विश्वास-प्रस्तुतिः
विंशोऽध्यायः
मार्कण्डेय उवाच
अथ तत्र गतां दृष्ट्वा सन्ध्यां गिरिवरं प्रति ।
तपसे नियतात्मानं ब्रह्मा प्रह्मा प्राह स्वकं सुतम् ॥ १ ॥
मूलम्

वसिष्ठं संशितात्मानं सर्वज्ञं ज्ञानियोगिनम् ।
समीपे सुसमासीनं वेदवेदाङ्गपारगम् ॥ २ ॥

ब्रह्मोवाच
वसिष्ठ गच्छ यत्रैषा सन्ध्या याता मनस्विनी ।
तपसे धृतकामा सा दीक्षस्वैनां यथाविधि ॥ ३ ॥

मन्दाक्षमभवत् तस्याः पुरा दृष्ट्वेह कामुकान् ।
युष्मान् माञ्च तथात्मानं सकामान् मुनिसत्तम ॥ ४ ॥

अयुक्तरूपं तत्कर्म पूर्ववृत्तं विमृश्य सा ।
अस्माकमात्मनश्चापि प्राणान्-सन्त्यक्तुमिच्छति ॥ ५ ॥

अमर्यादेषु मर्यादां तपसा स्थापयिष्यति ।
तपः कर्तुं गता साध्वी चन्द्रभागाय साम्प्रतम् ॥ ६ ॥

न भावं तपसस्तात सा तु जानाति कञ्चन ।
तस्माद् यथोपदेशं सा प्राप्नोति त्वं तथा कुतु ॥ ७ ॥

इदं रूपं परित्यज्य रूपान्तरं परं भवान् ।
परिगृह्यान्तिके तस्यास्तपश्चर्यान्निदेशतु ॥ ८ ॥

इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथा त्रपाम् ।
तथा प्राप्य न किञ्चित् सा त्वदग्रे व्याहरिष्यति ॥ ९ ॥

परित्यज्य स्वकं रूपं रूपान्तरधरो भवान् ।
तस्मात् सन्यां महाभागामुपदेष्टुं प्रगच्छतु ॥ १० ॥
मूलम्
परित्यज्य स्वकं रूपं रूपान्तरधरो भवान् ।
तस्मात् सन्यां महाभागामुपदेष्टुं प्रगच्छतु ॥ १० ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
तथेत्युक्त्वा वसिष्ठोऽपि वर्णो भूत्वा जटाधरः ।
तरुणश्चन्द्रभागाय ययौ सन्ध्यान्तिकं मुनिः ॥ ११ ॥

तत्र देवसरः पूर्णं गुणैर्मानससम्मितम् ।
ददर्श स विसिष्ठोऽथ सन्ध्यां तत्तीरगामिनीम् ॥ १२ ॥

तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् ।
उद्यदिन्दुसनक्षत्रं प्रदोषे गगनं यथा ॥ १३ ॥

तां तत्र दृष्ट्वाथ मुनिः समाभाष्य सकौतुकः ।
वीक्षाञ्चक्रे सरस्तत्र वृहल्लोहितसञ्ज्ञकम् ॥ १४ ॥

चन्द्रभागा नदीं तस्मात् कासाराद्दक्षिणाम्बुधिम् ।
यान्ती निर्भिद्य ददृशे तेन सानुगिरेर्महत् ॥ १५ ॥

निर्भिद्य पश्चिमं सानुं चन्द्रभागस्य सा नदी ।
यथा हिमवतो गङ्गा तथा गच्छति सागरम् ॥ १६ ॥

ऋषय ऊचुः
चन्द्रभागा कथं सिन्धुस्तत्रोत्पन्ना महागिरौ ।
कीदृक् सरस्तद्विप्रेन्द्र वृहल्लोहितसञ्ज्ञकम् ॥ १७ ॥

कथं सा पर्वतश्रेष्ठश्चन्द्रभागाह्वयोऽभवत् ।
चन्द्रभागाह्वया कस्मान्नदी जाता वृषोदका ॥ १८ ॥

एतन्नः श्रोष्यमाणानां जायते कौतुकं महत् ।
माहात्म्यं चन्द्रभागायाः कासारस्य गिरेस्तथा ॥ १९ ॥
मूलम्
एतन्नः श्रोष्यमाणानां जायते कौतुकं महत् ।
माहात्म्यं चन्द्रभागायाः कासारस्य गिरेस्तथा ॥ १९ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
श्रूयताञ्चन्द्रभागाया उत्पत्तिर्मुनिसत्तमाः ।
युष्माभिश्चन्द्रभागस्य माहात्म्यं नामकारणम् ॥ २० ॥

हिमवद्गिरिसंसक्तः शतयोजनविस्तृतः ।
योजनत्रिंशदायामः कुन्देन्दुधवलो गिरिः ॥ २१ ॥

तस्मिन् गिरौ पुरा वेधाश्चन्द्रं शुद्धं सुधानिधिम् ।
विभज्य कल्पयामास देवान्नं स पितामहः ॥ २२ ॥

पित्रर्थञ्च तथा तस्य तिथिवृद्धिक्षयात्मकम् ।
कल्पयामास जगतां हिताय कमलासनः ॥ २३ ॥

विभक्तश्चन्द्रमास्तस्मिन् जीमूते द्विजसत्तमाः ।
अतो देवाश्चन्द्रभागं नाम्ना चक्रुः पुरा गिरिम् ॥ २४ ॥

यज्ञभागेषु तिष्ठत्सु तथा क्षीरोदजेऽमृते ।
किमर्थमकरोच्चन्द्रं देवान्नं कमलासनः ॥ २५ ॥

तथा कव्ये स्थिते कस्मात् पित्रर्थ समकल्पयत् ।
तिथिक्षये तथा वृद्धौ कथमिन्दुरभूद्गुरो ॥ २६ ॥

एतन्नः संशयः ब्रह्मञ्चिन्धि सूर्यो यथा तमः ।
नान्योऽस्ति संशयस्यास्य छेत्ता त्वत्तो द्विजात्तमः ॥ २७ ॥
मूलम्
एतन्नः संशयः ब्रह्मञ्चिन्धि सूर्यो यथा तमः ।
नान्योऽस्ति संशयस्यास्य छेत्ता त्वत्तो द्विजात्तमः ॥ २७ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
पुरा दक्षः स्वतनया अश्विन्याद्या मनोरमाः ।
षड्विंशति तथैकाञ्च सोमायादात् प्रजापतिः ॥ २८ ॥

स्मस्तास्तास्ततः सोम उपयेमे यथाविधि ।
निनाय च स्वकं स्थान दक्षस्यानुमते तदा ॥ २९ ॥

अथ चन्द्रः समस्तासु तासु कन्यासु रागतः ।
रोहिण्या सार्धमवसद्रतोत्सवकलादिभिः ॥ ३० ॥

रोहिणीमेव भजते रोहिण्या सह मोदते ।
विनेन्दू रोहिणी शान्तिं न काञ्चिल्लभते पुरा ॥ ३१ ॥

रोहिणीतत्परं चन्द्रं वीक्ष्य ताः सर्वकन्यकाः ।
उपचारैर्बहुविधैर्भेजुश्चन्द्रमसं प्रति ॥ ३२ ॥

निषेव्यमाणोऽनुदिनं यदा नैवाकरोद्विधुः ।
तासु भावं तदा सर्वा अमर्षवशमागताः ॥ ३३ ॥

अथोत्तराफाल्गुनीति नाम्ना या भरणी तथा ।
कृत्तिकार्द्रा मघा चैव विशाखोत्तरभाद्रपत् ॥ ३४ ॥

तथा ज्येष्ठोत्तराषाढे नवैताः कुपिताः भृशम् ।
हिमांशुमुपसङ्गम्य परिवव्रुः समन्ततः ॥ ३५ ॥

परिवार्य निशानाथं ददृशू रोहिणीं ततः ।
वामाङ्कस्था तस्य तेन रममाणां स्वमण्डले ॥ ३६ ॥

तां वीक्ष्य तादृशीं सर्वा रोहिणीं वरवर्णिनीम् ।
जज्वलुश्चातिकोपेन हविषेव हुताशनः ॥ ३७ ॥

ततो मघात्रिपूर्वाश्च भरणी कृत्तिका तथा ।
चन्द्राङ्कस्थां महाभागां रोहिणी जगृहुहण्ठात् ॥ ३८ ॥

ऊचुश्चातीव कुपिताः पुरुषं रोहिणी प्रति ।
जीवन्न्या त्वयि दुष्प्राज्ञे नास्मानिन्दुस्तु भावभाक् ॥ ३९ ॥

समुपैष्यति कस्मिश्चित्समये सुरतोत्सुकः ।
वह्वीनां क्षेमवृद्ध्यर्थं तां हनिष्यामं दुर्मतिम् ॥ ४० ॥

न त्वां हत्वा भवेत् पापमस्माकमपि किञ्चन ।
प्रजनघ्नी बहुस्त्रीणामनृतौ पापकारिणीम् ॥ ४१ ॥

यस्मिन्नर्थे पुरा ब्रह्मा व्याजहार सुत प्रति ।
तीतिशास्त्रोपदेशाय तन्न संश्रुतमस्ति वै ॥ ४२ ॥

एकस्य यत्र निधने प्रवृत्ते दुष्टकारिणः ।
बहुना भवति क्षेम तस्य पुण्यप्रदो वधः ॥ ४३ ॥

रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः ।
आत्मानं घातयेद्यस्तु तस्य पुण्यप्रदो वधः ॥ ४४ ॥
मूलम्
रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः ।
आत्मानं घातयेद्यस्तु तस्य पुण्यप्रदो वधः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
तासां तादृगभिप्रायं बुद्धा दृष्ट्वा च कर्म च ।
भीतां च रोहिणीं दृष्ट्वा प्रियामतिमनोरमाम् ॥ ४५ ॥

आत्मानं चापराधं च तदसम्भोगजं मुहुः ।
विचिन्त्य रोहिणीं भीतां तासां हस्तादमोचयत् ॥ ४६ ॥

मोचयित्वा च बाहुभ्यां सम्परिष्वज्य रोहिणीम् ।
वारयामास ताः सर्वाः कृत्तिकाद्याः स भामिनीः ॥ ४७ ॥

तदेन्दुं वारयन्त्यस्ताः कृत्तिकाद्या मघान्तकाः ।
साम्यमूचुर्मनस्विन्यस्तां वीक्ष्यन्त्योऽथ रोहिणीम् ॥ ४८ ॥

न ते त्रपा वा भीतिर्वा पापतोऽस्मान्निरस्यतः ।
सञ्जायते निशानाथ प्राकृतस्येव वर्ततः ॥ ४९ ॥

कथमस्मान्निराकृत्य चारित्रव्रतधारिणीः ।
सदा भक्तिमतीरेकां मूढवत्त्वं निषेवसे ॥ ५० ॥

कि ते नावगतो धर्मो वेदमूलः श्रुतः पुरा ।
यद्धर्महीन कुरुष कर्म सद्भिविगहितम् ॥ ५१ ॥

धर्मशास्त्रार्थगं कर्म चरन्तीना यथोचितम् ।
कथमुद्वाहिताना त्वं मुखमात्र न वीक्षसे ॥ ५२ ॥

गदतो यच्छ्रुत पूर्व नारदाय पितुर्मुखात् ।
दक्षस्य धर्मशास्त्रार्थ तच्छृणुष्व निशापते ॥ ५३ ॥

बहुदारः पुमान् यस्तु रागादेकां भजेत् स्त्रियम् ।
स पापभाक्स्त्रीजितश्च तस्याशौचं सनातनम् ॥५४ ॥

यद्दुःखं जायते स्त्रीणां स्वाम्यसम्भोगजं विधो ।
न तस्य सदृशं दुखं किञ्चिदन्यत्र विद्यते ॥ ५५ ॥

सतीमृतुमईं जायां यो नेयात्पुरुषाधमः ।
ऋतुघस्रेषु शुद्धेषु भ्रूणहा स च जायते ॥ ५६ ॥

भार्या स्यादयावदात्रेयी तावत्कालं विबोधनम् ।
तस्यास्तु सङ्गमे किञ्चिद्विहितञ्चापि नाचरेत् ॥ ५७ ॥

बहुभार्यस्य भार्याणामृतुमैथुननाशनम् ।
न किञ्चिद्विद्यते कर्म शास्त्रेणापि यदीरितम् ॥ ५८ ॥

तोषयेत् सततं भार्याविधिवत्पाणिपीडिताः ।
तासां तुष्ट्या तु कल्याणमकल्याणमतोऽन्यथा ॥ ५९ ॥

सन्तुष्टो भार्यया भर्ता भत्रा भार्या तथैव च ।
यस्मिन्नेतत्कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ ६० ॥

यया विरुध्यते स्वामी सौभाग्यमददृप्तया ।
सपत्नीसङ्गमं कर्तुं सा स्याद्वेश्या भवान्तरे ॥ ६१ ॥

इहापि लोके वाच्यत्वमधर्मञ्चापि विन्दति ।
न पितुश्च कुल स्वामिकुल तस्या प्रमोदते ॥ ६२ ॥

विरुध्यमाने पत्यो यत्सपत्न्या वा प्रवर्तते ।
अतीव दुःख भवति तदकल्याणकृत्तयो ॥ ६३ ॥
मूलम्
विरुध्यमाने पत्यो यत्सपत्न्या वा प्रवर्तते ।
अतीव दुःख भवति तदकल्याणकृत्तयो ॥ ६३ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इत्येव भाषभाणास् तासु चातीव निष्ठुरम् ।
चुकोप चन्द्रमा दृष्ट्वा मलिनं रोहिणीमुखम् ॥ ६४ ॥

रोहिणी च तदा तासामवलोक्योग्रतां मुहुः ।
न किञ्चित् सापि प्रोवाच भयशोकत्रपाकुला ॥ ६५ ॥

अथापि कुपितश्चन्द्रस्ताः शशाप तदा स्त्रियः ।
यस्मान्मम पुरश्चोग्रास्तीक्ष्णा वाचः समीरिताः ॥ ६६ ॥

भवतीभिश्च तिसृभिलोकेऽस्मिन् कृत्तिकादिभिः ।
ऊग्रास्तीक्ष्णा इति ख्यातिः प्राप्तव्या त्रिदशेष्वपि ॥ ६७ ॥

तस्मादेवंविधानेन नवैताः कृत्तिकादयः ।
यात्रायां नोपयुक्ता हि भविष्यध्वं दिने दिने ॥ ६८ ॥

युष्मान् पश्यन्ति देवाद्या मनुष्याद्या च ये क्षितौ ।
यात्रायां तेन दोषेण तेषां यात्रा न चेष्टदा ॥ ६९ ॥

अथ सर्वास्तदा शापं तस्य श्रुत्वातिदारुणम् ।
चन्द्रस्य हृदयं ज्ञात्वा शापाच्चातीव निष्ठुरम् ॥ ७० ॥

जग्मुः सर्वास्तदा दक्षभवनं प्रत्यमर्षिताः ।
ऊचुश्च दक्षं पितरमश्विन्याद्याः सगद्गदम् ॥ ७१ ॥

सोमो वसति नास्मासु रोहिणीं भजते सदा ।
सेवमाना न भजते सोऽस्मान् परवधूरिव ॥ ७२ ॥

नावस्थाने नावसाने भोजने श्रवणे तथा ।
विनेन्दू रोहिणीं शान्तिं लभते नहि काञ्चन ॥ ७३ ॥

रोहिण्या वसतस्तस्य समीपं वीक्ष्य ते सुताः ।
यान्तीः सोऽन्यत्र नयनमाधाय नहि वीक्षते ॥ ७४ ॥

मास्त्वन्यः स्वामिसद्भावो मुखमात्रं न वीक्षते ।
अस्मिन् वस्तुनि यत्कार्यं तदस्माभिर्निगद्यताम् ॥ ७५ ॥

अस्माभिरेत्समयेऽनुरुद्धश्च चन्द्रमाः ।
स तत्कृते ततश्चास्मच्छापं तीव्र तदाकरोत् ॥ ७६ ॥

दारुणाश्चातितीक्ष्णाश्च लोके वाच्यत्वमाप्य च ।
अयात्रिका भविष्यध्वं यूयमित्युक्तवान् विधुः ॥ ७७ ॥
मूलम्
दारुणाश्चातितीक्ष्णाश्च लोके वाच्यत्वमाप्य च ।
अयात्रिका भविष्यध्वं यूयमित्युक्तवान् विधुः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
श्रुत्वा वाक्यं स पुत्रीणां ताभिः सार्धं प्रजापतिः ।
जगाम यत्र सोमोऽभूद्रोहिण्या सहितस्तदा ॥ ७८ ॥

दूरादेव विधुर्दृष्ट्वा दक्षमायान्तमासनात् ।
उत्तस्थावन्तिके प्राप्य ववन्दे च महामुनिम् ॥ ७९ ॥

अथ दक्षस्तदोवाच कृतासनपरिग्रहः ।
सामपूर्वं चन्द्रमसं कृत-संवन्दनं तथा ॥ ८० ॥

दक्ष उवाच
समं वर्तस्व भार्यासु वैषम्यं त्वं परित्यज ।
वैषम्ये बहवो दोषा ब्रह्मणा परिकीर्तिताः ॥ ८१ ॥

रतिपुत्रफला दारास्तासु कामानुबन्धनात् ।
कामानुबन्धः संसर्गात् संसर्गः सङ्गमाद्भवेत् ॥ ८२ ॥

सङ्गमश्चाप्यभिध्यानाद्वीक्षणादभिजायते ।
तस्माद् भार्यास्वभिध्यानं कुरु त्वं वीक्षणादिकम् ॥ ८३ ॥

यद्येवं नैव कुरुषे मद्वचो धर्मयन्त्रितम् ।
तदा लोकवचोदुष्टः पापवांस्त्वं भविष्यसि ॥ ८४ ॥
मूलम्
यद्येवं नैव कुरुषे मद्वचो धर्मयन्त्रितम् ।
तदा लोकवचोदुष्टः पापवांस्त्वं भविष्यसि ॥ ८४ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
एतच्छ्रुत्वा वचस्तस्य दक्षस्य सुमहात्मनः ।
एवमस्त्विति चन्द्रोऽपि न्यगदद्दक्षशङ्कया ॥ ८५ ॥

अथानुमन्त्र्य तनयाश्चन्द्रं जामातारं तथा ।
ययो दक्षो निजं स्थानं कृतकृत्यस्तदा मुनिः ॥ ८६ ॥

गते दक्षे ततश्चन्द्रस्तां समासाद्य रोहिणीम् ।
जग्राह पूर्ववद्भावं तासु तस्यां च रागतः ॥ ८७ ॥

तत्रैव रोहिणीं प्राप्य न काश्चिदपि वीक्षते ।
रोहिण्यामेव वसते ततस्ताः कुपिताः पुनः ॥ ८८ ॥

गत्वा ताः पितरं प्राहुर्दौर्भाग्योद्विग्नमानसाः ।
सोमो वसति नास्मासु रोहिणीं भजते सदा ॥ ८९ ॥

तवापि नाकरोद्वाक्यं तस्मान्नः शरणं भव ॥ ९० ॥

उद्वेग कोपसंयुक्त उत्तस्थौ तत्क्षणान्मुनिः ।
जगाम मनसा ध्यायन् कर्तव्यं निकटं विधोः ॥ ९१ ॥

उपगम्य तदा प्राह वचश्चन्द्रं प्रजापतिः ।
समं वर्तस्व भार्यासु वैषम्यं त्वं परित्यज ॥ ९२ ॥

न चेदिदं वचोऽस्माकं मौर्ख्यात् त्वम्मावबुध्यसे ।
धर्मशास्त्रातिगायाहं शप्स्ये तुभ्यं निशापते ॥ ९३ ॥
मूलम्
न चेदिदं वचोऽस्माकं मौर्ख्यात् त्वम्मावबुध्यसे ।
धर्मशास्त्रातिगायाहं शप्स्ये तुभ्यं निशापते ॥ ९३ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
ततो दक्षभयाच्चन्द्रस्तत्कर्तुम्प्रति तत्पुरः ।
अङ्गीचकारातिभयात् कार्यमेवं मुहुस्त्विति ॥ ९४ ॥

समं प्रवर्तनं कर्तुं भार्यास्वङ्गीकृते ततः ।
विधुना प्रययौ दक्षः स्वस्थानं चन्द्रसम्मतः ॥ ९५ ॥

गते दक्षे निशानाथो रोहिण्यासहितो भृशम् ।
रममाणो विसस्मार दक्षस्य वचनन्तु सः ॥ ९६ ॥

सेवमानाश्च ताः सर्वा अश्विनाद्या मनोरमाः ।
नाभजच्चन्द्रमास्तासु अवज्ञामेव चाकरोत् ॥ ९७ ॥

अवज्ञातास्तु ताः सर्वाश्चन्द्रेण पितुरस्तिकम् ।
गत्वैवार्तस्वराश्चार्ता रुदन्त्यश्चेदमब्रुवन् ॥ ९८ ॥

नाकरोद्वचनं सोमस्तवापि मुनिसत्तम ।
अवज्ञां कुरुतेऽमासु पूर्वतोऽप्यधिकं स च ॥ ९९ ॥

तस्मात् सोमेन नः कार्य न किञ्चिदपि विद्यते ।
तपस्विन्यो भविष्यामस्तपश्चर्या निदेशय ॥ १०० ॥

तपसा शोधितात्मानः परित्यक्ष्याम जीवितम् ।
किमस्माकं जीवितेन दुर्भगानां द्विजोत्तम ॥ १०१ ॥
मूलम्
तपसा शोधितात्मानः परित्यक्ष्याम जीवितम् ।
किमस्माकं जीवितेन दुर्भगानां द्विजोत्तम ॥ १०१ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इत्युक्त्वा तास्ततः सर्वा दक्षजाः कृत्तिकादयः ।
कपोलमालम्ब्य करैरूरुदुर्विविशुः क्षितौ ॥ १०२ ॥

तास्तु दृष्ट्वा तथाभूता दुःखव्याकुलितेन्द्रियाः ।
अतिदीनमुखो दक्षः कोपाज्जज्वाल वह्निवत् ॥ १०३ ॥

अथ कोपपरीतस्य दक्षस्य सुमहात्मनः ।
निश्चक्राम तदा यक्ष्मा नासिकाग्राद्विभीषणः ॥ १०४ ॥

दंष्ट्राकरालवदनः कृष्णाङ्गारसमप्रभः ।
अतिदीर्घः स्वल्पकेशः कृशो घमनिसन्ततः ॥ १०५ ॥

अधोमुखो दण्डहस्तः कासं विश्रम्य सन्ततम् ।
कुर्वाणो निम्ननेत्रश्च योषासम्भोगलोलुपः ॥ १०६ ॥

स चोवाच तदा दक्षं कस्मिंस्थास्याम्यहं मुने ।
किंवा चाहं करिष्यामि तन्मेवद महामते ॥ १०७ ॥

ततो दक्षस्तु तं प्राह सोमं यातु द्रुतं भवान् ।
सोममत्तु भवान्नित्यं सोमे त्वं तिष्ठ स्वेच्छया ॥ १०८ ॥
मूलम्
ततो दक्षस्तु तं प्राह सोमं यातु द्रुतं भवान् ।
सोममत्तु भवान्नित्यं सोमे त्वं तिष्ठ स्वेच्छया ॥ १०८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति श्रुत्वा वचस्तस्य दक्षस्याथ महामुनेः ।
शनैः शनैस्ततः सोममाससाद गदः स च ॥ १०९ ॥

आसाद्य स तदा सोमं वाल्मीकं पन्नगो यथा ।
प्रविवेशेन्दुहृदयं छिद्रं प्राप्य महागदः ॥ ११० ॥

तस्मिन् प्रविष्टे हृदये दारुणे राजयक्ष्मणि ।
मुमोह चन्द्रस्तन्द्रां च विषमां प्राप्तवांश्च सः ॥ १११ ॥

उत्पद्य प्रथमं यस्माल्लीनो राजन्यसौ गदः ।
राजयक्ष्मेति लोकेऽस्मिन्नस्य ख्यातिरभूद्द्विजाः ॥ ११२ ॥

ततस्तेनाभिभूतः स यक्ष्मणा रोहिणीपतिः ।
क्षयं जगामानुदिनं ग्रीष्मे क्षुद्रा नदी यथा ॥ ११३ ॥

अथ चन्द्रे क्षीयमाणे सर्वौषध्यो गता क्षयम् ।
क्षयं यातास्वौषधिषु न यज्ञः समवर्तत ॥ ११४ ॥

यज्ञाभावात्तु देवानामन्नं सर्वं क्षयं गतम् ।
पर्जन्याश्च ततो नष्टास्ततो वृष्टिर्नचाभवत् ॥ ११५ ॥

वृष्ट्यभावे तु लोकानामाहाराः क्षीणतां गताः
दुर्भिक्षव्यसनोपेते सर्वलोके द्विजोत्तमाः ॥ ११६ ॥

दानधर्मादिकं किञ्चिन्न लोकस्य प्रवर्तते ।
सत्त्वहीनाः प्रजाः सर्वा लोभेनोपहतेन्द्रियाः ।
पापमेव तदा चक्रुः कुकर्मरतयश्च ताः ॥ ११७ ॥

एतान् दृष्ट्वा तदा भावान् दिक्पालाः सपुरन्दराः ।
जग्मुः क्षोभं परं देवाः सागराश्च ग्रहास्तथा ॥ ११८ ॥

ततो दृष्ट्वा जगत्सर्वं व्याकुलं दस्युपीडितम् ।
ब्रह्माणमगमन् देवाः सर्वे शक्रपुरोगमाः ॥ ११९ ॥

उपसङ्गम्य देवेशं स्रष्टारं जगतां पतिम् ।
प्रणम्याथ यथायोग्यमुपविष्टास्तदा सुराः ॥ १२० ॥

तान् म्लानवदनान् सर्वान् वीक्ष्य लोकपितामहः ।
अभिभूतान् परेणेव हृतस्वविषयानिव ।
पप्रच्छ सम्मुखीकृत्य गुरुमिन्द्रं हुताशनम् ॥ १२१ ॥

स्वागत भो सुरगणाः किमर्थं यूयमागताः ।
दुःखोपहतदेहांश्च युष्मान् म्लानांश्च लक्षये ॥ १२२ ॥

निराबाधान्निरातङ्कान् युष्मान् सर्वांश्चं कामगान् ।
कृत्वा स्वविषये न्यस्तान् कथं पश्यामि दुःखितान् ॥ १२३ ॥

यद्वोऽभवद्दुःखबीजं युष्मान् वा यस्तु बाधते ।
तत्कथ्यतामशेषेण सिद्धञ्चाप्यवधार्यताम् ॥ १२४ ॥
मूलम्
यद्वोऽभवद्दुःखबीजं युष्मान् वा यस्तु बाधते ।
तत्कथ्यतामशेषेण सिद्धञ्चाप्यवधार्यताम् ॥ १२४ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
ततो वृद्धश्रवा जीवः कृष्णवर्त्मा च लोकभृत् ।
उवाचात्मभुवे तस्मै सुराणां दुःखकारणम् ॥ १२५ ॥

देवाः ऊचुः
शृणु सर्वं जगत्कर्तस्त्वां येन वयमागताः ।
यद्वास्माकं दुःखबीजं यतो म्लानश्रियो वयम् ॥ १२६ ॥

न क्वचित् सम्प्रवर्तन्ते यज्ञा लोके पितामह ।
निराधारा निरातङ्काः प्रजाः सर्वा क्षयं गता ॥ १२७ ॥

न च दानादिधर्मश्च न तपांसि क्षितो क्वचित् ।
नैव वर्षति पर्जन्यः क्षीणतोयाभवत् क्षितिः ॥ १२८ ॥

क्षीणाः सर्वास्तथौषध्यः शस्या लोकाः समाकुलाः ।
दस्युभिः पीडिता विप्रा वेदवादं न कुर्वते ॥ १२९ ॥

अन्नवैकल्यमासाद्य म्रियन्ते बहवः प्रजाः ।
क्षीणेषु यज्ञभागेषु भोग्यहीनास्तथा वयम् ॥ १३० ॥

दुर्बलास्तु श्रिया हीना नैव शान्ति लभामहे ॥ १३१ ॥

रोहिण्या मन्दिरे चन्द्रो वक्रगत्या चिरं स्थितः ।
वृषराशौ स च क्षीणो ज्योत्स्नाहीनश्च वर्तते ॥ १३२ ॥

यदैवान्विष्यते देवैश्चन्द्रो नैषा पुरःसरः ।
कदाचिदपि देवाना समाजे वा भवद्विधे ॥ १३३ ॥

कदाचिद्रोहिणी त्यक्त्वा नैव क्वचन गच्छति ।
यद्यन्य कोऽपि न भवेत्तदा चन्द्रो बहिर्भवेत् ॥ १३४ ॥

दृश्यते स कलाहीनः कलामात्रावशेषकः ।
इति सर्वत्र लोकेश वृत्तः कर्मविपर्ययः ॥ १३५ ॥

तं दृष्ट्वा कान्दिशीकास्तु वयं त्वां शरणं गताः ।
पातालाद्यावदुत्थाय कालकञ्जादयोऽसुराः ॥ १३६ ॥

नास्मान् लोकेश बाधन्ते तावन्नस्त्राहि साध्वसात् ।
अयं प्रवर्तते कस्माज्जगतां वा व्यतिक्रमः ।
न जानीमस्तु तत्सर्वं विप्लवे वापि कारणम् ॥ १३७ ॥

एतत् सुराणां वचनं दिव्यदर्शी पितामहः ।
श्रुत्वा क्षणमभिध्यायन् निजगाद सुरोत्तमान् ॥ १३८ ॥

शृण्वन्तु देवताः सर्वा यदर्थं लोकविप्लवः ।
प्रवर्ततेऽधुना येन ज्ञान्तिस्तस्य भविष्यति ॥ १३९ ॥

सोमो दाक्षायणीः कन्याः सप्तविंशतिसङ्ख्यकाः ।
अश्विन्याद्या वरवधूभार्यार्थे परिणीतवान् ॥ १४० ॥

परिणीय स ताः सर्वा रोहिण्यां सततं विधुः ।
प्रावर्ततानुरागेण न समस्तासु वर्तते ॥ १४१ ॥

अश्विन्याद्यास्तु ताः सर्वा दौर्भाग्यज्वरपीडिताः ।
षड्विंशतिर्वरारोहाः पितरं प्रस्थिताः स्वकम् ॥ १४२ ॥

प्रवर्तते निशानाथो रोहिण्या रागतो यथा ।
तथा न तासु भजते तद्दक्षाय न्यवेदयत् ॥ १४३ ॥

ततो दक्षो महाबुद्धिः साम्ना संस्तूय विट्पतिम् ।
बहुसुनृतमाभाष्य पुत्र्यर्थे चान्वरोधत ॥ १४४ ॥

अनुरुद्धो यथाकामं दक्षेण सुमहात्मना ।
समं प्रवर्तितुं तासु समयं कृतवान् विधुः ॥ १४५ ॥

सममङ्गीकृते भाव तासु कर्तुं हिमांशुना ।
स्वं जगाम ततः स्थानं दक्षोऽपि मुनिसत्तमः ॥ १४६ ॥

गते दक्षे मुनिश्रेष्ठे वैषम्यं तासु चन्द्रमाः ।
जहौ न भावं ताः शश्वत् कुपिताः पितरं गताः ॥ १४७ ॥

ततो दक्षः पुनश्चन्द्रमनुरुध्य सुतान्तरे ।
समां वृत्तिं प्रतिश्राव्य वचनं चेदमब्रवीत् ॥ १४८ ॥

न समं वर्तते चन्द्र सर्वास्वासु भवान् यदि ।
तदा शप्स्ये त्वहं तुभ्यं तस्मात् कुरु समञ्जसम् ॥ १४९ ॥

ततो गते पुनर्द्दक्षे न समं वर्तते यदा ।
तासु चन्द्रस्तदा दक्षं पुनर्गत्वाणुवन् रुषा ॥ १५० ॥

न ते वचः सत्कुरुते नैवास्मासु प्रवर्तते ।
वयं तपश्चरिष्यामः स्थास्यामश्च तवान्तिके ॥ १५१ ॥

तासामिति वचः श्रुत्वा कुपितः स महामुनिः ।
क्षयाय चन्द्रस्य पुनः शापायत्सुकतां गतः ॥ १५२ ॥

शापायोद्युक्तममनसः कुपितस्य महामुने ।
क्षयो नाम महारोगो नासिकाग्राद्विनिर्गतः ॥ १५३ ॥

प्रेषितः स च चन्द्राय दक्षेण मुनिना ततः ।
प्रविष्टश्च ततो देहे क्षयितस्तेन चन्द्रमाः ॥ १५४ ॥

क्षीणे चन्द्रे क्षयं याता ज्योत्स्नास्तस्य महात्मनः ।
क्षीणासु सर्वज्योत्स्नासु सर्वौषध्यः क्षयं गताः ॥ १५५ ॥

औषध्यभावाल्लोकेऽस्मिन् न यज्ञः सम्प्रवर्तते ।
यज्ञाभावादनावृष्टिस्ततः सर्वप्रजाक्षयः ॥ १५६ ॥

यज्ञभागोपभोगेन हीनानां भवतां तथा ।
दुर्बलत्वं समुत्पन्नं विकारश्च स्वगोचरे ॥ १५७ ॥

इति वः कथितं सर्वं यथाभूल्लोकविप्लवः ।
येनोपायेन तच्छान्तिस्तच्छृण्वन्तु सुरोत्तमाः ॥ १५८ ॥

इति श्रीकालिकापुराणे चन्द्रस्यशाप मोक्षे विंशोऽध्यायः