१६

विश्वास-प्रस्तुतिः

षोडशोऽध्यायः

मार्कण्डेय उवाच

विचित्रं कनकै रूप्यैः शिखरं रत्नकर्बुरम् ।
वालार्कसदृशं तुङ्गमाससाद सतीसखः ॥ १ ॥

मूलम्

स्फटिकाश्मलये तस्मिन् शाद्वलद्रुमराजिते ।
विचित्रपुष्पबल्लीभिः सरसीभिश्च संयुते ।
प्रफुल्लतरुशाखाग्रगुञ्जद्भ्रमरभूषिते ॥ २ ॥

पङ्केरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा ।
शोभिते चक्रवाकौघैः कादम्बैर्हंसमद्गुभिः ॥ ३ ॥

प्रमत्तसारसैः क्रौञ्चैर्नीलकण्ठैश्च शब्दिते ।
पुंस्कोकिलकलस्वानैर्मधुरैर्मूगसेविते ॥ ४ ॥

तुरङ्गवदनैः सिद्धैरप्सरोभिः सगुह्यकैः ।
विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारिते ।
पुरन्ध्रीभिः पार्वतीभिः कन्याभिश्च समन्विते ॥ ५ ॥

विपञ्चीतन्त्रिकामन्द्रमृदङ्गपटहस्वनैः ।
नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैः सुशोभिते ॥ ६ ॥

दैवीलताभिर्दिव्याभिर्गन्धिनीभिः समावृते ।
ऊर्ध्वप्रफुल्लकुसुमैर्निकुञ्जैरूपशोभिते ॥ ७ ॥

शैलराजपुराभ्यासे शिखरे वृषभध्वजः ।
सह सत्या चिरं रेमे एवम्भूते सुशोभने ॥ ८ ॥

तस्मिन् स्वर्गसमे स्थाने दिव्यमानेन शङ्करः ।
दश वर्षसहस्राणि रेमे सत्या समं मुदा ॥ ९ ॥

स कदाचित्तु तत्स्थानात् कैलासं याति शङ्करः ।
कदाचिन्मेरुशिखरं देवदेवीवृतं पुरा ॥ १० ॥

दिक्पालानां तथोद्यानं वनानि वसुधातलम् ।
गत्वा गत्वा पुनस्तत्र रेमे तेभ्यः सतीसखः ॥ ११ ॥

न जज्ञे स दिवारात्रं न ब्रह्म न तपः शमम् ।
सत्याहितमना शम्भुः प्रीतिमेव चकार ह ॥ १२ ॥

एकं महादेवमुखं सती पश्यति सर्वशः ।
महादेवोऽपि सर्वत्र सदाद्राक्षीत सतीमुखम् ॥ १३ ॥

एवमन्योन्यसंसर्गादनुरागमहीरुहम् ।
वर्धयामासतुः शम्भुसत्यौ भावाम्बुसेचनैः ॥ १४ ॥

एतस्मिन्नन्तरे सक्षो जगतां हितकारकः ।
महायज्ञं समारेभे यष्टुं वै सर्वजीवनम् ॥ १५ ॥

अष्टाशीति-सहस्राणि यत्र जुह्वति ऋत्विजः ।
उद्गातारश्चतुः षष्टिसहस्राणि सुरर्षयः ।
अध्वर्यवोऽथ होतारस्तावन्तो नारदादयः ॥ १६ ॥

अधिस्थाता स्वयं विष्णुः सह सर्वमरुद्गणैः ।
स्वयं तत्राभवद् ब्रह्मा त्रयीविधिनिदर्शकः ॥ १७ ॥

तथैव सर्वदिक्पाला द्वारपालाश्च रक्षकाः ।
उपतस्थे स्वयं यज्ञः स्वयं वेदी धराभवत् ॥ १८ ॥

तनूनपादपि निजं चक्रे रूपं सहस्रशः ।
हविषां ग्रहणायाशु तस्मिन् यज्ञमहोत्सवे ॥ १९ ॥

आमन्त्र्याशु मरीच्याद्याः पवित्रैकैकधारिणः ।
सर्वत्र सामिधेन्या ते ज्वालयामासुरर्च्चिषम् ॥ २० ॥

सप्तर्षयः सामघाथाः कुर्वन्ति स्म पृथक् पृथक् ।
गान्दिशो विदिशः खञ्च पूरयन्तः श्रुतिस्वरैः ॥ २१ ॥

न वृतास्तत्र यागेषु दक्षेण सुमहात्मना ।
न केचिदृषयो देवा न मनुष्या न पक्षिणः ।
नोद्भिदो न तृणं वापि पशवो न मृगास्तथा ॥ २२ ॥

गन्धर्वविद्याधरसिद्धसङ्घानादित्यसाध्यर्षिगणान् सयक्षान् ।
सस्थावरान्नागवरान् समस्तान् वव्रे स दक्षः सुमहाध्वरेषु ॥ २३ ॥

कल्प-मन्वन्तरयुग-वर्ष-मास-दिवा-निशाः ।
कला-काष्ठा-निमेषाद्या वृताः सर्वे समागताः ॥ २४ ॥

महर्षिराजर्षिसुरर्षिसङ्घा नृपाः सपुत्राः सचिवैः ससैन्यैः ।
वसुप्रमुख्या गणदेवता याः सर्वा वृतास्तेन गता मखं तम् ॥ २५ ॥

कीटाः पतङ्गा जलजाश्च सर्वे सवानराः श्वापदविघ्नघोराः ।
मेघाः सशैलाः सनदीसमुद्राः सरांसि वाप्यश्च गता वृतास्ते ॥ २६ ॥

सर्वे स्वभागं हविषां जिवृक्षवः ऋतुं प्रजग्मुर्दृढयज्विनस्ते ।
पातालवासा असुराः समागता नागस्त्रियो देवसभाः समस्ताः ॥ २७ ॥

जगद्वर्त्यस्ति यत्किञ्चच्चेतनाचेतनं पुनः ।
सर्वं वृत्वा समारेभे यज्ञं सर्वस्व दक्षिणम् ॥ २८ ॥

तस्मिन् यज्ञे वृतः शम्भुर्न दक्षेण महात्मना ।
कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ॥ २९ ॥

कपालिभायेर्ति सती दयितापि सुता निजा ।
नाहूता यज्ञविषये दक्षेण दोषदर्शिना ॥ ३० ॥

श्रुत्वा सती तथा यज्ञं तातेनारब्धमुत्तमम् ।
कपालिभायेर्ति वृता नाहमित्यपि तत्त्वतः ॥ ३१ ॥

उच्चैश्चुकोप दक्षाय रक्तनेत्रानना तदा ।
शापेन दक्षं दघुं च मनश्चक्रे तदा सती ॥ ३२ ॥

कोपाविष्टापि सा पूर्वसमयं स्मृतवत्यमुम् ।
मनसेति विनिश्चित्य न शशाप तदा सती ॥ ३३ ॥

अलं शापेन मे पूर्वं सुदृढः समयः कृतः ।
अस्तीति मय्यवज्ञायां प्राणान् मोक्ष्ये ध्रुवं पुनः ॥ ३४ ॥

यदा स्तुताहं दक्षेण सुचिरं तनयार्थिना ।
तदैव समयो मेऽयं शापेनालङ्करोमि तम् ॥ ३५ ॥

इति सञ्चिन्त्य सा देवी नित्यरूपमथात्मनः ।
सस्मारातुलमत्युग्रं निष्कलं तु जगन्मयम् ॥ ३६ ॥

पूर्वरूपं स्मरन्ती सा योगनिद्राह्वयं हरेः ।
एवं सञ्चिन्तयामास मनसा दक्षजा तदा ॥ ३७ ॥

ब्रह्मणोदितदक्षेण यदर्थमहमीडिता ।
तत् किञ्चिदपि नोज्ञातं शङ्करोऽपि न पुत्रवान् ॥ ३८ ॥

इदानीमेकमेवाभूत् कार्यं देवगणस्य च ।
यच्छङ्करः सानुरागो मत्कृतेऽभूच्च योपिति ॥ ३९ ॥

मत्तो नान्या पुनः शम्भो रागं वर्धयितुं पुनः ।
शक्ता न कापि भविता स नान्यां सङ्ग्रहीष्यति ॥ ४० ॥

तथाप्यहं तनुं त्यक्षे समयात् पूर्वयोजितात् ।
हिताय जगतां कुर्यां प्रादुर्भावं पुनर्गिरौ ॥ ४१ ॥

पुरा हिमवतः प्रस्थे रम्ये देवगृहोपमे ।
शम्भुः सार्धं मया रन्तुं सुचिरं प्रीतिसंयुतः ॥ ४२ ॥

तत्र या मेनका देवी चार्वङ्गी चरितव्रता ।
सुशीला सा पुरस्त्रीणामुत्तमा पावतीगणे ॥ ४३ ॥

सा मां मातृवदाचष्ट सर्वकर्मसु नर्मकम् ।
तस्यां मेऽत्यनुरागोऽभूत् सा मे माता भविष्यति ॥ ४४ ॥

कन्याभिश्च पार्वतीभिश्च पार्वतीभिश्च बाल्यक्रीडामहं चिरम् ।
कृत्वा कृत्वा मेनकायाः करिष्ये मोदमुत्तमम् ॥ ४५ ॥

पुनश्चाहं भविष्यामि शम्भोजायातिवल्लभा ।
करिष्ये देवकार्याणि तदुपायादसंशयम् ॥ ४६ ॥

इति सञ्चिन्तयन्ती सा पुनः कोपसमावृता ।
जज्वाल दक्षतनया दक्षदारुणकर्मणा ॥ ४७ ॥

मूलम्

इति सञ्चिन्तयन्ती सा पुनः कोपसमावृता ।
जज्वाल दक्षतनया दक्षदारुणकर्मणा ॥ ४७ ॥

विश्वास-प्रस्तुतिः

क्रोधरक्तेक्षणा तत्र तनुयष्टिस्तदा सती ।
स्फोटञ्चकार द्वाराणि सर्वाण्यावृत्य योगतः ॥ ४८ ॥

तेन स्फोटेन महता तस्यास्तु प्राणवायवः ।
निर्भिद्य दशमद्वारमात्मनस्ते बहिर्ययुः ॥ ४९ ॥

त्यक्तप्राणान्तु तां दृष्ट्वा देवाः सर्वेऽन्तरिक्षगाः ।
हाहाकारं तदा चक्रुः शोकव्याकुलितेक्षणाः ॥ ५० ॥

ततस्तु सत्या भगिनीसुता तां द्रष्टुमागता ।
चुक्रोश शोकाद्विजया मृतां दृष्ट्वा सतीं महुः ॥ ५१ ॥

हा सती क्व गतासीति हा सती तव किन्विदम् ।
हा मातृष्वसरित्युच्चैस्तदा शब्दो महानभूत् ॥ ५२ ॥

विप्रियश्रवणादेव प्राणांस्त्यक्तास्त्वया सति ।
अहं कथन्तु जीवामि दृष्ट्वेदृग्विप्रियं दृढम् ॥ ५३ ॥

पाणिना वदनं सत्या मार्जयन्ती मुहुर्मुहुः ।
करुणं विलपन्ती स्म मुखं जिघ्रति सा तदा ॥ ५४ ॥

सिञ्चन्ती नेत्रजैस्तोयैः सत्याः सा हृदयं मुखम् ।
केशानुल्लास्य पाणिभ्यां वीक्षन्ती वदनं मुहुः ॥ ५५ ॥

ऊर्ध्वाधःकम्पितशिराः शोकव्याकुलितेन्द्रिया ।
हृदयं पञ्चशाखाभ्यां विनिहन्ती तथा शिरः ॥ ५६ ॥

इदं च वचनं साश्रुकण्ठा सा विजयाऽब्रवीत् ।
श्रुत्वा ते मरणं माता वीरिणी शोककर्षिता ॥ ५७ ॥

धारयन्ती कथं प्राणान् सद्यस्त्यक्ष्यति जीवितम् ।
स तथा निरनुक्रोशः क्रूरकर्मा पिता तव ॥ ५८ ॥

प्रमीतां भवतीं श्रुत्वा कथं धास्यति जीवितम् ।
विचिन्त्य नूनं कर्माणि स्वीयानि भवतीं प्रति ।
कृतानि स नृशंसानि दक्षः शोकाकुलस्तदा ॥ ५९ ॥

यज्वा स च ज्ञानहीनः कथं यज्ञे प्रवर्तते ।
निःश्रद्धस्त्यक्तबुद्धिश्च कथं वा स भवेत् क्रतौ ॥ ६० ॥

हा मातर्देहि वचनं रुदन्त्या बालवन्मम ।
भवत्या निर्दया शोकाद् ध्रिये शल्यसमानसून् ॥ ६१ ॥

त्वं किं स्मरसि मे शम्भोर्विहितस्य कदाचन ।
तेनामर्षवशं प्राप्ता मातर्मां किन्न भाषसे ॥ ६२ ॥

तदेव वचनं चक्षुर्मुखं सा नासिका तव ।
एतेषां क्व गता सर्वे विभ्रमा हसितं क्व च ॥ ६३ ॥

ननु ते विभ्रमैर्हीनं नेत्रयुग्मं सुनासिकम् ।
स्मितहीनं च वदनं दृष्ट्वा सोढा कथं हरः ॥ ६४ ॥

का सुधासम्मितं वाक्यं हराश्रमसमागतान् ।
सुनृतं त्वामृते मातर्वदिष्यति मुहुर्मुहुः ॥ ६५ ॥

श्रद्धावती बान्धवेषु पत्युर्भाववशानुगा ।
सर्वलक्षणसम्पूर्णा तत्समा का भविष्यति ॥ ६६ ॥

त्वदृते देवि देवेशः शोकोपहतचेतनः ।
दुःखितात्मा निरुत्साहो निश्चेष्टश्च भविष्यति ॥ ६७ ॥

एवं लपन्ती भृशदुःखिता सतीं मृतां समीक्ष्यातिशयं शुचाहता ।
पपात भूमौ विजया विरावं वितन्वती चोर्ध्वभुजा प्रवेपती ॥ ६८ ॥

इति श्रीकालिकापुराणे सतीदेह-त्यागो नाम षोडषोऽध्यायः ॥ १६ ॥