विश्वास-प्रस्तुतिः
चतुर्दशोऽध्यायः
मार्कण्डेय उवाच
जलदेष्वथ गर्जत्सु महादेवः सतीपतिः ।
विसृज्य विष्णुप्रभृतीन् जगाम हिमवद्गिरिम् ॥ १ ॥
मूलम्

आरोप्य वृषभे तुङ्गे सतीमामोदशालिनीम् ।
जगाम हिमवत्प्रस्थं रम्यं कुञ्जसमन्वितम् ॥ २ ॥

अथ सा शङ्कराभ्यासे सुदती चारुहासिनी ।
विरेजे वृषभस्थाति चन्द्रान्ते कालिकोपमा ॥ ३ ॥

ब्रह्मादयश्च ते सर्वे मरीच्याद्याश्च मानसाः ।
दक्षोऽपि सर्वे मुदिता अभवन् ससुरासुराः ॥ ४ ॥

केचिच्छङ्खान् वादयन्तः केचित्तालान् सुमङ्गलाः ।
केचिद्धास्यं प्रकुर्वन्तो अनुजग्मुर्वृषध्वजम् ॥ ५ ॥

विसृष्टा अपि ब्रह्माद्याः शम्भुना पुनरेव ते ।
अनुजग्मुः कियद्दूरं मुदा परमया युताः ॥ ६ ॥

ततः शम्भुं समाभाष्य ब्रह्माद्या मानसाश्च ते ।
स्वं स्वं स्थानं तदा जग्मुः स्यन्दनैराशुगामिभिः ॥ ७ ॥

देवाश्च सर्वे सिद्धाश्च तथैवाप्सरसां गणाः ।
यक्षविद्याधराद्याश्च ये ये तत्र समागताः ॥ ८ ॥

ते हरेण विसृष्टास्तु गतवन्तो निजास्पदम् ।
बभुवुरामोदयुताः कृतदारे वृषध्वजे ॥ ९ ॥

ततो हरः सस्वगणः संस्थानं प्राप्य मोदनम् ।
कैलासं तत्र वृषभादवतारयति प्रियाम् ॥ १० ॥

ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् ।
स्वीयान् विसर्जयामास नन्द्यादीन् गिरिकन्दरात् ॥ ११ ॥

उवाच शम्भुस्तान् सर्वान् नन्द्यादीनतिसुनृतम् ।
यदाहं वः स्मराम्यत्र स्मरणाच्चलमानसाः ।
समागमिष्यथ तदा मत्पार्श्व भोस्तदा तदा ॥ १२ ॥

इत्युक्ते वामदेवेन ते नन्दिभैरवादयः ।
महाकौषीप्रपाताय जग्मुस्ते हिमवद्गिरौ ॥ १३ ॥

ईश्वरोऽपि तया सार्धं तेषु यातेषु मोहितः ।
दाक्षायण्या चिरं रेमे रहस्यनुदिनं भृशम् ॥ १४ ॥

कदाचिद् वन्यपुष्पाणि समाहृत्य मनोहराम् ।
मालां विधाय सत्यास्तु हारस्थाने न्ययोजयत् ॥ १५ ॥

कदाचिद् दर्पणे वक्त्रं वीक्षन्तीमात्मनः सतीम् ।
अनुगम्य हरो वक्त्रं स्वीयमप्यवलोकयत् ॥ १६ ॥

कदाचित् कुन्तलांस्तस्या उल्लास्योल्लासमागतः ।
बध्नाति मोचयत्येवं शश्वत् सम्मार्जयत्यपि ॥ १७ ॥

सरागौ चरणावस्या आयावकेनोज्ज्वलेन च ।
निसर्गरक्तौ कुरुते सरागो वृषभध्वजः ॥ १८ ॥

उच्चैरपि यदाख्येयमन्येषां पुरतो मुहुः ।
तत् कर्णे कथयत्यस्या हरोः स्प्रष्टुं तदाननम् ॥ १९ ॥

न दूरमपि गत्वासौ समागम्य प्रयत्नतः ।
अनुबध्नाति तामक्ष्णि पृष्ठदेशेऽन्यमानसाम् ॥ २० ॥

अन्तर्हितस्तु तत्रैव मायया वृषभध्वजः ।
तामालिलिङ्ग भीत्या सा चकिता व्याकुलाभवत् ॥ २१ ॥

सौवर्णपद्मकलिकातुल्ये तस्याः कुचद्वये ।
चकार भ्रमराकारं मृगनाभिविशेषकम् ॥ २२ ॥
मूलम्
सौवर्णपद्मकलिकातुल्ये तस्याः कुचद्वये ।
चकार भ्रमराकारं मृगनाभिविशेषकम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
हारमस्याः कुचयुगाद्वियोज्य सहसा हरः ।
नियोजयति तत्रैव सकरस्पर्शनं मुहुः ॥ २३ ॥

अङ्गदान् वलयान् वमीं विश्लेष्य च पुनः पुनः ।
तत्स्थानात् पुनरेवासौ तत्स्थाने प्रयुयोज च ॥ २४ ॥

कालिकेयं समायाति सवर्णा ते सखीति ताम् ।
पश्येत् यस्यास्तथेच्छन्त्याः प्रोक्त्वा जग्राह तत्कुचौ ॥ २५ ॥

कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः ।
चकार नर्मकर्माणि तथा हृत्प्रियया मुदा ॥ २६ ॥

आहृत्य पद्मपुष्पाणि वन्यपुष्पाणि शङ्करः ।
पुष्पाभरणसर्वाङ्गीं कुरुते स्म कदाचन ॥ २७ ॥

गिरिकुञ्जेषु रम्येषु तया सह सतीपतिः ।
विजहार समस्तेषु वनेषु मुदितो हरः ॥ २८ ॥
मूलम्
गिरिकुञ्जेषु रम्येषु तया सह सतीपतिः ।
विजहार समस्तेषु वनेषु मुदितो हरः ॥ २८ ॥
विश्वास-प्रस्तुतिः
न याने नोपवेशे च न स्थितौ नापि चेष्टिते ।
तया विना क्षणमपि शर्म लेभे वृषध्वजः ॥ २९ ॥

विहृत्य सुचिरं कालं कैलासगिरिकन्दरे ।
महाकौषीप्रपाताय जगाम हिमवद्गिरौ ॥ ३० ॥
मूलम्
विहृत्य सुचिरं कालं कैलासगिरिकन्दरे ।
महाकौषीप्रपाताय जगाम हिमवद्गिरौ ॥ ३० ॥
विश्वास-प्रस्तुतिः
तस्मिन् प्रविष्टे हिमवत्पर्वते वृषभध्वजे ।
कामोऽपि सह मित्रेण रत्या च प्रजगाम ह ॥ ३१ ॥

तस्मिन् प्रविष्टे कामे तु वसन्तः शङ्करान्तिके ।
विततान निजाः श्रीश्च वृक्षे तोये तथा भुवि ॥ ३२ ॥

सर्वे सुपुष्पिता वृक्षा लताश्चान्याः सुपुष्पिताः ।
अम्भांसि फुल्लपद्मानि पद्मेषु भ्रमरास्तथा ॥ ३३ ॥

प्रविष्टे तत्र सुरतौ प्रववुर्मलयानिलाः ।
सुगन्धिपुष्पगन्धेन मोहितश्च पुरन्ध्रयः ॥ ३४ ॥

मुनीनामपि चेतांसि प्रमथ्य सुरभिस्तदा ।
स्मरः सारं समुद्दध्रे तक्रौघादाज्यवत्कृती ॥ ३५ ॥

सन्ध्यार्द्ध चन्द्रसङ्काशाः पलशाश्च विरेजिरे ।
कामास्त्रवत्सुमनसः प्रमोदायाभवत् सदा ॥ ३६ ॥

वभुः पङ्कजपुष्पाणि सरःसु सकलं जनान् ।
सम्मोहयितुमुद्युक्ता सुमुखीबाम्बुदेवता ॥ ३७ ॥

नागकेशरवृक्षाश्च स्वर्णवर्णप्रसूनकैः ।
बभुर्मदनकेत्वाभा मनोज्ञाः शङ्करान्तिके ॥ ३८ ॥

चम्पकास्तरवो हैमपुष्पत्वं प्रकटं मुहुः ।
कुर्वन्तः प्रचुरैः पुष्पैः सम्यग्रेजुस्तथास्फुटैः ॥ ३९ ॥

प्रफुल्लपाटलापुष्पैर्दिशः स्युः पाटलांशवः ।
यथा तथा पुष्पितास्ते पाटलाख्या महीरुहाः ॥ ४० ॥

लवङ्गवल्लीसुरभिर्गन्धेनोद्वास्य मारुतम् ।
सम्मोहयति चेतांसि भृशं कामिजने पुरा ॥ ४१ ॥

वासन्तीवासितास्तत्र बल्वजाः किल रेजिरे ।
तद्गन्धलुब्धभ्रमरा रतिमिश्रा मनोहराः ॥ ४२ ॥

चारु पावकवर्चस्वि शिखराश्चूतशाखिनः ।
बभुर्मदनबाणौघ-पर्यकवदनावृताः ॥ ४३ ॥
मूलम्
चारु पावकवर्चस्वि शिखराश्चूतशाखिनः ।
बभुर्मदनबाणौघ-पर्यकवदनावृताः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अम्भांसि मलहीनानि रेजुः फुल्लकुशेशयैः ।
मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमात् ॥ ४४ ॥

तुषाराः सूर्यरश्मीनां सङ्गमादगमन् क्षयम् ।
ममत्वानीव विज्ञानशालिनां हृदयात्तदा ॥ ४५ ॥

निःशङ्काः कोकिलाः शब्दं तन्वते स्म तदान्वहम् ।
प्राणिव्यधनपुष्पेषु पुष्पज्याशब्दवत् भृशम् ॥ ४६ ॥

चुकूजुर्भ्रमरास्तत्र वनान्तर्गतपुष्पगाः ।
कान्तालीलाबुभुक्षोस्तु स्मरव्याघ्रस्य शब्दवत् ॥ ४७ ॥

चन्द्रस्तुषारवद्भानुर्नचैताः सकलाः कलाः ।
क्रमाद्वभार मोहाय जनानां कुशलं भुवि ॥ ४८ ॥

प्रसन्नाः सह चन्द्रेण निस्तुषारास्तदाभवन् ।
विभावर्यः प्रियेणेव कामिन्यः सुमनोहराः ॥ ४९ ॥

तस्मिन् काले महादेवः सह सत्या धरोत्तमे ।
रेमे च सुचिरं छन्नो निकुञ्जेषु दरीषु च ॥ ५० ॥

सापि तेन समं रेमे तथा दाक्षायणी शुभा ।
यथा हरः क्षणमपि शान्तिं नाप तया विना ॥ ५१ ॥

सम्भोगविषये देवी सती तस्य मनःप्रिया ।
विशतीव हरस्याङ्गे पाययन्तीव तद्रसम् ॥ ५२ ॥

तस्याः कुसुममालाभिर्भूषयन् सकलां तनुम् ।
स्वहस्तरचिताभिश्च वरं नर्म चकार सः ॥ ५३ ॥

आलापैर्वीक्षणैर्हासैस्तथा सम्भाषणैर्हरः ।
तस्यां विवेश गिरिशः संयमीवात्मसंविदम् ॥ ५४ ॥

तद्वक्त्रचन्द्रपीयूषपानस्थिरतनुर्हरः ।
नावाप शैषिकीं तन्वीमवस्थां स कदाचन ॥ ५५ ॥

तद्वक्त्राम्बुजवासेन तत्सौन्दर्यस्य नर्मभिः ।
गुणैरिव महादन्ती बद्धो नान्यद्विचेष्टते ॥ ५६ ॥

इति हिमगिरिकुञ्जे प्रस्थभागे दरीषु प्रतिदिनमधिरेमे दक्षपुत्र्या महेशः ।
ऋतुभुजपरिमाणैः क्रीडतस्तस्य जाता नव दश च मुनीन्द्रा वत्सरा पञ्च चान्ये ॥
५७ ॥

इति श्रीकालिकापुराणे शिव-सती-विहार-वर्णने चतुर्दशोऽध्यायः ॥ १४ ॥