विश्वास-प्रस्तुतिः
एकादशोऽध्यायः
मार्कण्डेय उवाच
ततः समागताः सर्वे मानसाश्च सनारदाः ।
विधेः स्मरणमात्रेण वातेनेव विनोदिताः ॥ १ ॥
मूलम्

तैः सार्धं ब्रह्मणा शम्भुः सगणो दक्षमन्दिरम् ।
जगाम मोदयुक्तोऽथ काले तत्कर्मयोगिनि ॥ २ ॥

गणाः शङ्खांश्च पटहान् डिण्डिमांस्तूर्यवंशकान् ।
वादयन्तो मुदायुक्ता अनुगच्छन्ति शङ्करम् ॥ ३ ॥

केचित्तालं करतलैः कुर्वन्तोऽङ्घ्रितलस्वनम् ।
विमानैरतिवेगैः स्वैरनुयान्ति वृषध्वजम् ॥ ४ ॥

कोलाहलं प्रकुर्वन्तस्तथा नानाविधान् रवान् ।
गणा अनेकाकृतयः शब्दयोगेन निर्ययुः ॥ ५ ॥

ततो देवा मुदा युक्ता गन्धर्वाप्सरसो गणाः ।
वाद्यैर्मोदैस्तथा नृत्यैरन्वीयुर्वृषभध्वजम् ॥ ६ ॥

तेषां शब्देन विप्रेन्द्रा गन्धर्वाणां गरीयसाम् ।
गणानाञ्च दिशः सर्वाः पूरिता च वसुन्धरा ॥ ७ ॥

कामोऽपि सगणः शम्भुं सशृङ्गाररसादिभिः ।
मोदयन् मोहयन् काममन्वियात् स समक्षतः ॥ ८ ॥

हरे गच्छति भार्यार्थे तदानी सकलाः सुराः ।
ब्रह्माद्याः स्वयमेवाशु वाद्यं चक्रुर्मनोहरम् ॥ ९ ॥

दिशः सर्वाः सुप्रसन्ना बभूबुर्द्विजसत्तमाः ।
जज्वलुश्चाग्नयः शान्ताः पुष्पवृष्टिरजायत ॥ १० ॥

ववुर्वाताः सुरभयो वृक्षाश्चापि सुपुष्पिताः ।
बभूवुः प्राणिनः स्वस्था अस्वस्था येऽपि केचन ॥ ११ ॥

हंससारसकादम्बा नीलकम्बुश्च चातकाः ।
चुक्रुशुर्मधुरान् शब्दान् प्रेरयन्त इवेश्वरम् ॥ १२ ॥

भुजगो व्याघ्रकृत्तिश्च जटा चन्द्रकला तथा ।
जगाम भूषणत्वञ्च तेनापि परिदीपितः ॥ १३ ॥

ततः क्षणेन बलिना बलीवर्देन वेगिना ।
सब्रह्मानारदाद्यैश्च प्राप दक्षालयं हरः ॥ १४ ॥

ततो दक्षो महातेजा अभ्युत्थाय स्वयं हरम् ।
ब्रह्मादींश्चाददौ तेषामासनानि यथोचितम् ॥ १५ ॥

कृत्वा यथोचितां तेषां पूजां पाद्यादिभिस्तथा ।
चकार संविदं दक्षो मुनिभिर्मानसैः पुनः ॥ १६ ॥

ततः शुभे मुहूर्ते तु लग्ने च द्विजसत्तमाः ।
सतीं निजसुतां दक्षो ददौ हर्षेण शम्भवे ॥ १७ ॥

उद्वाहविधिना सोऽपि पाणिं जग्राह हर्षितः ।
दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः ॥ १८ ॥

ब्रह्माय नारदाद्याश्च मुनयः सामगीतिभिः ।
ऋचा यजुर्भिः सुश्राव्यैस्तोषयामासुरीश्वरम् ॥ १९ ॥

वाद्यं चक्रुर्गणाः सर्वे ननृतुश्चाप्सरोगणाः ।
पुष्पवृष्टिञ्च ससृजुर्मेघा गगनसङ्गताः ॥ २० ॥

अथ शम्भुमुपागत्य गरुडेनातिवेगिना ।
सार्धं कमलया चेदमुवाच गरुडध्वजः ॥ २१ ॥
मूलम्
अथ शम्भुमुपागत्य गरुडेनातिवेगिना ।
सार्धं कमलया चेदमुवाच गरुडध्वजः ॥ २१ ॥
विश्वास-प्रस्तुतिः
श्री भगवानुवाच
स्निग्धनीलाञ्जनश्यामशोभया शोभसे हर ।
दाक्षायण्या यथा चाहं प्रातिलोम्येन पद्मया ॥ २२ ॥

कुरु त्वमनया सार्धं रक्षा देवस्य वा नृणाम् ॥ २३ ॥

अनया सह संसारसारिणां मङ्गलं सदा ।
कुरु दस्यून् यथायोग्यं हनिष्यसि च शङ्कर ॥ २४ ॥

य एवैनां साभिलाषो दृष्ट्वा श्रुत्वाथवा भवेत् ।
तं हनिष्यसि भूतेश नात्र कार्या विचारणा ॥ २५ ॥
मूलम्
य एवैनां साभिलाषो दृष्ट्वा श्रुत्वाथवा भवेत् ।
तं हनिष्यसि भूतेश नात्र कार्या विचारणा ॥ २५ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
एवमस्त्विति सर्वज्ञः प्रोवाच परमेश्वरम् ।
प्रहृष्टमानसं प्रीत्या प्रसन्नवदनो द्विजाः ॥ २६ ॥

अथ ब्रह्मा तदा दृष्ट्वा दक्षजां चारुहासिनीम् ।
स्मराविष्टमना वक्त्रं वीक्षाञ्चक्रे तदीयकम् ॥ २७ ॥

मुहुर्मुहुस्तदा ब्रह्मा पश्यति स्म सतीमुखम् ।
तदेन्द्रियविकारञ्च प्राप्तवानवशः पुनः ॥ २८ ॥

अथ तस्य पपाताशु तेजो भूमौ द्विजोत्तमाः ।
तज्वलद्दहनाभासं मुनीनां पुरतस्तदा ॥ २९ ॥

ततस्तस्मात् समभवंस्तोयदाः शब्दसंयुताः ।
सम्वर्तश्च तथावर्तः पुष्करो द्रोण एव च ।
गर्जन्तश्चाथ मुञ्चन्तस्तोयानि द्विजसत्तमाः ॥ ३० ॥

तैस्तु सञ्छादिते व्योम्नि तेषु गर्ज्जत्सु शङ्करः ।
पश्यन् दाक्षायणीं देवीं भृशं कामेन मोहितः ॥ ३१ ॥

मोहितोऽप्यथ कामेन तदा विष्णुवचः स्मरन् ।
इयेष हन्तुं ब्रह्माणं शूलमुद्यम्य सङ्करः ॥ ३२ ॥

शम्भुनोद्यमिते शूले विधिं हन्तुं द्विजोत्तमाः ।
मरीचिनारदाद्यास्ते चक्रुर्हाहाकृतिं तदा ॥ ३३ ॥

दक्षो मैवं मैवमिति पाणिमुद्यम्य शङ्कितः ।
वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ॥ ३४ ॥

अथाग्रे मीलितं वीक्ष्य तदा दक्षं महेश्वरः ।
प्रत्युवाचाप्रियमिदं स्मारयन् वैष्णवीं गिरम् ॥ ३५ ॥

ईश्वर उवाच
नारायणेन विप्रेन्द्र यदिदानीमुदीरितम् ।
मयाप्यङ्गीकृतं कर्तुं तदिहैव प्रजापते ॥ ३६ ॥

एनां यः साभिलाषः सन् वीक्षते तं हनिष्यसि ।
इति वाचन्तु सफलमेनं हत्वा करोम्यहम् ॥ ३७ ॥

साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ।
अभवत्त्यक्ततेजास्तु ततो हन्मि कृतागसम् ॥ ३८ ॥
मूलम्
साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ।
अभवत्त्यक्ततेजास्तु ततो हन्मि कृतागसम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
तमेवं वादिनं विष्णुः क्षिप्रं भूत्वा पुरःसरः ।
इदमूचे वारयंस्तं हन्तुं सर्वजगत्प्रभुः ॥ ३९ ॥

श्रीभगवानुवाच
न हनिष्यसि भूतेश स्रष्ट्रारं जगतां वरम् ।
अनेनैव सती भार्या भवदर्थे प्रकल्पिता ॥ ४० ॥

प्रजाः स्रष्टुमयं शम्भो प्रादुर्भूतश्चतुर्मुखः ।
अस्मिन् हते जगत्स्रष्टा नास्त्यन्यः प्राकृतोऽधुना ॥ ४१ ॥

सृष्टिस्थित्यन्तकर्माणि करिष्यामः कथं पुनः ।
अनेनापि मया चैव भवता च समञ्जसम् ॥ ४२ ॥

एकस्मिन्निहतेऽमीषु कस्तत्कर्म करिष्यति ।
तस्मान्न वध्यो भवता विधाता वृषभध्वज ॥ ४३ ॥

प्रतिज्ञां पूरयिष्यामि हत्वैनं चतुराननम् ।
अहमेव प्रजाः स्रक्ष्ये स्थावराणि चराणि च ॥ ४४ ॥

अन्यं स्रक्ष्ये विधातारमथवाहं स्वतेजसा ।
स एव सृष्टिकर्ता स्यात् सर्वदा मदनुज्ञया ॥ ४५ ॥

हत्वैनं विधिमेवाहं प्रतिज्ञां पालयन् विधो ।
स्रष्टारमेकं स्रक्ष्यामि न वारय चतुर्भुज ॥ ४६ ॥
मूलम्
हत्वैनं विधिमेवाहं प्रतिज्ञां पालयन् विधो ।
स्रष्टारमेकं स्रक्ष्यामि न वारय चतुर्भुज ॥ ४६ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति तस्य वचः श्रुत्वा गिरिशस्य चतुर्भुजः ।
स्मितप्रसन्नवदनः पुनर्मैवमितीरयन् ॥ ४७ ॥

प्रतिज्ञापूरणं कर्तुं योग्यमात्मनि नो भवेत् ।
इत्युवाचाभिवदनमीश्वरस्य द्विजोत्तमाः ॥ ४८ ॥

ततः पुनः शम्भुरूपे कथमात्मा विधिर्मम ।
लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ॥ ४९ ॥

अथ प्रहस्य भगवान् मुनीनां पुरतस्तदा ।
इदमूचे महादेवं तोषयन् गरुडध्वजः ॥ ५० ॥
मूलम्
अथ प्रहस्य भगवान् मुनीनां पुरतस्तदा ।
इदमूचे महादेवं तोषयन् गरुडध्वजः ॥ ५० ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
ब्रह्मा भवतो भिन्नो न शम्भुर्ब्रह्मणस्तथा ।
न चाहं युवयोर्भिन्नोऽभिन्नत्वं सदातनम् ॥ ५१ ॥

प्रधानस्याप्रधानस्य भागाभागस्वरूपिणः ।
ज्योतिर्मयस्य भागो मे युवामेकोऽहमंशकः ॥ ५२ ॥

कस्त्वं कोऽहञ्च को ब्रह्मा ममैव परमात्मनः ।
अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम् ॥ ५३ ॥

चिन्तयस्वात्मनात्मानं संस्तवं कुरु चात्मनि ।
एकत्रं ब्रह्मवैकुण्ठशम्भूनां हृद्गतं कुरु ॥ ५४ ॥

शिरोग्रीवाभेदेन यथैकस्यैव धर्मिणः ।
अङ्गानि मे तथैकस्य भागत्रयमिदं हर ॥ ५५ ॥

यज्ज्योतिरग्र्यं स्वपरप्रकाशं कूटस्थमव्यक्तमनन्तरूपम् ।
नित्यञ्च दीर्घादिविशेषणाद्यैर्हीनं परं तच्च वयं न भिन्नाः ॥ ५६ ॥

एतच्छ्रुत्वा वचतस्य महादेवो विमोहितः ।
जानन् स चाप्यभिन्नत्वं सद्विस्मृत्यान्यचिन्तनात् ॥ ५७ ॥

पुनः प्रपच्छ गोविन्दमनन्यत्वं त्रिभेदिनाम् ।
ब्रह्मविष्णुत्र्यम्बकानामेकस्य च विशेषकम् ॥ ५८ ॥

ततो नारायणः पृष्टः कथयामास शम्भवे ।
अनन्यत्वं त्रिदेवानामेकत्वञ्च व्यदर्शयत् ॥ ५९ ॥

श्रुत्वा ततो विष्णुमुखाब्जकोशादनन्यतां विष्णुविधीशतत्त्वे ।
दृष्ट्वा स्वरूपं च जघान नैनं विधिं मृडः पुष्पमधुप्रकाशकम् ॥ ६० ॥

इति श्रीकालिकापुराणे त्रिदेवानामेकत्वप्रतिपादकः एकादशोऽध्यायः ॥ ११ ॥