त्रयोदशोऽध्यायः
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
ततो ब्रह्माण्डसंस्थानं दर्शयामास शम्भवे ।
ववृधे तोयराशिस्थं ब्रह्माण्डञ्च यथापुरा ॥ १ ॥
मूलम्

तन्मध्ये पद्मगर्भाभं ब्रह्माणञ्च जगत्पतिम् ।
ज्योतीरूपं प्रकाशार्थं सृष्ट्यर्थं च पृथग्गतम् ॥ २ ॥

शरीरिणञ्च ददृशे ब्रह्माण्डान्तर्गतं मुहुः ।
चतुर्भुजं प्रकाशान्तं ज्योतिर्भिः कमलासनम् ॥ ३ ॥

तत्रैव च त्रिधाभूतं वपुर्ब्राह्म्यं ददर्श सः ।
ऊर्द्धमध्यान्तभागैश्च ब्रह्मविष्णुशिवात्मकम् ॥ ४ ॥

यथोर्ध्वभागो वपुषो ब्रह्मत्वमगमत्तदा ।
मध्यं यथा विष्णुभूतं ददर्शान्तस्य शम्भुताम् ॥ ५ ॥

एकमेव शरीरन्तु त्रिधाभूतं मुहुर्मुहुः ।
हरो ददर्श स्वे गर्भे तथा सर्वमिदं जगत् ॥ ६ ॥

कदाचिद्वैष्णवं कायं ब्राह्मे काये लयं व्रजेत् ।
ब्राह्मं तथा वैष्णवे च शाम्भवे वैष्णवं तथा ॥ ७ ॥

शाम्भवं वैष्णवे काये ब्राह्मं वाप्यथ शाम्भवे ।
गच्छन्तं लीनतां शम्भुरेकताञ्च मुहुर्मुहुः ॥ ८ ॥

ददर्श वामदेवोऽपि भिन्नञ्चाप्यपृथग्गतम् ।
परमात्मनि गच्छन्तं लीनतां तद्वपुः स्वयम् ॥ ९ ॥

तन्मध्ये पृथिवीं शम्भुर्ददर्श विततां जले ।
महापर्वतसङ्घातैर्विरलं स्थगितन्ततः ॥ १० ॥

पुनर्ददर्श ब्रह्माणं कुर्वन्तं स्वर्गमादितः ।
आत्मानञ्च पृथग्भूतं विष्णुञ्च गरुडासनम् ॥ ११ ॥

दक्षं प्रजापतिं तत्र तथैव च निजान् गणान् ।
मरीच्यादीन् दश तथा वीरिणीञ्च तथा सतीम् ॥ १२ ॥

सन्ध्यां रतिं च कन्दर्प शृङ्गारं सवसन्तकम् ।
हावान् भावांस्तथा मारानृषीन् देवान् मरुद्गणान् ॥ १३ ॥

मेघांश्च चन्द्रं सूर्यञ्च वृक्षान् वल्लीस्तृणानि च ।
सिद्धान् विद्याधरान् यक्षान् राक्षसान् किन्नरांस्तथा ॥ १४ ॥

मानुषांश्च भुजङ्गांश्च ग्राहान्मत्स्यांश्च कच्छपान् ।
उल्कानिर्घातकेतूंश्च कृमिकीटपतङ्गकान् ॥ १५ ॥

काञ्चिद्ददर्श वनितां द्वन्द्वभावं प्रकुर्वतीम् ।
उत्पन्नमुत्पद्यन्तञ्च विपद्यन्तञ्च कञ्चन ॥ १६ ॥

हसतो रमतः कांश्चित् कांश्चिद्विलपतस्तथा ।
धावतश्चापराञ्छम्भोर्ददर्श परमेश्वरः ॥ १७ ॥

दिव्यालङ्कारसञ्छन्ना मालाचन्दनचर्चिताः ।
वीक्षाञ्च चक्रिरे केचिच्छम्भुना क्रीडिता मुहुः ॥ १८ ॥

स्तुवन्तः प्रस्तुवन्तश्च शम्भुं विष्णुं तथा विधिम् ।
केचिद्ददृशिरे तेन मुनयश्च तपोधनाः ॥ १९ ॥

तपांसि चरतः केचिन्नदीतीरे तपोवने ।
स्वाध्यायवेदनिरताः पाठ्यन्तश्चैव केचन ॥
मूलम्
तपांसि चरतः केचिन्नदीतीरे तपोवने ।
स्वाध्यायवेदनिरताः पाठ्यन्तश्चैव केचन ॥
विश्वास-प्रस्तुतिः
तथैव सागराः सप्त नद्यो देवसरांसि च ।
तथैव पर्वतस्थोऽसौ ददृशे शम्भुना स्वयम् ॥ २१ ॥

मायालक्ष्मीस्वरूपेण हरिं सन्मोहयत्यलम् ।
सतीरूपा तथात्मानं मोहयन्तीति शङ्करः ॥ २२ ॥

सत्या सार्धं स्वयं रेमे कैलासे मेरुपर्वते ।
मन्दरे देवविपिने शृङ्गाररससेविते ॥ २३ ॥

सतीदेहं तथा त्यक्त्वा जाता हिमवतः सुता ।
कार्तिकेयः समुत्पन्नो यथाहंस्तारकाह्वयम् ।
तत्सर्वं विस्तरात् सम्यग् वृषभध्वजः ॥ २५ ॥

हिरण्यकशिपुर्जघ्ने नरसिंहस्वरूपिणा ।
यथा हतः कालनेमिर्हिरण्याक्षो यथा हतः ॥ २६ ॥

विष्णुना यादृशं युद्धं दानवौघैः पुराकृतम् ।
यथा ये ये च निहतास्तत्सर्वं दृष्टवान् हरः ॥ २७ ॥

जगत्प्रपञ्चान् ब्रह्मादीन् नक्षत्रग्रहमानुषान् ।
सिद्धविद्याधरादींश्च दृष्ट्वा दृष्ट्वा पृथक् पृथक् ॥ २८ ॥

आत्मानं तान् संहरन्तं ददृशे शम्भुरीश्वरः ।
संहारान्ते ददर्शासौ ब्रह्मविष्णुमहेश्वरान् ॥ २९ ॥

शून्यं समभवत्सर्वं जगदेतच्चराचरम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
शून्ये जगति सर्वस्मिन् ब्रह्मा विष्णुशरीरगगः ।
लीनः शम्भुश्च तस्यैव शरीरं प्रविवेश ह ॥ ३१ ॥

एकमेव ददर्शासौ विष्णुमव्यक्तरूपिणम् ।
नान्यत्किञ्चिद् ददर्शासौ तदा विष्णुमृते हरः ॥ ३२ ॥

अथ विष्णुश्च ददृशे लयं तं परमात्मनि ।
भासमानं परं तत्त्वे ज्योतीरूपे सनातने ॥ ३३ ॥

ततो ज्ञानमयं नित्यमानन्दं ब्रह्मणः परम् ।
केवलं ज्ञानगम्यञ्च ददर्शान्यन्न किञ्चन ॥ ३४ ॥

एकत्वञ्च पृथक्त्वञ्च जगतः परमात्मनि ।
ददर्श स्वशरीरान्तः सर्गस्थित्यन्तसंयमान् ॥ ३५ ॥

प्रकाशं परमात्मानं शान्तं नित्यमतीन्द्रियम् ।
एकमेवाद्वयं ब्रह्म ददर्शान्यन्न किञ्चन ॥ ३६ ॥

को वा विष्णुर्हरः को वा को ब्रह्मा किमिदं जगत् ।
इति भेदो न जगृहे शम्भुना परमात्मनः ॥ ३७ ॥

एवं सम्पश्यतस्तस्य शरीराभ्यन्तराद्बहिः ।
निःससाराथ मायाहि प्रविवेश वृषध्वजम् ॥ ३८ ॥

अनन्यत्वं पृथक्त्वञ्च दर्शयित्वा जनार्दनः ।
शम्भवे तच्छरीरात्तु बहिर्भूतस्ततोद्रुतम् ॥ ३९ ॥

अथ त्यक्तसमाधेस्तु हरस्य चलितात्मनः ।
सतीं मनो जगामाशु मोहितस्य च मायया ॥ ४० ॥

ततो मुहुर्हरो वक्त्रं दाक्षायण्या मनोहरम् ।
प्रबुद्धकमलाकारं वीक्षाञ्चक्रे द्विजोत्तमाः ॥ ४१ ॥

ततो दक्षमरीच्यादीन् स्वगणान् कमलासनम् ।
विष्णुञ्च तत्र संवीक्ष्य शङ्करो विस्मितोऽभवत् ॥ ४२ ॥

अथ तं विस्मयाविष्टं महादेवं वृषध्वजम् ।
स्मितप्रफुल्लवदनं हरमाह जनार्दनः ॥ ४३ ॥
मूलम्
अथ तं विस्मयाविष्टं महादेवं वृषध्वजम् ।
स्मितप्रफुल्लवदनं हरमाह जनार्दनः ॥ ४३ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
यद् यत् पृष्टं त्वयैकत्वे भिन्नतायाञ्च शङ्करः ।
त्रयाणामथ देवानां तज् ज्ञातमधुना त्वया ॥ ४४ ॥

प्रकृतिः पुरुषश्चैव कालो माया निजान्तरे ।
त्वया ज्ञाता महादेव कीदृशास्ते च के पुनः ॥ ४५ ॥

एकं ब्रह्म सदा शान्तं नित्यञ्च परमं महत् ।
तत् कथं भिन्नतां जातं दृष्टं तत् कीदृशं त्वया ॥ ४६ ॥
मूलम्
एकं ब्रह्म सदा शान्तं नित्यञ्च परमं महत् ।
तत् कथं भिन्नतां जातं दृष्टं तत् कीदृशं त्वया ॥ ४६ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इति पृष्टो भगवता भगवान् वृषभध्वजः ।
जगाद हरये तथ्यमेतद्वाक्यं द्विजोत्तमाः ॥ ४७ ॥

ईश्वर उवाच
विश्वास-प्रस्तुतिः
एकं शिवं शान्तमनन्तमच्युतं ब्रह्मास्ति तस्मान्नहि किञ्चिदीदृशम् ।
तस्मादभिन्नं सकलं जगद्धरेः कालादिरूपाणि च सृष्टिहेतुः ॥ ४८ ॥

समस्तभूतप्रभवं निरञ्जनं वयञ्च तस्यैव सदांशरूपिण ।
सृष्टिस्थितिं संयमनं तदीरितं रूपत्रयं तस्य विभाति भेदतः ॥ ४९ ॥

नाहं न च त्वं न हिरण्यगर्भो न कालरूपं प्रकृतिं न चान्यत् ।
तत्प्रेरणां कर्तुमलं च किञ्चिद्विनापि रूपं सदपीह तस्य ॥ ५० ॥

इति तत्त्वं त्वया प्रोक्तं ज्ञातञ्च वृषभध्वज ।
तदंशभूतास्तु वयं ब्रह्मविष्णुपिनाकिनः ॥ ५१ ॥

तस्मात् त्वया न वध्योऽयं विरिञ्चिस्तव चेद्भवेत् ।
एकता विदिता शम्भो ब्रह्मविष्णुपिनाकिनाम् ॥ ५२ ॥
मूलम्
तस्मात् त्वया न वध्योऽयं विरिञ्चिस्तव चेद्भवेत् ।
एकता विदिता शम्भो ब्रह्मविष्णुपिनाकिनाम् ॥ ५२ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा विष्णोरमिततेजसः ।
न जघान महादेवो विधिं दृष्ट्वाथ चैकताम् ॥ ५३ ॥

इति वः कथितं विष्णुर्यथानन्यत्वमादिशत् ।
शम्भवे प्रस्तुतं तद्वः कथयामि पुनर्द्विजाः ॥ ५४ ॥

इति श्रीकालिकापुराणे हरकोपोपञ्चमने त्रयोदशोऽध्यायः ॥ १३ ॥