता ।
प्रविवेश तदा यज्ञं सन्ध्या मेधातिथेर्मुनेः ॥ १०१ ॥

वसिष्ठेन पुरा सा तु वर्णीभूत्वा तपस्विनी ।
उपदिष्टा तपश्चर्तुं वचनात् परमेष्ठिनः ॥ १०२ ॥

तमेव कृत्वा मनसि तपश्चर्योपदेशकम् ।
पतित्वेन तदा सन्ध्या ब्राह्मणं ब्रह्मचारिणम् ॥ १०३ ॥

समिद्धेऽग्नो महायज्ञे मुनिभिर्नोपलक्षिता ।
तदा विष्णोः प्रसादेन साविवेश विधेः सुता ॥ १०४ ॥

तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ।
दग्धं पुरोडाशगन्धं व्यस्तारयदलक्षितम् ॥ १०५ ॥

वह्निस्तस्याः शरीरन्तु दग्ध्वा सूर्यस्य मण्डले ।
शुद्धं प्रवेशयामास विष्णोरेवाज्ञया पुनः ॥ १०६ ॥

सूर्यो संस्थापयामास प्रीतये पितृदेवयोः ॥ १०७ ॥

यदूर्ध्वभागस्तस्यास्तु शरीरस्य द्विजोत्तमाः ।
प्रातःसन्ध्याभवत् सा तु अहोरात्रादिमध्यगा ॥ १०८ ॥

यच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगा ।
सा सायमभवत् सन्ध्या पितृप्रीतिप्रदा सदा ॥ १०९ ॥

सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः ।
प्रातःसन्ध्या तदोदेति देवाना प्रीतिकारिणी ॥ ११० ॥

अस्तं गते ततः सूर्ये शोणपद्मनिभा सदा ।
उदेति सायंसन्ध्यापि पितृणा मोदकारिणी ॥ १११ ॥

तस्या प्राणास्तु मनसा विष्णुणा प्रभविष्णुणा ।
दिव्येन तु शरीरेण चक्रिरेऽथ शरीरिणः ॥ ११२ ॥

मुनेर्यज्ञावसाने तु सम्प्राप्ते मुनिना तु सा ।
प्राप्ता पुत्री वह्निमध्ये तप्तकाञ्चन सन्निभा ॥ ११३ ॥

तां जग्राह तदा पुत्रीं मुनिरामोदसंयुतः ।
यज्ञार्थतोयैः संस्नाप्य निजक्रोडे कृपायुतः ॥ ११४ ॥

अरुन्धतीति तस्यास्तु नाम चक्रे महामुनिः ।
शिष्यः परिवृतस्तत्र महामोदमवाप च ॥ ११५ ॥

न रुणद्धि यतो धर्मं सा केनापि च कारणात् ।
अतस्त्रिलोकविदितं नाम सा प्राप सान्वयम् ॥ ११६ ॥

यज्ञं समाप्य स सुनिः कृतकृत्यभावमासाद्य सम्मदयुतस्तनयाप्रलम्भात् ।
तस्मिन् निजाश्रमपदे सहशिष्यवर्गैस्तामेव सन्ततमसौ दयते महर्षिः ॥ ११७ ॥

इति श्रीकालिकापुराणे अरुन्धती-जन्मकथनं द्वाविंशोऽध्यायः