विश्वास-प्रस्तुतिः
सप्तदशोऽध्यायः
मार्कण्डेय उवाच
एतस्मिन्नन्तरे शम्भुः शोभने मानसे ह्रदे ।
समाप्य सन्ध्यामायातः स्वमाश्रमपदं प्रति ॥ १ ॥
मूलम्

आगच्छन्नेव संरावं विजयाया वृषध्वजः ।
शुश्राव दारुणं तीव्रं चकितश्च ततोऽभवत् ॥ २ ॥

तत उक्ष्णा बलवता मनोमारुतरंहसा ।
स्वमाश्रमपदं शर्व आससाद त्वरान्वितः ॥ ३ ॥

आसाद्य देवीं दयितां तदा दाक्षायणीं हरः ।
मृतां दृष्ट्वापि न जहौ मृतेऽतिप्रियभावतः ॥ ४ ॥

ततो निरीक्ष्य वदनमामृज्य च पुनः पुनः ।
पप्रच्छ कस्मात् सुप्तासीत्येवं द्राक्षायणीं मुहुः ॥ ५ ॥

ततो भर्गवचः श्रुत्वा तदा तद्भगिनीसुता ।
विजया प्राह निधनं दाक्षायण्या यथा तथा ॥ ६ ॥

विजयोवाच
दक्षः कर्तुं क्रतुं शम्भो देवान् सर्वान् सवासवान् ।
आजुहाव तथा दैत्यान् राक्षसान् सिद्धगुह्यकान् ॥ ७ ॥

ब्राह्मणानथ गोविन्दमिन्द्रादीनपि दिक्पतीन् ।
देवयोनींस्तथा सर्वान् साध्यविद्याधरादिकान् ॥ ८ ॥

नाहूतानि क्रतौ तेन यानि सत्त्वानि शङ्कर ।
तानि दक्षेण नो सन्ति समस्तभुवनेष्वपि ॥ ९ ॥

एवं प्रविततं यज्ञं श्रुत्वैषा वचनान्मम ।
विमृष्यवत्यनाह्वाने हेतुं शम्भोरथात्मनः ॥ १० ॥

चिन्तयानां तथाहं तां सतीं ज्ञात्वा यथाश्रुतम् ।
उक्तवत्यस्मि भूतेश यज्ञानाह्वानकारणम् ॥ ११ ॥

शम्भुः कपाली तज्जाया तत्संसर्गाद्विगर्हिता ।
अतः शम्भुः सती चापि नाध्वरे मे मिलिष्यतः ॥ १२ ॥

इत्यनाह्वानहेतुर्मे श्रुतपूर्वः पुरा मुखात् ।
दक्षस्य वीरिणीं श्लक्ष्णां गदतस्तस्य मन्दिरे ॥ १३ ॥

एतच्छ्रुत्वा मम वचः सा विवर्णमुखी क्षितौ ।
उपविष्टा न मां किञ्चिदुक्ता कोपपरायणा ॥ १४ ॥

बभूव वदनं तस्यास्तत्क्षणात् सरूपं हर ।
भ्रुकुटीकुटिलं श्यामं यथा खं धूमकेतुना ॥ १५ ॥

सा मुहूर्तमिव ध्यात्वा स्फोटेन महता ततः ।
प्राणानुदसृजच्चैषा भित्त्वा मूर्द्धानमात्मनः ॥ १६ ॥
मूलम्
सा मुहूर्तमिव ध्यात्वा स्फोटेन महता ततः ।
प्राणानुदसृजच्चैषा भित्त्वा मूर्द्धानमात्मनः ॥ १६ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति श्रुत्वा वचस्तस्या विजयाया वृषध्वजः ।
अतीव कोपादुत्तस्थौ दिधक्षुरिव पावकः ॥ १७ ॥

तस्य कोपपरीतस्य कर्णनासाक्षिवक्त्रतः ।
घोरा जलन्त्यः कणिकाः सृजन्त्योऽग्नेर्महारवम् ।
उल्का विनिःसृता वह्वयः कल्पान्तादित्यवर्चसः ॥ १८ ॥

अथ तत्र जगामाशु दक्षो यत्र महातपाः ।
यज्ञञ्चक्रे हरो गत्वा यज्ञवाटाद् बहिःस्थितः ॥ १९ ॥

तं यज्ञं ददृशे भर्गः कोपेन महतावृतः ।
महाधनसमापन्नं पात्रीयूपादिभिर्वृतम् ॥ २० ॥

हुताज्याहुतिसंवृद्धं दीप्तवह्निविराजितम् ।
यथास्थानस्थितान् सर्वान् दिक्पालान् सायुधध्वजान् ॥ २१ ॥

विधातारं तथा विष्णुं यज्ञमध्ये व्यवस्थितम् ।
ददर्श कुपितः शम्भुस्तान् दृष्ट्वातीव कोपतः ॥ २२ ॥

भगं सूर्यं तथा सोमं भार्याभिः सह संवृतम् ।
सहस्राक्षं गौतमं च पूर्वे भागे व्यवस्थितम् ॥ २३ ॥

सनत्कुमारमात्रेयं भार्गवं विनतासुतम् ।
मरुद्गणांस्तथा साध्यानाग्नेयं जातवेदसम् ॥ २४ ॥

कालं च चित्रगुप्तञ्च कुम्भयोनिं सगालवम् ।
विश्वेदेवांस्तथा सर्वान् कव्यवाहादिकान् पितृन् ॥ २५ ॥

अग्निष्वात्तादिकान् सर्वान् भूतग्रामं चतुर्विधम् ।
भौमं प्रेतगणान् सिद्धान् दक्षिणाशां व्यवस्थितान् ॥ २६ ॥

रक्षांसि च पिशाचांश्च भूतानि मृगपक्षिणः ।
क्रव्यादान् क्षुद्रजन्तूंश्च तथा पुण्यजनेश्वरम् ॥ २७ ॥

महर्षि मौद्गलं राहुं नैरृत्यां किन्नरांस्तथा ।
महोरगांस्तथा नक्रान् मत्स्यान् ग्राहांश्च कच्छपान् ।
समुद्रान् सप्तसिन्धूंश्च नदीस्तीर्थानि गुह्यकान् ॥ २८ ॥

मानसादि ह्रदान् सर्वान् गङ्गाञ्जम्बूनदीं तथा ।
कामं मधुं वसन्तं च वरुणञ्च सहानुगम् ॥ २९ ॥

शनैश्चरं गिरीन् सर्वान् पश्चिमाशाव्यवस्थितान् ।
प्राणादिपञ्चवायूंश्च सगणञ्च समीरणम् ।
कल्पद्रुमान् हिमाद्रिञ्च कश्यपञ्च महामुनिम् ॥ ३० ॥

वायव्यां कमलाव्रातं फलानि च कलानिधिम् ।
नानारत्नानि हैमानि मनुष्यान् पर्वतांस्तथा ॥ ३१ ॥

हिमाद्रिमुख्या यक्षाश्च स्थूणकर्णादयो बुधाः ।
नलकूबेरेण सहितो यक्षरान्नरवाहनः ॥ ३२ ॥

ध्रुवो धरश्च सोमश्च विष्णुश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च कौवेरीं संस्थितानिमान् ॥ ३३ ॥

वृषध्वजं विना सर्वान् रुद्रान् जीवं मनूंस्तथा ।
विविधान् बाहुजान् वैश्यान्शूद्रानपि समन्ततः ॥ ३४ ॥

ऐशान्यां विविधान्नानि व्रीहीनपि तिलानपि ।
ऐशानीपूर्वयोर्मध्ये ब्रह्मर्षीन् संशितव्रतान् ॥ ३५ ॥

महर्षींश्चतुरो वेदान् वेदाङ्गानि तथैव षट् ।
नेरृत्यपश्चिमान्तस्थमनन्तं श्वेतपर्वतम् ॥ ३६ ॥

काद्रवेयसहस्रेण सहितान् सप्तभोगिनः ।
केतुं तत्रैव कुष्माण्डं डाकिनीगणसंयुक्तम् ॥ ३७ ॥

तथा जलधरानन्यान्नानावर्णान् सविद्युतान् ।
दिग्गजानपि तत्रस्थानैरावतमुखान् हरः ॥ ३८ ॥

यथास्थानस्थितान् सर्वान्दिक्करिण्या च संयुतान् ।
तमेवं दूरतो दृष्ट्वा यज्ञवाटं महाधनम् ।
वीरभद्राह्वयं तूर्ण प्रेषयामास तं प्रति ॥ ३९ ॥

वीरभद्रोऽपि बहुभिः संवृतो विविधैर्गणैः ।
व्यध्वंसयत्ततो यज्ञं दक्षस्य सुमहात्मनः ॥ ४० ॥

विकुर्वन्तं महायज्ञं वीरभद्रं समीक्ष्य वै ।
वारयामास वैकुण्ठः सर्वदेवगणावृतः ॥ ४१ ॥

तं वार्यमाणं दृष्टैव क्रोधसंरक्तलोचनः ।
स्वयं विवेश तं यज्ञं ध्वंसयामास चेश्वरः ॥ ४२ ॥

विशन्तमेव तं यज्ञे प्रथमं पुरतो भगः ।
बाहू वितत्य भूतेशमाससाद त्वरान्वितः ॥ ४३ ॥

तमागतमभिप्रेक्ष्य भर्गोऽपि भृशरोषितः ।
अङ्गुल्यग्रप्रहारेण तस्य नेत्रे जघान ह ॥ ४४ ॥

हीननेत्रं भगं दृष्ट्वा विरूपाक्षं दिवाकरः ।
स्पर्द्धमानस्ततः सर्वमाससाद त्वरान्वितः ॥ ४५ ॥

ततः सूर्यं महादेवः पाणौ धृत्वा करेण च ।
दूरकृत्यातिकुपितो यज्ञमेवाभ्यधावत ॥ ४६ ॥

मार्तण्डश्च हसन् वेगाद्वितत्य विपुलौ भुजौ ।
एहि योत्स्ये त्वयेत्युक्त्वा तमग्रे प्रत्यवारयत् ॥ ४७ ॥

हसतस्तस्य सूर्यस्य क्रोधेन वृषभध्वजः ।
दन्तान् करप्रहारेण शातयामास वक्तृतः ॥ ४८ ॥

विदन्तं मिहिरं दृष्ट्वा हीननेत्रं भगं तथा ।
सर्वे देवाश्च ऋषयो ये चान्ये तत्र दुद्रुवुः ॥ ४९ ॥

विद्राव्य सर्वान् देवादीन् हरः परमकोपनः ।
मृगरूपेनापयान्तं यज्ञमेवान्वपद्यत ॥ ५० ॥

यज्ञोऽप्याकाशमार्गेण ब्रह्मस्थानं विवेश ह ।
वृषध्वजोऽपि कुपितो ब्रह्मस्थानं जगाम ह ॥ ५१ ॥

ब्रह्मणः सदनाद् यज्ञो भीतो भर्गादवातरत् ।
अवतीर्य सतीदेहं प्रविवेश स्वमायया ॥ ५२ ॥

भर्गोऽपि दक्षदुहितुर्मृताया निकटं यतः ।
अन्वगच्छतदा यज्ञं ददर्श च सतीशवम् ॥ ५३ ॥

मृतां दृष्ट्वा तदा देवीं हरो दाक्षायणीं सतीम् ।
विस्मृत्य यज्ञं तत्प्रान्ते स्थितो वाडं शुशोच तान् ॥ ५४ ॥

बहुविधगुणवृन्दं चिन्तयञ्छूलपाणिर्ललितदशनपङ्क्तिं वक्तृमब्जप्रकाशम् ।
अरुणदशनवस्त्रं भ्रूयुगं वीक्ष्य तस्याः खरतरपृथुशोकव्याकुलोऽसौ रुरोद
॥ ५५ ॥

इति श्रीकालिकापुराणे दक्षयज्ञभङ्गे सप्तदशोऽध्यायः ॥ १७ ॥