विश्वास-प्रस्तुतिः
एकोनविंशोऽध्यायः
मार्कण्डेय उवाच
ततस्तां पतितां दृष्ट्वा तदा दाक्षायणीं स्मरन् ।
न शशाक ह सोढुं शोकमुद्वेगसम्भवम् ॥ १ ॥
मूलम्

भ्रष्टधैर्यस्ततः शम्भुर्वाष्पव्याकुललोचनः ।
पश्यतां सर्वदेवानां चिन्ताध्यानपरोऽभवत् ॥ २ ॥

अथाश्वास्य तदा धाता विजयां शोककर्षिताम् ।
हरमाश्वासयन् सान्त्वपूर्वमेतदुवाच ह ॥ ३ ॥

ब्रह्मोवाच
पुराणयोगिन् भगवन्न शोकस्तव युज्यते ।
परधाम्नि तव ध्यानमासीत् कस्मात् स्त्रियामिह ॥ ४ ॥

प्रभविष्णुः परः शान्तः सूक्ष्मः स्थूलतरः सदा ।
तव स्वभावश्च कथं शोकेन बहुधाकृतः ॥ ५ ॥

निरञ्जनं ध्यानगम्यं यतीनां परात्परं निर्मलं सर्वगामि ।
मलेर्हीनं रागलोभादिमिर्यत् तत् ते रूपं त्वद्भूतं तं गृह्ण बुद्ध्या ॥ ६ ॥

शोको लोभः क्रोधमोहौ च हिंसा मानो दम्भो मदनोहप्रमोदाः ।
ईर्ष्यासूयाक्षान्तिरसत्यता च चतुर्दश ज्ञाननाशा हि दोषाः ॥ ७ ॥

ध्यानेन त्वां योगिनश्चिन्तयन्ति त्वं विष्णुरूपी जगतां विधाता ।
या ते महामोहकरी सतीति तथैव सा लोकमोहाय माया ॥ ८ ॥

या सर्वलोकाञ्जननेऽथ गर्भे विमोहयन्ती पूर्वदेहस्य बुद्धिम् ।
विनाश्य बाल्यं कुरुते हि जन्तोर्विमोहयत्यद्य सा त्वं सशोकम् ॥ ९ ॥

सतीसहस्राणि पुरोज्झितानि त्वया मृतानि प्रतिकल्पमेवम् ।
हिताय लोकस्य चराचरस्य पुनर्गृहीता च तथा त्वयेयम् ॥ १० ॥

भवान्तरे ध्यानयोगेन पश्य सतीसहस्राणि मृतानि यानि ।
यथा तथा त्वं परिवर्जितश्च यथास्ति सा वा वृषराजकेतो ॥ ११ ॥

यतः समुत्पद्य मुहुर्भवन्तं सा प्राप्स्यतीश त्रिदर्शदुरापम् ।
पुनञ्च जाया यादृशो ते धवित्री तत्तत् सर्वं ध्यानयोगेन पश्य ॥ १२ ॥

एवं बहुविधं ब्रह्मा व्याहरत् साम शङ्करम् ।
गिरिराजपुरात्तस्माद्गयामास निर्जनम् ॥ १३ ॥

ततो हिमवतः प्रस्थे प्रतीच्यां तत्पुरस्य च ।
शिप्रं नाम सरः पूर्णं ददृशर्द्रुहिणादयः ॥ १४ ॥

तद्रहस्थानमासाद्य ब्रह्मशक्रादयः सुराः ।
उपविष्टा यथान्यायं पुरस्कृत्य महेश्वरम् ॥ १५ ॥

तं शिप्रसञ्ज्ञं कासारं मनोज्ञं सर्वदेहिनाम् ।
शीतामलजलं सर्वैर्गुणैर्मानससम्मितम् ॥ १६ ॥

दृष्ट्वा क्षणं हस्तस्मिन् सोत्सुकोऽभूदवेक्षणे ।
शिप्रां नाम नदीं तस्मान्निःसृतां दक्षिणोदधिम् ।
गच्छन्तीञ्च ददर्शासौ पावयन्तीं जगज्जनान् ॥ १७ ॥

तत्सरः पूर्णमासाद्य चरतः शकुनान् बहून् ।
नानादेशागताञ्छम्भुर्वीक्षाञ्चक्रे मनोरमान् ॥ १८ ॥

गम्भीरपवनोद्धुतिसम्पन्नेषु विराजितः ।
कोकद्वन्द्वांस्तरङ्गेषु ददर्श नृत्यतो यथा ॥ १९ ॥

मद्गुचञ्चूषू सम्पृक्तांस्तरङ्गान् स पृथक् पृथक् ।
वीक्षाञ्चक्रे यथा तोयादुत्पतत्पतगान् मुहुः ॥ २० ॥

कादम्बैः सारसेर्हसैः श्रेणीभूतैस्तटेतटे ।
भङ्गीकृतैर्यथा शङ्खैः सागरस्तादृशं सरः ॥ २१ ॥

महामीनाहतिक्षुब्धैस्तोयशब्दोत्थसाध्वसैः ।
पक्षिमिर्विहितैः शब्दस्तत्र तत्र मनोहरम् ॥ २२ ॥

प्रफुल्लैः पङ्कजैश्चैव क्वचिर्ज्जालैर्मनोहरैः ।
सरोरेजे यथा स्वर्गो नक्षत्रैः स्थूलसूक्ष्मकैः ॥ २३ ॥

महोत्पलानां मध्येषु विरलं नीलमुत्पलम् ।
रेजे नक्षत्रमध्येषु नीलनीरदखण्डवत् ॥ २४ ॥

पद्मसन्धात-मध्यस्था हंसाः कैश्चिन्न संस्तुताः ।
प्रफुल्लपङ्कजभ्रान्त्या निश्चलाः स्वर्गवासिभिः ॥ २५ ॥

द्विधा दृष्ट्वा शोणशुक्ले पद्मे फुल्ले विधिः स्वके ।
कायेऽरुणत्वं फुल्लत्वं स्वासनाब्जे निनिन्द च ॥ २६ ॥

फुल्लं महोत्पलं वीक्ष्य सरसस्तस्य शङ्करः ।
मौलीन्दुकान्तिमलिनं हस्तस्थं नोत्पलं ममे ॥ २७ ॥

हरेः स्वचक्रसूर्यांशफुल्लं हस्तगताम्बुजम् ।
सरः पद्मञ्च सदृशं मेने वीक्ष्य समन्ततः ॥ २८ ॥

तत्सरो वीक्ष्य सम्पूर्णं नानापक्षिसमाकुलम् ।
पद्मिनीशतसञ्छन्नं नीलोत्पलचयैर्वृतम् ॥ २९ ॥

देवदारुतरूणाञ्च तटस्थानां प्रसूनजैः ।
परागैर्वासितजलं हृदयानन्दकारकम् ॥ ३० ॥
मूलम्
देवदारुतरूणाञ्च तटस्थानां प्रसूनजैः ।
परागैर्वासितजलं हृदयानन्दकारकम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
तीरे तीरे महावृक्षैः शाद्वलैः परिवारितम् ।
दृष्ट्वा शम्भुः क्षणं तत्र सोत्सुकः शोकवर्जितः ॥ ३१ ॥

शिप्रामालोकयामास निःसृतां सरसस्ततः ।
यथेन्दुमण्डलाद् गङ्गा मेरोर्जाम्बुनदी यथा ।
तथा दृष्ट्वा महेशेन शिप्रा शिप्राद्विनिःसृता ॥ ३२ ॥

ऋषय ऊचुः
शिप्राह्वयः क कासारः कथं शिप्रा ततः सृता ।
कीदृशोऽस्य प्रभावश्च तत् समाचक्ष्य विस्तरात् ॥ ३३ ॥
मूलम्
ऋषय ऊचुः
शिप्राह्वयः क कासारः कथं शिप्रा ततः सृता ।
कीदृशोऽस्य प्रभावश्च तत् समाचक्ष्य विस्तरात् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
शृण्वन्तु मुनयः सर्वे यथा शिप्रा नदी सृता ।
शिप्रऽस्य च महाभागाः प्रभावं गदतौ मम ॥ ३४ ॥

वसिष्ठेन यदा देवी परिणीता त्वरुन्धती ।
तदा वैवाहिकैस्तोयैः शिप्रासिन्धुरभूद्विजाः ॥ ३५ ॥

सा समागत्य पतिता शिप्रे सरसि शासनात् ।
यदा मन्दाकिनी विष्णुपादादब्धौ शिवोदका ॥ ३६ ॥

ब्रह्मविष्णुमहादेवैस्तोयं सिक्तं तयोः पुरा ।
विवाहे शान्तिविहितं गायत्रीद्रुपदादिभिः ॥ ३७ ॥

एकीभूतन्तु तत्तोयं मानसाचलकन्दरात् ।
तत् सर्वं पतितं शिप्रे कासारे सागरोपमे ॥ ३८ ॥

देवानामुपभोगार्थं पुरा धात्रा विनिर्मितम् ।
सरः शिप्राह्वयं सानौ प्रालेयस्य गिरेर्महत् ॥ ३९ ॥

तत्राद्यापि सुनासीरः सहितश्चाप्सरोगणैः ।
शचीसहायो रमते प्रसन्ने सालिले शुभे ॥ ४० ॥

तद्देवैः सर्वदा यत्नाद्रक्ष्यतेऽद्यापि रत्नवत् ।
न तत्र मानुषः कश्चिद् यातुं शक्नोति योऽमुनिः ॥ ४१ ॥

तपः प्रभावान्मुनयः प्रयान्ति सरसीं शुभाम् ।
शिप्राख्यान्तु महायत्नात् स्नातुं पातुञ्च तज्जलम् ॥ ४२ ॥

तत्र स्नात्वा च पीत्वा च मनुष्याः दैवयोगतः ।
अवश्यममरत्वाय गच्छन्त्यविकलेन्द्रियाः ॥ ४३ ॥

वृद्धिं गच्छति वर्षासु सरो नैतद्द्विजोत्तमाः ।
न ग्रीष्मे शोषतां याति सर्वदा तद्यथा तथा ॥ ४४ ॥

तत्र तत् पतितं तोयं वसिष्ठोद्वाहसम्भवम् ।
ब्रह्मविष्णुमहादेवकरपद्मैरुदीरितम् ॥ ४५ ॥

ववृधे शिप्रगर्भस्थमन्वहं द्विजसत्तमाः ।
तत्र वृद्धन्तु तत्तोयञ्चक्रेण च हरिः पुरा ॥ ४६ ॥

गिरेः शृङ्गं विनिर्मिद्य लोकानां हितकाम्यया ।
पृथिवीं प्रेरयामास कृतो पुण्यतमां नदीम् ॥ ४७ ॥

परिवृत्य महेन्द्रं सा पुनाना स्नानकारिणः ।
दक्षिणं सागरं याता फलदा जाह्नवी समा ॥ ४८ ॥

शिप्राख्यात् सरसो यस्मान्निःसृता सा महानदी ।
अतः शिप्रेति तन्नाम पुरैव ब्रह्मणा कृतम् ॥ ४९ ॥

कार्तिक्यां पौर्णमास्यां तु तस्यां यः स्नाति मानवः ।
स याति विष्णुसदनं विमानेनातिदीप्यता ॥ ५० ॥

कार्तिक सकलं मासं स्नात्वा शिप्राजले नरः ।
प्रयाति ब्रह्मसदनं पश्चान्मोक्षमवाप्नुयात् ॥ ५१ ॥

वसिष्ठेन कथं देवी परिणीता त्वरुन्धती ।
कस्य सा तनया ब्रह्मन्नुत्पन्ना वा वदस्व नः ॥ ५२ ॥

पतिव्रतासु पर्थिता त्रिषुलोकेषु या वरा ।
भर्तृपादौ विनान्यत्र या न चक्षुः प्रदास्यति ॥ ५३ ॥

यस्याः स्मृत्वा कथामात्रं माहात्म्यसहितं स्त्रियः ।
प्रेत्येह च सतीत्वं वै प्राप्नुवन्त्यन्यजन्मनि ॥ ५४ ॥

यासन्नकालधर्मो यां न पश्यति तथा शुचिः ।
पुरुषः पापकारी च तस्या जन्म वदस्व नः ॥ ५५ ॥
मूलम्
यासन्नकालधर्मो यां न पश्यति तथा शुचिः ।
पुरुषः पापकारी च तस्या जन्म वदस्व नः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
शृणुध्वं सा यथा जाता यस्य वा तनया शुभा ।
यथावाप वसिष्ठं सा यथा भूता पतिव्रता ॥ ५६ ॥

या सा सन्ध्या ब्रह्मसुता मनोजातः पुराभवत् ।
तपस्तप्त्वा तनुं त्यक्त्वा सैव भूता त्वरुन्धती ॥ ५७ ॥

मेधातिथेः सुता भूत्वा मुनिश्रेष्ठस्य सा सती ।
ब्रह्मविष्णुमहेशानां वचनाच्चरितव्रता ।
वव्रे पतिं महात्मानं वसिष्ठं संशितव्रतम् ॥ ५८ ॥

कथं तया तपस्तप्तं किमर्थं कुत्र सन्ध्यया ।
कथं शरीरं सा त्यक्त्वा भूता मेधातिथेः सुता ॥ ५९ ॥

कथं वा गदितं देवैर्ब्रह्मविष्णुशिवैः पतिम् ।
वसिष्ठं सुमहात्मानं सा वव्रे संशितव्रतम् ॥ ६० ॥

तन्नः सर्वं समाचक्ष्व विस्तरेण द्विजोत्तम ।
एतन्नः श्रोष्यमाणानां चरितं द्विजसत्तम ।
अरुन्धत्या महासत्याः परङ्कौतूहलं महत् ॥ ६१ ॥

ब्रह्मापि तनयां सन्ध्यां दृष्ट्वा पूर्वमथात्मनः ।
कामाय मानसञ्चक्रे त्यक्ता सा च सुतेति वै ॥ ६२ ॥

तस्याञ्च चलितं चित्तं कामवाणविलोडितम् ।
ऋषीणां प्रेक्षतां तेषां मानसानां महात्मनाम् ॥ ६३ ॥

भर्गस्य वचनं श्रुत्वा सोपहासविधिं प्रति ।
आत्मनश्चलचित्तत्वममर्यादमृषीन् प्रति ॥ ६४ ॥

कामस्य तादृशं भावं मुनिमोहकरं मुहुः ।
दृष्ट्वा सन्ध्या स्वयं तत्र त्रपामायाति दुःखिता ॥ ६५ ॥

ततस्तु ब्रह्मणा शप्ते मदने तदनन्तरम् ।
अन्तर्भूते विधौ शम्भौ गते चापि निजास्पदम् ॥ ६६ ॥

अमर्षवशमापन्ना सन्ध्या ध्यानपराभवत् ।
ध्यायन्ती क्षणमेवाशु पूर्ववृत्तं मनस्विनी ॥ ६७ ॥

इदं विममृशे सन्ध्या तस्मिन् काले यथोचितम् ।
उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः ॥ ६८ ॥

अकार्षीत् सानुरागोऽयमभिलाषं पितामहः ।
सर्वेषां मानसानाञ्च मुनीनां भावितात्मनाम् ॥ ६९ ॥

दृष्टैव माममर्यादं सकाममभवन् मनः ।
ममापि मथितं चित्तं मदनेन दुरात्मना ॥ ७० ॥

येन दृष्ट्वा मुनीन् सर्वान् चलितं मे मनोभृशम् ।
फलमेतस्य पापस्य मदनः स्वयमाप्तवान् ॥ ७१ ॥

स्वयं शशाप कुपितः शम्भोरग्रे पितामहः ।
ममोचितं फलं सर्वं प्राप्तुमिच्छामि साम्प्रतम् ॥ ७२ ॥

यन्मां पिता भ्रातरश्च सकामामपरोक्षतः ।
दृष्ट्वा चक्रुः स्पृहां तस्मान्न मत्तः काऽपि पापकृत् ॥ ७३ ॥

ममापि कामभावोऽभूदमर्यादं समीक्ष्य तान् ।
पत्याविव स्वके ताते सर्वेषु सहजेष्वपि ॥ ७४ ॥

करिष्याम्यस्य पापस्य प्रायश्चित्तमहं स्वयम् ।
आत्मानमग्नौ होष्यामि वेदमार्गानुसारतः ॥ ७५ ॥

किन्त्वेकां स्थापयिष्यामि मर्यादामिह भूतले ।
उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः ॥ ७६ ॥

एतदर्थमहं कृत्वा तपः परमदारुणम् ।
मर्यादां स्थापयित्वैव पश्चात्त्यक्ष्यामि जीवितम् ॥ ७७ ॥

यस्मिञ्छरीरे पित्रा मे ह्यभिलाषः स्वयं कृतः ।
भ्रातृभिस्तेन कायेन किञ्चिन्नास्ति प्रयोजनम् ॥ ७८ ॥

येन स्वेन शरीरेण ताते च सहजे स्वके ।
उद्भावितः कामभावो न तत्सुकृतसाधकम् ॥ ७९ ॥

इति सञ्चिन्त्य मनसा सन्ध्या शैलवरं ततः ।
जगाम चन्द्रभागाख्यं चन्द्रभागा यतः सृता ॥ ८० ॥

तया स शैलः समधिष्ठितः सदा
सुवर्णगौर्या सुसमप्रभाभृता ।
सोमेन सन्ध्यासमयोदितेन
यथोदयाद्रिर्विरराज शश्वत् ॥ ८१ ॥
मूलम्
तया स शैलः समधिष्ठितः सदा
सुवर्णगौर्या सुसमप्रभाभृता ।
सोमेन सन्ध्यासमयोदितेन
यथोदयाद्रिर्विरराज शश्वत् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
इति श्रीकालिकापुराणे सन्ध्यातपश्चरणे एकोनविंशोध्यायः ॥ १९ ॥