विश्वास-प्रस्तुतिः
एकविंशोऽध्यायः
ब्रह्मोवाच
गच्छन्तु भोः सुरगणा दक्षस्य सदनं प्रति ।
प्रसादयतचन्द्रार्थे स च पूर्णो भवेद्यथा ॥ १ ॥
मूलम्

पूर्णे चन्द्रे जगत्सर्वं प्रकृतिस्थं भविष्यति ।
युष्माकञ्च भवेच्छान्तिरोषधीन्नाञ्चसम्भवः ॥ २ ॥

मार्कण्डेय उवाच
इति ब्रह्मवचः श्रुत्वा देवाः शक्रपुरोगमाः ।
प्रययुर्हृष्ठ मनसस्तदा दक्षनिवेशनम् ॥ ३ ॥

यथान्यायमुपस्थाय सर्वे मुनिवरं सुराः ।
प्रोचुः प्रजापतिं दक्षं प्रणम्य श्लक्ष्णया गिरा ॥ ४ ॥

देवा ऊचुः
प्रसीद सीदतां ब्रह्मन्नस्माकं बहुदुःखिनाम् ।
उद्धरस्व महाबुद्धे त्राहि नः शोकसागरात् ॥ ५ ॥

यद्रूपं ब्रह्मसञ्ज्ञन्तु सृष्टिकृत् परमात्मनः ।
तदंशस्त्वं परं ज्योतिर्विप्ररूप नमोऽस्तुते ॥ ६ ॥

रक्षणात् सर्वजगतां प्रजापालनकारणात् ।
दक्षः प्रजापतिश्चेति योगेशस्तं नुमो वयम् ॥ ७ ॥

दक्षाय सर्वजगतां दक्षाय कुशलात्मनाम् ।
दक्षायात्महितायाशु नमस्तुभ्यं महात्मने ॥ ८ ॥

सततं चिन्त्यमानस्य योगिभिर्नियतेन्द्रियैः ।
सारस्य सारभूतस्त्वं दक्षाय परमात्मने ॥ ९ ॥

योगिवृत्तिरनाधृष्य पारगाणां परायणः ।
आद्यन्तमुक्तः साहसा तस्मै नित्यं नमो नमः ॥ १० ॥

इति तेषां वचः श्रुत्वा दक्षो यज्ञभुजां तथा ।
प्राह प्रसन्नवदनः शक्रमाभाष्य मुख्यतः ॥ ११ ॥

दक्ष उवाच
कुतः शक्र महाबाहो भवतां दुःखमागतम् ।
दुःखहेतुं वद विभो श्रोतुमिच्छाम्यहन्तु तम् ॥ १२ ॥

ममास्ति वा किं कर्तव्यं भवतां दुःखहानये ।
तदहं यदि शक्नोमि करिष्यामि हितं समम् ॥ १३ ॥
मूलम्
ममास्ति वा किं कर्तव्यं भवतां दुःखहानये ।
तदहं यदि शक्नोमि करिष्यामि हितं समम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
तच्छ्रुत्वा वचनं तस्य ब्रह्मसूनोर्महात्मनः ।
जगाद वाक्पतिः शक्रो वीतिहोत्रोऽथ तं मुनिम् ॥ १४ ॥

त ऊचु
क्षयी जातो निशानाथस्तस्मिन् क्षीणे क्षयं गताः ।
सर्वौषध्यो द्विजश्रेष्ठ तद्धानिर्यज्ञहानिकृत् ॥ १५ ॥

यज्ञे विनष्टे सकलाः प्रजाः क्षुद्भयकातराः ।
वृष्ट्यभवान्महद्दुःखं प्राप्य नष्टाश्च काश्चन ॥ १६ ॥

क्षयोऽयं रात्रिनाथस्य यस्ते कोपात् प्रवर्तते ।
स सर्वजगतो ब्रह्मन्नभावार्थमुपस्थितः ॥ १७ ॥

नाधुना तत् त्रिभुवन यन्न क्षुब्धं नु किञ्चन ।
विप्लुतं वास्ति विप्रेन्द्र स्थावरा पतगाश्च वा ॥ १८ ॥

न यज्ञाः सम्प्रवर्तन्ते न तपस्यन्ति तापसाः ।
आहारदुःखान्निश्रीकाः प्रजाः क्षीणा भयातुराः ॥ १९ ॥

एवं प्रवृत्ते विप्रेन्द्र विप्लवेऽस्मात् रसातलाम् ।
दैत्या न यावदुत्थाय बाधन्ते तावदुद्धर ॥ २० ॥

प्रसीद दक्ष चन्द्रसय तं पूरय तपोबलात् ।
पूर्णे चन्द्रे जगत्सर्वं प्रकृतिस्थं भविष्यति ॥ २१ ॥
मूलम्
प्रसीद दक्ष चन्द्रसय तं पूरय तपोबलात् ।
पूर्णे चन्द्रे जगत्सर्वं प्रकृतिस्थं भविष्यति ॥ २१ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति तेषां वचः श्रुत्वा प्रजापतिसुतस्तदा ।
उवाच तान् सुरगणान् हृदयाच्छल्यमुद्धरन् ॥ २२ ॥
मूलम्
मार्कण्डेय उवाच
इति तेषां वचः श्रुत्वा प्रजापतिसुतस्तदा ।
उवाच तान् सुरगणान् हृदयाच्छल्यमुद्धरन् ॥ २२ ॥
विश्वास-प्रस्तुतिः
दक्ष उवाच
यन्मे वचो निशानाथे प्रवृत्तं शापकारणम् ।
न केनापि निदानेन मिथ्या कर्तुं तदुत्सहे ॥ २३ ॥

किन्तु मद्वचनं यस्मान्नैकान्तेन मृषा भवेत् ।
चन्द्रोऽपि वर्धते यस्मात्तदुपायमुदैक्षत ॥ २४ ॥

तत्राप्ययमुपायोऽस्ति मासार्धं यातु चन्द्रमा ।
क्षयं वृद्धिञ्च मासार्धं समं भार्यासु वर्तताम् ॥ २५ ॥
मूलम्
तत्राप्ययमुपायोऽस्ति मासार्धं यातु चन्द्रमा ।
क्षयं वृद्धिञ्च मासार्धं समं भार्यासु वर्तताम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
तस्य तद्वचनं श्रुत्वा तं प्रसाद्य प्रजापतिम् ।
सर्वे सुरगणास्तत्र गता यतास्ति चन्द्रमाः ॥ २६ ॥

एवमुक्ते तु वचने दक्षेण मुनिना द्विजाः ।
अथ चन्द्रं समादाय भार्याभिः सहितं तदा ।
जग्मुस्ते ब्रह्मभवनं मुदिताः सुरसत्तमाः ॥ २७ ॥

तत्र गत्वा महाभागा यथा दक्षेण भाषितम् ।
तत्सर्वं कथयामासुर्ब्रह्मणे परमात्मने ॥ २८ ॥

ब्रह्म दक्षवचः श्रुत्वा देवानां वचनात्तदा ।
चन्द्रभागं महाशैलं जगाम सहितः सुरैः ॥ २९ ॥

तत्र गत्वा सुरश्रेष्ठः प्रजानां हितकाम्यया ।
स्नापयामास शुभ्रांशुं वृहल्लोहितपुष्करे ॥ ३० ॥

भूतभव्यभवज्ज्ञानः पूर्वमेव पितामहः ।
एतदर्थञ्चकारात्र सरःपूर्णं जगद्गुरुः ॥ ३१ ॥

तत्र स्नातस्य जन्तोस्तु नीरोगत्वं प्रजायते ।
चिरायुष्ट्वञ्च सततं वृहल्लोहितसञ्ज्ञके ॥ ३२ ॥

तत्र स्नातस्य चन्द्रस्य शरीरात्तत्क्षणं गदः ।
राजयक्ष्मा निःससार पूर्वरूपौ यथोदितः ॥ ३३ ॥

राजयक्ष्मा उवाच
निःसृत्य राजयक्ष्मापि ब्रह्माणञ्च जगत्पतिम् ।
प्रणम्याहं किं करिष्ये क्व गच्छामीत्युवाच तम् ॥ ३४ ॥

स्थानं पत्नीञ्च लोकेश कृत्यं मम सनातनम् ।
निदेशयानुरूपं मे स्रष्टा त्वं जगतां यतः ॥ ३५ ॥
मूलम्
स्थानं पत्नीञ्च लोकेश कृत्यं मम सनातनम् ।
निदेशयानुरूपं मे स्रष्टा त्वं जगतां यतः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
ततो ब्रह्मापि तं पुष्टं निरीक्ष्येन्दुं शरीरगैः ।
अमृतैस्तेनातियुक्तैः क्षीणञ्चापि निशापतिम् ॥ ३६ ॥

दोर्भिः स्वयं त्वं गृहीत्वा गिरौ निष्पीड्य वै मुहुः ।
अमृतं गालयामास शरीराद्राजयक्ष्मणः ॥ ३७ ॥

अमृतानि च यान्याशु गलितानि तदा जले ।
क्षीरोदस्य स चिक्षेप मध्ये रहसि लोकभृत् ॥ ३८ ॥

तस्मादस्यामृतादिन्दि कलाः क्षीणास्तु याः पुरा ।
तासां जग्राह लवशश्चूर्णान् क्षीरोदसागरात् ॥ ३९ ॥

कलामात्रावशेषष्य संसर्गाद्राजयक्ष्मणः ।
क्षीणाः कलाः पञ्चदश याः पूर्वममृतात्मिकाः ॥ ४० ॥

ता राजयक्ष्मगर्भस्थाश्चूर्णीभूतास्तु पीडया ।
तेजोज्योत्स्ना सुधाभिस्तु निबद्धं यत् कलापतेः ॥ ४१ ॥

शरीरं तत् त्रिधा भूतं गर्भस्थं राजयक्ष्मणः ॥ ४२ ॥

ज्योतिश्चूर्णमभूत् ज्योत्स्ना लीना राजादियक्ष्मणि ।
द्रवीभूताः सुधाः सर्वाः गर्भे रोगस्य च स्थिताः ॥ ४३ ॥

यदा निर्गालयामास सुधां ब्रह्मा यक्ष्मान्तरात् ।
तदा ज्योत्स्नासुधाज्योतिः सर्वं तस्माद्वहिर्गतम् ॥ ४४ ॥

क्षीरोदसागरे क्षिप्तं तत् सर्वं विधिना तदा ।
देवान् गिरौ परित्यज्य स्वयं गत्वा द्रुतं ततः ॥ ४५ ॥

ततोऽमृतानि प्रक्षाल्य कलाचूर्णानि वारिभिः ।
ज्योत्स्नाञ्चाप्याजगामाशु गृहीत्वा तत्त्रयं गिरिम् ॥ ४६ ॥

क्षीरोदाद्गिरिमासाद्य चन्द्रभागं तदा विधिः ।
देवमध्ये कलाचूर्ण सुधाज्योत्स्ना न्यवीविशत् ॥ ४७ ॥

संस्थाप्य तत्त्रय ब्रह्मा देवाना मध्यतः स्थितः ।
जगाद राजयक्ष्माण तत् स्थानादि निदेशयन् ॥ ४८ ॥

सर्वदा यो दिवारात्र सन्ध्यायां वनितारतः ।
सेवते सुरत तस्मिन् राजयक्ष्मन् वसिष्यसि ॥ ४९ ॥

प्रतिश्याय-श्वासकास-सयुक्तो मैथुन चरेत् ।
स ते प्रवेश्य सतत श्लेष्मणश्च तथाविधः ॥ ५० ॥

कृष्णाख्या मृत्युपुत्री या भवतः सदृशी गुणैः ।
सा तेऽस्तु भार्या सततं भवन्तमनुयास्यति ॥ ५१ ॥

क्षीणत्वं भवतः कृत्यं ततस्त्वं विषयं कुरु ।
द्रुतं गच्छ यथाकामं चन्द्रात् त्वं विमुखो भव ॥ ५२ ॥
मूलम्
क्षीणत्वं भवतः कृत्यं ततस्त्वं विषयं कुरु ।
द्रुतं गच्छ यथाकामं चन्द्रात् त्वं विमुखो भव ॥ ५२ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
एवं विसृष्टो विधिना राजयक्ष्मा महागदः ।
पश्यताम् अर्वदेवानामन्तर्धानं जगाम ह ॥ ५३ ॥

अन्तर्हिते महारोगे ब्रह्मा लोकपितामहः ।
चन्द्रं समग्रयामास कलापञ्चदशैधितम् ॥ ५४ ॥

तेन क्षीरोदधौतेन सुधापूतेन चात्मभूः ।
सज्योत्स्नैस्तु कलाचूर्णैः पूर्ववच्चाकरोद्विधुम् ॥ ५५ ॥

स षोडशकलापूर्णः पूर्ववद्विबभौ यदा ।
चन्द्रस्तदा सर्वदेवा मुमुदुस्तस्य दर्शनात् ॥ ५६ ॥

अथ चन्द्रस्तदा पूर्णः प्रणिपत्य पितामहम् ।
उवाचेदं सुरसदोमध्यगो नाति हर्षितः ॥ ५७ ॥

सोम उवाच
न सुखं पूर्ववद् ब्रह्मञ्छशरीरे मम वर्तते ।
न वीर्यं वा तथोत्साहो निषीदन्त्यगसन्धयः ॥ ५८ ॥

नोत्सहे पूर्ववच्चेष्टां विधातुं सुतरामहम् ।
चेष्टाहीनस्त्वनुदिन वर्तेयं केन लोककृत् ॥ ५९ ॥

ग्रस्तस्य यक्ष्मणा सोम यदभूदगसन्धयः ।
पूर्व विशीर्णा भवतस्तत्पूर्णमभवन्नहि ॥ ६० ॥

अधुना भवतो देहचूर्ण निःसारित मया ।
शरीरात् सामृतज्योत्स्नामञ्जसा राजयक्ष्मणः ॥ ६१ ॥

तेषां प्रक्षालनविधौ लवशो यत्स्थितं जले ।
ज्योत्स्नायाश्च सुधायाश्च तेन हीनो भवान् यतः ॥ ६२ ॥

ततोऽङ्गसन्धयो राजंस्तव सीदन्ति साम्प्रतम् ।
तस्योपायं विधास्यामि यथा नाति लभेद्भवान् ॥ ६३ ॥

प्राजापत्यः पुरोडाशो हवनीयः पुरोऽध्वरे ।
एन्द्रस्ततोऽनु चाग्नेयः प्रदेयः सर्वतः क्रतौ ॥ ६४ ॥

ततो नु भवतो भागः पुरोडाशो मया कृतः ।
तेन भागेन बुक्तेन नित्यं यज्ञकृतेन हि ।
पूर्ववत् तै समुत्साहः श्यामवीर्यं भविष्यति ॥ ६५ ॥

ये चामृतकणस्तोये क्षीरोदस्य स्थितास्तव ।
शरीरचूर्णं वा यत्ते ज्योत्स्नाश्चापि ये लवाः ॥ ६६ ॥

तत् सर्वं भवतो ज्योत्स्नायोगादनुदिनं विधो ।
वृद्धिं यास्यति सततं क्षीरसागरगर्भगम् ॥ ६७ ॥

स्वारोचिषेऽन्तरे प्राप्ते द्वितीये शङ्करांशजः ।
दुर्वासा भविता विप्रः प्रचण्डश्चण्ड भानुवत् ॥ ६८ ॥

स देवेन्द्रस्याविनयाच्छापं दत्वा सुदारुणम् ।
करिष्यति त्रिभुवन् निःश्रीकं ससुरासुरम् ॥ ६९ ॥

श्रिया हीने ततो लोके भविता लोकविप्लवः ।
यथा तव क्षयात् सोमं प्रवृत्त सर्वविप्लवः ॥ ७० ॥

तन्मानुषप्रमाणेन तृतीये तु कृते युगम् ।
भविष्यति स्थास्यति च यावद् युगचतुष्टयम् ॥ ७१ ॥

ततश्चतुर्थे सम्प्राप्ते सह देवै कृते युगे ।
क्षीरोदं निर्मथिष्याम शम्भुविष्णुरहं तथा ॥ ७२ ॥

मन्थानं मन्दर कृत्वा नेत्र कृत्वा तु वासुकीम् ।
यज्ञभागेषु लीनेषु देवान्नार्थं वयं ततः ।
मथिष्याम समं देवै क्षीरोदं सह दानवैः ॥ ७३ ॥

त्वच्छरीरामृतमिदं यत्स्थितं क्षीरसागरे ।
तत् प्रमथ्य ग्रहीष्यामो राशीभूतं तथा क्षयम् ॥ ७४ ॥

सर्वौषध्यन्तरे कृत्वा त्वच्छरीरं तदा वयम् ।
क्षेप्स्यामः सागरजले शरीरार्थं विधो तव ॥ ७५ ॥

निर्मथ्य सागरं पश्चात् समुद्धार्य यदामृतम् ।
तदा तव वपुस्तस्मिन् पूर्ववत् सम्भविष्यति ॥ ७६ ॥

ओजोवीर्याद्भुतं कान्तमक्षयं च सुधात्मकम् ।
दृढाङ्गसन्धिकं चारु भविष्यति वपुस्तव ॥ ७७ ॥
मूलम्
ओजोवीर्याद्भुतं कान्तमक्षयं च सुधात्मकम् ।
दृढाङ्गसन्धिकं चारु भविष्यति वपुस्तव ॥ ७७ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
सुधांशुमेवमाभाष्य ब्रह्मा लोकपितामहः ।
विधोः क्षयाय मासार्धं वृद्धये यत्नवानभूत् ॥ ७८ ॥

यथा दक्षेण गदितं मासार्धं यातु चन्द्रमाः ।
क्षयं वृद्धिं च मासार्धं यत्नं तत्राकरोद्विधिः ॥ ७९ ॥

ततह् षोडशधा चन्द्रं सुरज्येष्ठो विभक्तवान् ।
विभज्य च सुरान् सर्वान् समुवाचेदमुत्तमम् ॥ ८० ॥

कलाः षोडश चन्द्रस्य तत्रेका शम्भुमूर्धनि ।
तिष्ठत्वद्यावधि परा क्षय यान्तु क्षय विना ॥ ८१ ॥

क्षयेण यदि रोगेण मासार्धं दक्षवाक्यत ।
क्षयाय पीड्यते चन्द्रो नोपशान्तिस्तदा भवेत् ॥ ८२ ॥

किन्त्वस्य या कला शम्भौ ज्योत्स्ना गच्छतु ता प्रति ।
चतुर्दशकलासंस्थाः प्रतिमासं सुरोत्तमाः ॥ ८३ ॥

चतुर्दशकलासंस्थान्यभूतानि पिवन्तु वै ।
प्रतिपत्तिथिमारभ्य भवन्तस्तां चतुर्दशीम् ॥ ८४ ॥

तेजोभागाः सूर्यबिम्बं चतुर्दशतिथौ क्रमात् ।
प्रविशन्तु क्षयं त्वेवं कृष्णपक्षे विधोर्भवेत् ॥ ८५ ॥

यातु शेषा कला दर्शे हरित्पत्रे पलायिता ।
तिष्ठतु प्रथमे भागे तिथौ तस्यां निशापतेः ॥ ८६ ॥

द्वितीये दर्शभागे तु रोहिण्या यातु मन्दिरम् ।
तृतीये तु सरस्वत्यां स्नात्वा समुत्थितो विधुः ॥ ८७ ॥

चतुर्थे बलसम्पूर्णस्तिथिभागे विभावसोः ।
मण्डलं यातु चन्द्रोऽयं सबिम्बरथघोटकः ॥ ८८ ॥

यावत् कालेन हि कला प्रथमा क्षयमाप्नुयात् ।
एवमेवं कृष्णपक्षे तावत् सा प्रतिपद् भवेत् ॥ ८९ ॥

द्वितीयादौ कृष्णपक्षे वृद्धि-ह्रासस्तथाविधः ।
तिथीनां वृद्धिहेतुश्च शुक्ले कृष्णे तथा भवेत् ॥ ९० ॥

ततः पुनः शुक्लपक्षे यावत् पूर्वकलोदिता ।
वृद्धिं नैति भवेत्तावत् प्रतिपत्तितिथिरादितः ॥ ९१ ॥

ततो द्वितीयभागस्य या ज्योत्स्ना हरमूर्धनि ।
स्थिता या वै कला यातु गता सापुनरेष्यति ।
युष्माभिस्तु भवेत् पेयममृतं यद्दिने दिने ॥ ९२ ॥

तद्द्वितीयादितिथिभिः पूर्णान्ताभिः सदैव हि ।
स्वयमुत्पत्स्यते चन्द्रो ज्योत्स्नायोगात् सुरोत्तमाः ॥ ९३ ॥

यथा दिने दिने भागाः क्षय यान्ति तथा विधोः ।
वृद्धि गच्छन्त्यनुदिनं शुक्लपक्षेऽन्वहं सुराः ॥ ९४ ॥

तेजोभाग सूर्यबिम्बात् पुनरेव समेष्यति ।
प्रयास्यति कृष्णपक्षे यथा भागक्रमं तथा ॥ ९५ ॥

ज्योत्स्ना हरशिरश्चन्द्रात् प्रत्यहं पुनरेष्यति ।
तेजोभागः सूर्यबिम्बादमृतं वर्षति स्वयम् ॥ ९६ ॥

एवं वृद्धिः शुक्लपक्षे सुधांशौः सम्भविष्यति ।
पक्षयोः शुक्लकृष्णत्वं चन्द्रवृद्धिक्षयाद्भवेत् ॥ ९७ ॥

यावत् कालेन यो भागः क्षयं वृद्धिं च यास्यति ।
तावत् कालमभिव्याप्य तिथिः स्थास्यति सा पुनः ॥ ९८ ॥

चिरेण विद्धिर्यदि वा क्षयो वा द्रुतेन वृद्धिर्यदिवा क्षयो वा ।
द्रुतात्तिथीनान्तु सदा क्षयः स्याच्चिरातु वृद्धिस्तिथिषु प्रवेशे ॥ ९९ ॥

हव्यं कव्यञ्च चन्द्रेण विना ना सम्भविष्यति ।
तस्मात्तयोः प्रवृद्धयर्थं चन्द्रं रक्षन्तु देवताः ॥ १०० ॥

आस्वादनीयः शुभ्रांशुः कलाशेषोऽनुमासतः ।
आमावास्यापराह्ने तु पितृभी रोहि।ईगृहे ॥ १०१ ॥

तस्यैवास्वादनात् कव्यं वृद्धि यास्यति चान्वहम् ।
तेन कव्येन पितरस्तृप्तिं यास्यन्ति वै पराम् ॥ १०२ ॥
मूलम्
तस्यैवास्वादनात् कव्यं वृद्धि यास्यति चान्वहम् ।
तेन कव्येन पितरस्तृप्तिं यास्यन्ति वै पराम् ॥ १०२ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
ततः सुरगणाः सर्वे यथोक्तं विधिना तथा ।
चक्रुर्लोकहितार्थाय चन्द्रस्य क्षयं वृद्धये ॥ १०३ ॥

महादेवोऽपि चन्द्रार्थं स्वरूपं परमात्मनः ।
जग्राह देवैर्विधिना शिरसा क्षुधितो भृशम् ॥ १०४ ॥

यत्तेजः परमं नित्यमजमव्ययमक्षयम् ।
तत्स्वरूपा चन्द्रकला शापतस्तु क्षयं गता ॥ १०५ ॥

प्रविशति यदा ज्योतिरानन्दमजरं परम् ।
योगिनस्तु तदा तेषां चिन्तनं लोनमेष्यति ॥ १०६ ॥

महादेवशिरःसंस्थे लीने चित्ते सुधानिधौ ।
चन्द्रद्वारा भवेन्मुक्तिरित्येवं वैदिकी श्रुतिः ॥ १०७ ॥

एतज् ज्ञात्वा महादेवः क्षयवृद्ध्यविनाकृतम् ।
हिताय सर्वलोकानां जग्राह शिरसा विधुम् ॥ १०८ ॥

चन्द्रज्योत्स्नासमायोगादौषध्यो यान्ति वृद्धये ।
सर्वौषधिषु वृद्धासु प्रवर्तन्ते ततोऽध्वराः ॥ १०९ ॥

अध्वरेषु प्रवृत्तेषु स्वान् स्वान् भागांस्तु देवताः ।
परिगृह्णन्ति पितरस्तथा कव्यानि भूरिशः ॥ ११० ॥

अमृतं ब्रह्मणा सृष्टं यद् देवेभ्यः पुरातनम् ।
तेन तृप्यन्ति हीना ये हव्यभागेन देवताः ॥ १११ ॥

यज्ञेनाप्यायितं तच्च ज्योत्स्नाभिर्वृद्धिमेति वै ।
यज्ञज्योत्स्ना विनाभूतं तच्च स्यात् क्षीणमन्यथा ॥ ११२ ॥

अतोऽमृतस्य यज्ञस्य चन्द्रमाः कारणं स्वयम् ।
अतो दक्षस्य शापात्तु रक्षायै तच्चिकीर्षितम् ॥ ११३ ॥

अद्यापि कृष्णपक्षे तु सुधांशुः पीयते सुरैः ।
तेजः सूर्यं याति शम्भुं चन्द्रार्धञ्ज्योत्स्निका तथा ॥ ११४ ॥

पुनश्च शुक्लपक्षे तु शेषोदेति कला ततः ।
ज्योत्स्नाद्वितीयो भागस्तु तेचोभागो द्वितीयकः ॥ ११५ ॥

अन्येऽत्युग्रशिरश्चन्द्रात् सूर्यबिम्बाद् यथाक्रमम् ।
कलाः षोडश चन्द्रस्य तत्रैका शम्भुशेखरे ॥ ११६ ॥

सितासितावुभौ पक्षौ शेषाणामुदयक्षयौ ।
इति वः सर्वमाख्यात विभक्तश्चन्द्रमा यथा ।
ब्रह्मणा पर्वतश्रेष्ठे यथा तच्चन्द्रभागतः ॥ ११७ ॥

यज्ञभागे स्थिते यस्माद्देवान्नमकरोद्विधुम् ।
कव्ये स्थितेऽपि पित्रन्नं तिथिवृद्धि-क्षयो यथा ॥ ११८ ॥

इदं पुण्यतमाख्यानं यः शृणोति सकृन्नरः ।
राजयक्ष्मा तस्य कुले न कदाचिद् भविष्यति ॥ ११९ ॥

यक्ष्मणा परिभूतो यः शृणोति वचनं विधे ।
न चिराद् यक्ष्मणा युक्तः स भवेत् पुरुषोत्तमः ॥ १२० ॥

इदं स्वस्त्ययनं पुण्यं गुह्याद्गुह्यतमं शुभम् ।
यः शृणोत्येकचित्तः सन् स महापुण्यभाग्भवेत् ॥ १२१ ॥

इति श्रीकालिकापुराणे चन्द्रशाप मोक्षणे एकविंशोऽध्यायः ।