१५

पञ्चदशोऽध्यायः

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

कदाचिदथ दक्षस्य तनया जलदागमे ।
जगदाद्रेः शिखरिणः प्रस्थस्थं वृषभध्वजम् ॥ १ ॥

मूलम्

सत्युवाच

विश्वास-प्रस्तुतिः

घनागमोऽयं सम्प्राप्तः कालः परमदुःसहः ।
अनेकवर्णमेघौघस्थगिताम्बरदिक्चयः ॥ २ ॥

मूलम्

घनागमोऽयं सम्प्राप्तः कालः परमदुःसहः ।
अनेकवर्णमेघौघस्थगिताम्बरदिक्चयः ॥ २ ॥

विश्वास-प्रस्तुतिः

विवान्ति वाता हृदयं दारयन्तोऽतिवेगिनः ।
कदम्बरजसाधौतपाथोलेशादिवर्षिणः ॥ ३ ॥

मूलम्

विवान्ति वाता हृदयं दारयन्तोऽतिवेगिनः ।
कदम्बरजसाधौतपाथोलेशादिवर्षिणः ॥ ३ ॥

विश्वास-प्रस्तुतिः

मेघानां गर्जितैरुच्चैर्धारासारं विमुञ्चताम् ।
विद्युत्पताकिनान्तीव्रैः क्षुब्धं कस्य न मानसम् ॥ ४ ॥

न सूर्यो दृश्यते नापि मेघाच्छन्नो निशापतिः ।
दिवापि रात्रिवद्भाति विरहिव्यत्ययाकरम् ॥ ५ ॥

मेघा नैकत्र तिष्ठन्तो ध्वनन्तः पवनेरिताः ।
पतन्त इव लोकानां दृश्यन्ते मूर्ध्नि शङ्कर ॥ ६ ॥

वाताहता महावृक्षा नृत्यन्त इव चाम्बरे ।
दृश्यन्ते हर भीरुणां त्रासकाः कामुकेप्सिताः ॥ ७ ॥

स्निग्धनीलाञ्जनश्याममुदिरौघस्य पृष्ठतः ।
वलाकाराजिर्भात्युच्चैर्यमुनाघूष्टफेनवत् ॥ ८ ॥

क्षणं क्षणं चञ्चलेयं दृश्यते कालिका गता ।
अम्बुधाविव सन्दीप्तः पावको बडवामुखः ॥ ९ ॥

प्ररोहन्ति हि शस्पानि मन्दिरप्राङ्गणेष्वपि ।
किमन्यत्र विरूपाक्ष शस्पोद्भूतिं वदाम्यहम् ॥ १० ॥

श्यामलै राजतैः कक्षैर्विशदोऽयं हिमाचलः ।
मन्दराश्रमवृक्षौघपत्रैर्दुग्धाम्बुधिर्यथा ॥ ११ ॥

कुसुमश्रीश्च कूटजं भेजे सास्याथ किंशुकान् ।
उच्चावचां कलौ लक्ष्मीर्यथा सन्त्यज्य सज्जनान् ॥ १२ ॥

मयूराः स्तनयित्नूनां शब्देन हर्षिता मुहुः ।
केकायन्ते प्रतिवनं सततं वृष्टिसूचकाः ॥ १३ ॥

मेघोन्मुखानां मधुरश्चातकानां स्वनो हरः ।
श्रूयतामतिमत्तानां वृष्टिसन्निधिसूचकः ॥ १४ ॥

गगने शक्रचापेन कृतं साम्प्रतमास्पदम् ।
धारासार-शरैस्तापं भेत्तुं प्रति यथोद्गतः ॥ १५ ॥

मेघानां पश्य भर्गेह दुर्नयं करकोत्करः ।
यत्तारयन्त्यनुगतं मयूरं चातकं तथा ॥ १६ ॥

शिखिसारङ्गयोर्दृष्ट्वा मित्रादपि पराभवम् ।
हंसा गच्छन्ति गिरिश विदूरमपि मानसम् ॥ १७ ॥

एतस्मिन् विषमे काले नीडं काकाश्च कोरकाः ।
कुर्वन्ति त्वं विना गेहात् कथं शान्तिमवाप्स्यसि ॥ १८ ॥

महती बाधते भीतिर्मां मेघोत्था पिनाकधृक् ।
यतस्व तस्माद्वासाय मा चिरं वचनान्मम ॥ १९ ॥

कैलासे वा हिमाद्रौ वा महाकौष्यामथ क्षितौ ।
तवोपयोग्यं त्वं वासं कुरुष्व वृषभध्वज ॥ २० ॥

एवमुक्तस्तदा शम्भुर्दाक्षायण्या तय सकृत् ।
इषज्जहास शीर्षस्थचन्द्ररश्मिसिताननः ॥ २१ ॥

अथोवाच सतीं देवीं स्मितभिन्नोष्ठसम्पूटः ।
महात्मा सर्वतत्त्वज्ञस्तोषयन् परमेश्वरीम् ॥ २२ ॥

ईश्वर उवाच

विश्वास-प्रस्तुतिः

यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे ।
मेघास्तत्र न गन्तारः कदाचिदपि मत्प्रिये ॥ २३ ॥

मेघा नितम्बपर्यन्तं सञ्चरन्ति महीभृतः ।
सदा प्रालेयधाम्नस्तु वर्षास्वपि मनोहरे ॥ २४ ॥

कैलासस्य तथा देवी यावदामेखलं घनाः ।
सञ्चरन्ति न गच्छन्ति तस्मादूर्ध्वं कदाचन ॥ २५ ॥

सुमेरोर्वारिधेरूर्ध्वं न गच्छन्ति बलाहकाः ।
जानुमूलं समासाद्य पुष्करावर्तकादयः ॥ २६ ॥

एतेषु च गिरीन्द्रेषु यस्योपरि तवेहते ।
मनः प्रिये निवासाय तमाचक्ष्व द्रुतं मयि ॥ २७ ॥

स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः ।
शकुन्तवर्गैर्मधुरस्वनैस्ते सदोपदेयानि गिरौ हिमोत्थे ॥ २८ ॥

सिद्धाङ्गनास्ते सखितां सनातनीमिच्छन्त्य एवोपकृतिं सकौतुकाम् ।
स्वेच्छाविहारैर्मणिकुट्टिमे गिरौ कुर्वन्त्य एष्यन्ति फलादिदानकैः ॥ २९ ॥

या देवकन्या गिरिकन्यकाश्च या नागकन्याश्च तुरङ्गमुख्यः ।
सर्वास्तु तास्ते सततं सहायतां समाचरिष्यन्त्यनुमोदविभ्रमैः ॥ ३० ॥

रूपं तवेदमतुलं वदनं सुचारु दृष्ट्वाङ्गना निजवपुर्निजकान्तिसङ्घम् ।
हेलां निजे वपुषि रूपगुणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः ॥ ३१ ॥

या मेनका पर्वतराजजाया रूपैर्गुणैः ख्यातवती त्रिलोके ।
सा चापि ते तत्र मनोनुमोदं नित्यं करिष्यत्यथ सूचनाद्यैः ॥ ३२ ॥

पुरन्ध्रिवर्गैर्गिरिराजवन्द्यैः प्रीतिं वितन्वद्भिरुदाररूपाम् ।
शिक्षा सदा ते स्वकुलोचितापि कार्यान्वहं प्रीतियुता गुणौघैः ॥ ३३ ॥

विचित्रकोकिलालालापमोदकुञ्जगणावृतम् ।
सदा वसन्तप्रभवं गन्तुमिच्छसि किं प्रिये ॥ ३४ ॥

नाना स्वच्छजलापूर्णं सरःशतसमावृतम् ।
पद्मिनीशतसंयुक्तमचलेन्द्रं हिमालयम् ॥ ३४ अ ॥

सर्वकामप्रदैर्वृक्षै शाद्वलः कल्पसञ्ज्ञकैः ।
सञ्छन्नं यस्य कुसुमान्युपयोक्ष्यसि तत्र वै ॥ ३५ ॥

प्रशान्तश्वापदगणं मुनिभिर्यतिभिर्वृतम् ।
देवालयं महाभागे नानामृगगणैर्वृतम् ॥ ३६ ॥

स्फटिकस्वर्णवप्राद्यै राजतैश्च विराजितम् ।
मानसादिसरोवर्गैरभितः परिशोभितम् ॥ ३७ ॥

हिरन्मयै रत्ननालैः पङ्कजैर्मुकुलैर्वृतम् ।
शिशुमारैस्तथा शङ्खैः कच्छपैर्मकरैर्झषैः ।
निषेवितैर्मञ्जुलैश्च तथानीलोत्पलादिभिः ॥ ३८ ॥

देवीशतस्नानसक्तसर्वगन्धैश्च कुङ्कुमः ।
विचित्रस्रग्गन्धजलैरापूर्णैः स्वच्छकान्तिभिः ॥ ३९ ॥

शाद्वलैस्तरुभिस्तुङ्गैस्तीरस्थैरूपशोभितैः ।
नृत्यद्भिरिव शाखौर्षैर्व्यजयन्तं स्वसम्भवम् ॥ ४० ॥

कादम्बैः सारसैर्मत्तचक्राङ्गग्रामशोभितैः ।
मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः ॥ ४१ ॥

वासवस्य कुबेरस्य यमस्य वरुणस्य च ।
अग्नेः कौणपराजस्य मारुतस्य हरस्य च ॥ ४२ ॥

पुरीभिः शोभिशिखरं मेरुमुच्चैः सुरालयम् ।
रम्भाशचीमेनकादिरम्भोरुगणसेवितम् ॥

किं त्वमिच्छसि सर्वेषां सारभूतं महागिरिम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः

तत्र देवीशतयुता साप्सरोगणसेविता ।
नित्यं चरिष्यति शची तव योग्यां सहायताम् ॥ ४४ ॥

अथवा मम कैलासमचलेन्द्रं सदाश्रयम् ।
स्थानमिच्छसि वित्तेशपुरीपरिविराजितम् ॥ ४५ ॥

गङ्गाजलौघप्रयतं पूर्णचन्द्रसमप्रभम् ।
दरीषु सानुषु सदा यक्षकन्याभिरीहितम् ॥ ४६ ॥

नानामृगगणैर्जुष्टं पद्माकरशतावृतम् ।
सर्वैर्गुणैश्च सदृशं सुमेरोरिव सुन्दरि ॥ ४७ ॥

स्थानेष्वेतेषु यत्रास्ति तवान्तःकरणस्पृहा ।
तद्द्रुतं मे समाचक्ष्व वासं कर्तास्मि तत्र ते ॥ ४८ ॥

मूलम्

स्थानेष्वेतेषु यत्रास्ति तवान्तःकरणस्पृहा ।
तद्द्रुतं मे समाचक्ष्व वासं कर्तास्मि तत्र ते ॥ ४८ ॥

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

इतीरिते शङ्करेण तदा दाक्षायणी शनैः ।
इदमाह महादेवं श्लक्ष्णं स्वेच्छाप्रकाशकम् ॥ ४९ ॥

मूलम्

इतीरिते शङ्करेण तदा दाक्षायणी शनैः ।
इदमाह महादेवं श्लक्ष्णं स्वेच्छाप्रकाशकम् ॥ ४९ ॥

सत्युवाच

विश्वास-प्रस्तुतिः

हिमाद्रावेव वसतिमहमिच्छे त्वया सह ।
न चिरात् कुरु वासं त्वं तस्मिन्नेव महागिरौ ॥ ५० ॥

मूलम्

हिमाद्रावेव वसतिमहमिच्छे त्वया सह ।
न चिरात् कुरु वासं त्वं तस्मिन्नेव महागिरौ ॥ ५० ॥

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

अथ तद्वाक्यमाकर्ण्य हरः परममोदितः ।
हिमाद्रिशिखरं तुङ्गं दाक्षायण्या समं ययौ ॥ ५१ ॥

सिद्धाङ्गनागणयुक्तमगम्यं मेघपक्षिभिः ।
जगाम शिखरं तुङ्गं मरीचवनराजितम् ॥ ५२ ॥

मूलम्

सिद्धाङ्गनागणयुक्तमगम्यं मेघपक्षिभिः ।
जगाम शिखरं तुङ्गं मरीचवनराजितम् ॥ ५२ ॥

इति श्रीकालिकापुराणे हिमाद्रिनिवालयवनं पञ्चदशोऽध्यायः