अष्टादशोऽध्यायः
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
दाक्षायणीगुणगणान् गणयन् गोरङ्गस्तदा ।
विललापातिदुःखार्तो मनुजः प्राकृतो यथा ॥ १ ॥
मूलम्

विलपन्तं तदा भर्गं विज्ञाय मकरध्वजः ।
रतीवसन्तसहित आससाद महेश्वरम् ॥ २ ॥
मूलम्
विलपन्तं तदा भर्गं विज्ञाय मकरध्वजः ।
रतीवसन्तसहित आससाद महेश्वरम् ॥ २ ॥
विश्वास-प्रस्तुतिः
तं शुचातिपरिभ्रष्टं युगपत् स रतिपतिः ।
जघान पञ्चभिर्वाणै रुदन्तं भ्रष्ठचेतनम् ॥ ३ ॥

शोकाभिहतचित्तोऽपि स्मरबाण-समाकुलः ।
सङ्कीर्णभावमापन्नः शुशोच च मुमोह च ॥ ४ ॥

क्षणं भूमौ निपतति क्षणमुत्वाय धावति ।
क्षणं भ्रमति तत्रैव निमीलति विभुः पुनः ॥ ५ ॥

ध्यायन् दाक्षायणीं देवीं हसमानः कदाचन ।
परिष्वजति भूमिष्ठां रसभावैरिव स्थिताम् ॥ ६ ॥

सतीसतीति सततं नाम व्याहृत्य शङ्करः ।
मानं त्यज वृथेत्येवमुक्त्वा स्पृशति पाणिना ॥ ७ ॥

पाणिनापरिमार्ज्यैनामलङ्कारान् यथास्थितान् ।
तस्या विश्लिष्य च पुनस्तत्रैवानुयुयोज च ॥ ८ ॥

एवं कुर्वति भूतेशे मृता नोवाच किञ्चन ।
यदा सती तदा भर्गः शोकाद्गाढं रुरोद ह ॥ ९ ॥

रुदतस्तस्य पततो वाष्पान् वीक्ष्य तदा सुराः ।
ब्रह्मादयः परां चिन्तां जग्मुश्चिन्तापरायणाः ॥ १० ॥

वाष्पाः पतन्तो भूमौ चेद्दहेयुः पृथिवीमिमाम् ।
उपायस्तत्र कः कार्य इति हाहेति चुक्रुशुः ॥ ११ ॥

ततो विमृष्यते देवा ब्रह्माद्यास्तु शनैश्चरम् ।
तुष्टुवुर्मूढभर्गस्य वाष्पधारणकारणात् ॥ १२ ॥

देवा ऊचुः
विश्वास-प्रस्तुतिः
शनैश्चर महाभाग लोकानुग्रहकारक ।
मूलशक्तिसमुद्भूत नमस्ते सूर्यसम्भव ॥ १३ ॥

नमस्ते शूलहस्ताय पाशहस्ताय धन्विने ।
तथा वरदहस्ताय तमश्छायात्मजाय ते ॥ ४ ॥
मूलम्
नमस्ते शूलहस्ताय पाशहस्ताय धन्विने ।
तथा वरदहस्ताय तमश्छायात्मजाय ते ॥ ४ ॥
विश्वास-प्रस्तुतिः
नीलमेघ-प्रतीकाश भिन्नाञ्जनचयोपम ।
नमस्ते सर्वलोकानां प्राणधारणहेतवे ॥ १५ ॥

गृध्रध्वज नमस्तेऽस्तु प्रसीद भगवन् दृढम् ।
वाष्पेभ्यः शोकजेभ्यश्च पाहि भर्गस्य नः क्षितिम् ॥ १६ ॥

यथा पुरा शतं वर्षानवजग्राह वर्षणम् ।
भवानेव तु मेघेभ्यस्तथा कुरु हराम्बुनि ॥ १७ ॥

तवचापां ग्रहं दृष्ट्वा मेघास्ते पुष्करादयः ।
मुमुचुः सततं वर्षं महेन्द्रस्य किलाज्ञया ॥ १८ ॥

आकाश एव वर्षाम्भस्तत्सर्वं भवता पुरा ।
विनाशितं यथा वाष्पं तथा नाशय शूलिनः ॥ १९ ॥

न त्वामृतेऽन्यः शक्तोऽस्ति हरवाष्पनिवारणे ।
दहेत् सदेवगन्धर्वब्रह्मलोकान् सपर्वतान् ।
पृथिवीं पतितो वाष्पस्तस्माद्धारय मायया ॥ २० ॥

इत्येवम्भाषणमाणेषु देवेषु मिहिरात्मजः ।
प्रत्युवाच स तान् देवान्नातिहृष्टमना इव ॥ २१ ॥

शनैश्चर उवाच
विश्वास-प्रस्तुतिः
करिष्ये भवतां कर्म यथाशक्ति सुरोत्तमाः ।
तथा किन्तु विदधं हि न मां वेत्ति यथा हरः ॥ २२ ॥

दुःखशोकाकुलस्यास्य समीपे वाष्पधारिणः ।
कोपान्नश्येच्छरीरं मे नियतं नात्र संशयः ॥ २३ ॥

तस्माद् यथा मां भूतेशो न जानाति सतीपतिः ।
तथा कुरुध्वं नेत्रेभ्यो हरलोतकधारिणम् ॥ २४ ॥
मूलम्
तस्माद् यथा मां भूतेशो न जानाति सतीपतिः ।
तथा कुरुध्वं नेत्रेभ्यो हरलोतकधारिणम् ॥ २४ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
ततो ब्रह्मादयो देवास्ते सर्वे शङ्करान्तिकम् ।
गत्वा हर सन्मुमुहुः सासार्या योगमायया ॥ २५ ॥

शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा ।
वाष्पवृष्टिं दुराधर्षामवजग्राह मायया ॥ २६ ॥

यदा स नाशकद्वाष्पान् सन्धारयितुमर्कजः ।
तदा महागिरौ क्षिप्ता वाष्पास्ते जलधारके ॥ २७ ॥

लोकालोकस्य निकटे जलधाराह्वयो गिरिः ।
पुष्करद्वीपपृष्ठस्थस्तोयसागर पश्चिमे ॥ २८ ॥

स तु सर्वप्रमाणेन मेरुपर्वतसन्निभः ।
तस्मिन् विन्यस्तवान् वाष्पांस्तदाशक्तः शनैश्चरः ॥ २९ ॥

स पर्वतोऽपि तान् वाष्पान्न धर्तुं क्षम ईशितुः ।
विदीर्णस्तैस्तु वाष्पौघैर्भग्नमध्योऽभवदद्रुतम् ॥ ३० ॥

ते वाष्पाः पर्वतं भित्वा विविशुस्तोयसागरम् ।
सागरोऽपि ग्रहीतुं तन्न शशाक खरानति ॥ ३१ ॥

ततस्तु सागरं मध्ये भित्वा वाष्पाः समागताः ।
तोयधेः प्राग्भवां वेलां स्पर्शमात्राद्विभेद ताम् ॥ ३२ ॥

विभिद्य वेलां ते वाष्पाः पुष्करद्वीपमध्यगाः ।
नदी भूत्वा वैतरणी पूर्वसागरगाभवत् ॥ ३३ ॥

जलधारस्य भेदेन संसर्गात् सागरस्य च ।
अवाप्य सौम्यतां किञ्चिद्वाष्पास्ते नाभिन्दन् क्षितिम् ॥ ३४ ॥

वैवस्वतपुरद्वारे योजनद्वयविस्तृता ।
अद्यापि तिष्ठत्यपगा हरलोतकसम्भवा ॥ ३५ ॥
मूलम्
वैवस्वतपुरद्वारे योजनद्वयविस्तृता ।
अद्यापि तिष्ठत्यपगा हरलोतकसम्भवा ॥ ३५ ॥
विश्वास-प्रस्तुतिः
अथ शोकविमूढात्मा विलपन् वृषभध्वजः ।
जगाम प्राच्यदेशांस्तु स्कन्धे कृत्वा सतीशवम् ॥ ३६ ॥

उन्मत्तवद्गच्छतोऽस्य दृष्ट्वा भावं दिवौकसः ।
ब्रह्माद्याश्चिन्तयामासुः शवभ्रंशनकर्मणि ॥ ३७ ॥

हरगात्रस्य संस्पर्शाच्छवो नायं विशीर्णताम् ।
गमिष्यति कथं तस्मादस्य भ्रंशो भविष्यति ॥ ३८ ॥

इति सञ्चिन्तयन्तस्ते ब्रह्मविष्णुशनैश्चराः ।
सतीशवान्तर्विविशुरदृश्या योगमायया ॥ ३९ ॥

प्रविश्याथ शवं देवा खण्डशस्ते सतीशवम् ।
भूतले पातयामासुः स्थाने स्थाने विशेषतः ॥ ४० ॥

देवीकूटे पादयुग्मं प्रथमं न्यपतत् क्षितौ ।
उड्डीयाने चोरुयुग्मं हिताय जगतां ततः ॥ ४१ ॥

कामरूपे कामगिरौ न्यपतद्योनिमण्डलम् ।
तत्रैव न्यपतद्भूमौ पर्वते नाभिमण्डलम् ॥ ४२ ॥

जालन्धरे स्तनयुगं स्वर्णहारविभूषितम् ।
अंशग्रीवं पूर्णगिरौ कामरूपा ततः शिरः ॥ ४३ ॥

यावद्भुवं गतो भर्गः समादाय सतीशवम् ।
पाच्येषु याज्ञिको देशस्तावदेव प्रकीर्तितः ॥ ४४ ॥

अन्ये शरीरावयवा लवशः खण्डिताः सुरैः ।
आकाशगङ्गामगमन् पवनेन समीरिताः ॥ ४५ ॥
मूलम्
अन्ये शरीरावयवा लवशः खण्डिताः सुरैः ।
आकाशगङ्गामगमन् पवनेन समीरिताः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
यत्र यत्रापतन् सत्यास्तदापादादयो द्विजाः ।
तत्र तत्र महादेवः स्वयं लिङ्गस्वरूपधृक् ।
तस्थौ मोहसमायुक्तः सतीस्नेहवशानुगः ॥ ४६ ॥

ब्रह्मविष्णुशनिश्चापि सर्वे देवङ्गणास्तथा ।
पूजयाञ्चक्रुरीशस्य प्रीत्या सत्याः पदादिकम् ॥ ४७ ॥

देवीकूटे महादेवी महाभागेति गीयते ।
सतीपादयुगे लीना योगनिद्रा जगत्प्रसूः ॥ ४८ ॥

कात्यायनी चोड्डीयाने कामाख्या कामरूपिणी ।
पूर्णेश्वरी पूर्णगिरौ चण्डी जालन्धरे गिरौ ॥ ४९ ॥

पूर्वान्ते कामरूपस्य देवी दिक्करवासिनी ।
तथा ललितकान्तेति योगनिद्रा प्रगीयते ॥ ५० ॥

यत्रैव पतितं सत्याः शिरस्तत्र वृषध्वजः ।
उपविष्टः शिरो वीक्ष्य श्वसञ्छोकपरायणः ॥ ५१ ॥

उपविष्टे हरे तत्र ब्रह्माद्यास्ते दिवौकसः ।
समीपमगमंस्तस्य दूरतः सान्त्वयन् हरम् ॥ ५२ ॥

देवानागच्छतो दृष्ट्वा शोक-लज्जासमन्वितः ।
गत्वा शिलात्वं तत्रैव लिङ्गत्वं गतवान् हरः ॥ ५३ ॥

हरे लिङ्गत्वमापन्ने ब्रह्मादयास्तु दिवौकसः ।
तुष्टुवुस्त्र्यम्बकं तत्र लिङ्गरूपं जगद्गुरुम् ॥ ५४ ॥

महादेवं शिवं स्थाणुमुग्रं रुद्रं वृषध्वजम् ।
श्मशानवासिनं भर्गं सर्वान्तकरणं परम् ॥ ५५ ॥

त्वां नमामो वयं भक्त्या शङ्करं नीललोहितम् ।
गिरीशं वरदं देवं भूतभावनमव्ययम् ॥ ५६ ॥

अनादिमध्यसंसारयोगविद्याय शम्भवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ५७ ॥

जटिलाय गिरिशाय विद्याशक्तिधराय ते ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ५८ ॥

ज्ञानामृतान्तसम्पूर्णशुद्धदेहान्तराय च ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ५९ ॥

आदिमध्यान्तभूताय स्वभावानलदीप्तये ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६० ॥

प्रलयाणवसंस्थाय प्रलयस्थितिहेतवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६१ ॥

यः परेभ्यः परस्तस्मात् पराय परमात्मने ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६२ ॥

ज्वालामालावृताङ्गाय नमस्ते विश्वरूपिणे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६३ ॥

ॐ नमः परमार्थाय ज्ञानदीपाय वेधसे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६४ ॥

नमो दाक्षायणीकान्त मृड शर्व महेश्वर ।
नमस्ते सर्वभूतेश प्रसाद भगवञ्छिव ॥ ६५ ॥
मूलम्
नमो दाक्षायणीकान्त मृड शर्व महेश्वर ।
नमस्ते सर्वभूतेश प्रसाद भगवञ्छिव ॥ ६५ ॥
विश्वास-प्रस्तुतिः
सशोके त्वयि लोकेशे चेष्टमाने महेश्वर ।
सुराः समाकुलाः सर्वे तस्माच्छोकं परित्यज ॥ ६६ ॥

नमो नमस्ते भूतेश सर्वकारणकारण ।
प्रसीद रक्ष नः सर्वांस्त्यज शोकं नमोऽस्तुते ॥ ६७ ॥
मूलम्
नमो नमस्ते भूतेश सर्वकारणकारण ।
प्रसीद रक्ष नः सर्वांस्त्यज शोकं नमोऽस्तुते ॥ ६७ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इति संस्तूयमानस्तु महादेवो जगत्पतिः ।
निजं रूपं समास्थाय प्रादुर्भूतः शुचाहतः ॥ ६८ ॥

तं शुचा विह्वलं दृष्ट्वा प्रादुर्भूतं विचेतसम् ।
शोकापहं विधिःसाम्ना तुष्टाव वृषभध्वजम् ॥ ६९ ॥

ब्रह्मोवाच
विश्वास-प्रस्तुतिः
हिरण्यबाहो ब्रह्मा त्वं विष्णुस्त्वं जगतः पतिः ।
सृष्टिस्थितिविनाशानां हेतुस्त्वं केवलं हर ॥ ७० ॥

त्वमष्टमूर्तिभिः सर्वं जगद्व्याप्य चराचरम् ।
उत्पादकः स्थापकश्च नाशकश्चापि विश्वकृत् ॥ ७१ ॥

त्वा माराध्य महादेव मुक्ति याता मुमुक्षणः ।
रागद्वेषादिभिस्त्यक्ताः संसारविमुखा बुधाः ॥ ७२ ॥

तृतीयं यद् भवेन्नेत्रं ललाटस्थं महेश्वर ।
सततं भ्राजमानं तत् चित्र्यं तेजी मुमुक्षुभिः ॥ ७२ क ॥

विभिन्नवाय्वग्नि जलौघवर्जितं न दूरसंस्थं रविचन्द्रसंयुतम् ।
त्रिमार्गमध्यस्थमनुप्रकाशकं तत्त्वं परं शुद्धमयं महेश्वर ॥ ७३ ॥

यदष्ट शाखस्य तरोः प्रसूनं चिदम्बुवृद्धस्य समीपजस्य ।
तपश्छदःसंस्थगिशस्य पीनं सूक्ष्मोपगं ते वशगं सदैव ॥ ७४ ॥

अधः समाधाय समीरण स्वनं निरुद्ध्य चोर्द्धन्निशि हंसमध्यतः ।
हृत्पद्ममध्ये सुमुखीकृतं रजः परन्तु तेजस्तव सर्वदेक्ष्यताम् ॥ ७५ ॥

प्राणायामैः पूरकैः स्तम्भकैर्वा रिक्तैश्चित्रैश्चोदनं यत्पराख्यम् ।
दृश्यादृश्यं योगिभिस्ते प्रपञ्चाः शुद्धं वृद्धं तत्त्वतस्तेऽस्ति लब्धम् ॥ ७६ ॥

सूक्ष्मं जगद्व्यापि गुणौघपीनं मृग्यम्बुधेः साधनसाध्यरूपम् ।
चौरैरक्षैनोज्झितं नैव नीतं वित्तं तवास्त्यर्थहीनं महेश ॥ ७७ ॥

न कोपेन न शोकेन न मानेन द दम्भतः ।
उपयोज्य तु तद्वित्तमन्ययेव विवर्धते ॥ ७८ ॥

मायया मोहितः शम्भो विस्मृतं ते हृदि स्थितम् ।
मायां भिन्नं परिज्ञाय धारयात्मानमात्मना ॥ ७९ ॥

मायास्माभिः स्तुता पूर्वं जगदर्थे महेश्वर ।
तया ध्यानगतं चित्तं बहुयत्नैः प्रसाधितम् ॥ ८० ॥

शोकः क्रोधश्च लोभश्च कामो मोहः परात्मता ।
ईर्ष्यामानौ विचिकित्सा कृपासूया जुगुप्सता ॥ ८१ ॥

द्वादशैते बुद्धिनाशहेतवो मनसो मलाः ।
न त्वादृशैर्निषेव्यन्ते शोकं त्यज ततो हर ॥ ८२ ॥
मूलम्
द्वादशैते बुद्धिनाशहेतवो मनसो मलाः ।
न त्वादृशैर्निषेव्यन्ते शोकं त्यज ततो हर ॥ ८२ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इति शाम्ना स्तुतः शम्भुः संस्मृत्यापि स्ववाञ्छितिम् ।
नावदध्रे तदात्मानं शोकात् सत्या विनाकृतः ॥ ८३ ॥

अधोमुखः स्थितं वीक्ष्य ब्रह्माणं स शनैरिदम् ।
प्राह ब्रह्मन्नायतिगं वद किं करवाण्यहम् ॥ ८४ ॥

इत्युक्तो वामेदेवेन विधाता सर्वदैवतैः ।
इदमाह तदेशस्य शोकविध्वंसकं वचः ॥ ८५ ॥
मूलम्
इत्युक्तो वामेदेवेन विधाता सर्वदैवतैः ।
इदमाह तदेशस्य शोकविध्वंसकं वचः ॥ ८५ ॥
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
त्यज शोकं महादेव संस्मृत्यात्मानमात्मना ।
न त्वं शोकस्य सदनं परं शोकात्तवान्तरम् ॥ ८६ ॥

सशोके त्वयि भूतेश देवा भूताः ससाध्वसा ।
भ्रंशयेज्जगती कोपः शोकः सर्वाश्च शोषयेत् ॥ ८७ ॥

त्वद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्नचेच्छनिः ।
अवजग्राह ते वाष्पं सोऽपि कृष्णोऽधवद् हठात् ॥ ८८ ॥

यत्र देवाः सगन्धर्वाः सदा क्रीडन्ति सोत्सुकाः ।
सुमेरुसदृशो योऽसौ मानतः पर्वतोत्तमः ॥ ८९ ॥

यस्मिन् प्रविश्य शिशिरे पद्मनालनिधे घनाः ।
उत्पिवन्ति स्म तोयानि पुष्करावर्तकादयः ॥ ९० ॥

मन्दरात् सततं यत्र कुम्भयोनिर्महामुनिः ।
गत्वा गत्वा तपस्तेपे हिताय जगतो हर ॥ ९१ ॥

यस्मिन् स्थित्वा गिरौ पूर्वमगस्त्यस्तोयसागरम् ।
पपौ तपोबलात् कृत्वा करमध्यगतं किल ॥ ९२ ॥

शनैश्चरेण ते वोढुमसमर्थेन लोतकैः ।
क्षिप्तैर्विदारितस्तेऽसौ जलधाराह्वयो गिरिः ॥ ९३ ॥

विभिद्य पर्वतं शम्भो वाष्पास्ते सागरं ययुः ।
भित्त्वा तु सागरं शीघ्रं प्रभीताण्डजसङ्कुलम् ॥ ९४ ॥

जग्मुस्ते पूर्वपुलिनं तस्य तद्विभिदुश्च ते ।
भित्त्वा वेलां ततः पृथ्वीं यिभिद्याशु तरङ्गिणीम् ॥ ९५ ॥

चक्रुर्वैतरणीं नाम्ना पूर्वसागर गामिनीम् ।
न नावा न विमानेन न द्रोण्या स्पन्दनेन च ॥ ९६ ॥

तर्तुं शक्या सा तु नदी तप्ततोयातिभीषणा ।
दुःखेन तान्तु पृथिवी विभर्ति महताधुना ॥ ९७ ॥

सदा चोर्द्धगतैर्वाष्पैर्विक्षिपन्ती नभश्चरान् ।
तस्यास्तूपरि नो यान्ति देवा अपि भयातुराः ॥ ९८ ॥

यमद्वारं परावृत्य योजनद्वयविस्तृता ।
निम्ना वहति सम्पूर्णा भीषयन्ती जगत्त्रयम् ॥ ९९ ॥

त्वन्निःश्वासमरुज्जातैर्व्यस्ता पर्वतकाननाः ।
समाकुलद्वीपिनागा नाद्यापि प्रतिशेरते ॥ १०० ॥

तव निःश्वासजो वायुः पीडयन् जगतः सुखम् ।
नाद्यापि प्रशमं याति बाधाहीनः सनातनः ॥ १०१ ॥

सतीशवं ते वहतः शीर्यमाणा पदे पदे ।
नाद्यापि व्याकुला पृथ्वी व्याकुलत्वं वियुञ्चति ॥ १०२ ॥

न स्वर्गे न च पाताले तत्सत्त्वं विद्यतेऽधुना ।
यत्ते क्रोधेन शोकेन नाकुलं वृषभध्वज ॥ १०३ ॥

तस्माच्छोकममर्षं च त्यक्त्वा शान्तिं प्रयच्छ नः ।
आत्मानञ्चात्मना वेत्थ धारयात्मानमात्मना ॥ १०४ ॥

सती च दिव्यमानेन व्यतीते शरदां शते ।
सा च त्रेतायुगस्यादौ भार्या तव भविष्यति ॥ १०५ ॥
मूलम्
सती च दिव्यमानेन व्यतीते शरदां शते ।
सा च त्रेतायुगस्यादौ भार्या तव भविष्यति ॥ १०५ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इत्युक्तो वेधसा शम्भुस्तूष्णीं ध्यानपरायणः ।
अधोमुखस्तदा प्राह ब्रह्माणममितौजसम् ॥ १०६ ॥

ईश्वर उवाच
विश्वास-प्रस्तुतिः
यावद् ब्रह्मन्नहं शोकादुत्तरामि सतीकृतात् ।
तावन्मम सखा भूत्वा कुरु शोकापनोदनम् ॥ १०७ ॥

तस्मिन्नवसरे यत्र यत्र गच्छाम्यहं विधे ।
तत्र तत्र भवान् गत्वा शोकहानिं करोतु मे ॥ १०८ ॥
मूलम्
तस्मिन्नवसरे यत्र यत्र गच्छाम्यहं विधे ।
तत्र तत्र भवान् गत्वा शोकहानिं करोतु मे ॥ १०८ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
एवमस्त्विति लोकेश प्रोक्त्वा वृषभवाहनम् ।
हरेण सार्धं कैलासं गन्तुं चक्रे मनस्ततः ॥ १०९ ॥

ब्रह्मणा सहितं शम्भुं कैलासगमनोत्सुकम् ।
समासेदुर्गणा दृष्ट्वा नन्दिभृङ्गिमुखाश्च ये ॥ ११० ॥

ततः पर्वतसङ्काशो वृषभः पुरतो विधेः ।
उपतस्थे सिताभ्रस्य सदृशो गैरिको यथा ॥ १११ ॥

वासुक्याद्याश्च ये सर्पा यथास्थानञ्च ते हरम् ।
भूषयाञ्चक्रुरुद्गम्य शिरोवाह्वादिषु द्रुतम् ॥ ११२ ॥

ततो ब्रह्मा च विष्णुश्च महादेवः सतीपतिः ।
सर्वैः सुरगणैः सार्धं जग्भुः प्रालेयपर्वतम् ॥ ११३ ॥

ततस्तानौषधिप्रस्थान् निःसृत्य नगराद्गिरिः ।
सर्वैरमात्यै सहित उपतस्ये सुरोत्तमान् ॥ ११४ ॥

ततः सम्पूजितास्तेन सुरौघा गिरिणा सह ।
सचिवैः पौरवर्गैश्च मुमुदुस्ते सुरर्षभाः ॥ ११५ ॥

ततो ददर्श तत्रैव गिरीन्द्रस्य पुरे हरः ।
विजयामौषधिप्रस्थे सखौभिर्गौतमात्मजाम् ॥ ११६ ॥

सापि सर्वान् सुरवरान् प्रणम्य हरमुक्तवान् ।
चुक्रोश मातृभगिनीं पृच्छन्ती गिरीशं सतीम् ॥ ११७ ॥

क्व सती ते महादेव शोभसे न तया विना ।
विस्मृतापि त्वया तात मद्धृदो नापसर्पति ॥ ११८ ॥

ममाग्रे सा पुरा प्राणान् यदा त्यजति कोपतः ।
तदैवाहं शोकशल्यविद्धा नाप्नोमि वै सुखम् ॥ ११९ ॥

इत्युक्त्वा वदनं वस्त्रप्रान्तेनाच्छाद्य सा भृशम् ।
रुदन्ती प्रापतद्भूमौ कश्मलञ्चाविशत्तदा ॥ १२० ॥

इति श्रीकालिकापुराणे विजयाशोके अष्टादशोऽध्यायः