१०

विश्वास-प्रस्तुतिः

दशमोऽध्यायः

मार्कण्डेय उवाच

अथ सत्या पुनः शुक्लपक्षेऽष्टम्यामुपोषितम् ।
आश्विने मासि देवेशं पूजयामास भक्तितः ॥ १ ॥

मूलम्

इति नन्दाव्रते पूर्णे नवम्यां दिनभागतः ।
तस्यास्तु भक्तिनम्रायाः प्रत्यक्षमभवद्धरः ॥ २ ॥

प्रत्यक्षतो हरं वीक्ष्य सामोदहृदया सती ।
ववन्दे चरणौ तस्य लज्जयावनता नता ॥ ३ ॥

अथ प्राह महादेवः सतीं तद् व्रतधारिणीम् । तामिच्छन्नपि भार्यार्थे
तस्याश्चर्यफलप्रदः ॥ ४ ॥

ईश्वर उवाच

अनेन त्वद्व्रतेनाहं प्रीतोऽस्मि दक्षनन्दिनि ।
वरं वरय दास्यामि यस्तवाभिमतो भवेत् ॥ ५ ॥

मूलम्

ईश्वर उवाच

अनेन त्वद्व्रतेनाहं प्रीतोऽस्मि दक्षनन्दिनि ।
वरं वरय दास्यामि यस्तवाभिमतो भवेत् ॥ ५ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

जानन्नपीह तद्भावं महादेवो जगत्पतिः ।
ऊचेऽथ वरयस्वेति तद्वाक्यश्रवणेच्छया ॥ ६ ॥

सापि त्रपासमाविष्टा नो वक्तुं हृदये स्थितम् ।
शशाक बालाभीष्टं यल्लज्जयाच्छादितं यतः ॥ ७ ॥

एतस्मिन्नन्तरे कामः साभिप्रायं हरं तदा ।
वामापरिग्रहे नेत्रवक्त्रव्यापारलिङ्गितम् ॥ ८ ॥

सम्प्राप्य विवरञ्चापं सन्दधे पुष्पहेतिना ।
हर्षणेनाथ बाणेन विव्याध हृदये हरम् ॥ ९ ॥

ततोऽसौ हर्षितः शम्भुर्वीक्षाञ्चक्रे सतीं मुहुः ।
विस्मृत्य च परं ब्रह्मचिन्तनं परमेश्वरः ॥ १० ॥

ततः पुनर्मोहनेन बाणेनैनं मनोभवः ।
विव्याध हर्षितः शम्भुर्मोहितश्च तदा भृशम् ॥ ११ ॥

ततो यदासौ मोहस्य हर्षस्य च द्विजोत्तमाः ।
भावं व्यक्तीचकारैष माययापि विमोहितः ॥ १२ ॥

अथ त्रपां स्वां संस्तभ्य यदा प्राह हरं सती ।
ममेष्टं देहि वरद वरमित्यर्थकारकम् ॥ १३ ॥

तदा वाक्यस्यावसानमनपेक्ष्य वृषध्वजः ।
भवस्व मम भार्येति प्राह दाक्षायणीं मुहुः ॥ १४ ॥

एतच्छ्रुत्वा वचस्तस्य साभीष्टफलभावनम् ।
तूष्णीं तस्थौ प्रमुदिता वरं प्राप्य मनोगतम् ॥ १५ ॥

सकामस्य हरस्याग्रे तत्र सा चारुहासिनी ।
अकरोन्निजभावांश्च हावानपि द्विजोत्तमाः ॥ १६ ॥

स्वस्य भावान् समादाय शृङ्गाराख्यो रसस्तदा ।
तयोर्विवेश विप्रेन्द्राः कलहो वा यथोचितम् ॥ १७ ॥

हरस्य पुरतो रेजे स्निग्धभिन्नाञ्जनप्रभा ।
चन्द्राभ्यासेऽङ्कलेखेव स्फटिकोज्ज्वलवर्ष्मणः ॥ १८ ॥

अथ सा तमुवाचेदं हरं दाक्षायणी मुहुः ।
पितुर्मे गोचरीकृत्य मां गृह्णीष्व जगत्पते ॥ १९ ॥

एवं स्मितं वचो देवी यदोवाच सती तदा ।
मम भार्या भवेत्यूचे पुनः कामेन मोहितः ॥ २० ॥

अथैतद्वीक्ष्य मदनः सरतिः ससखो मुदा ।
युक्तो बभूव शश्वच्च आत्मानञ्चाभ्यनन्दयन् ॥ २१ ॥

अथ दाक्षायणी शम्भु समाश्वास्य द्विजोत्तमाः ।
जगाम मातुरभ्यासं हर्षमोहसमन्विता ॥ २२ ॥

हरोऽपि हिमवत्प्रस्थं प्रविश्य च निजाश्रमम् ।
दाक्षायणी विप्रलम्भदुःखाद् ध्यानपरोऽभवत् ॥ २३ ॥

विप्रलब्धोऽपि भूतेशो ब्रह्मवाक्यमथास्मरत् ।
जायापरिग्रहस्यार्थे यदुक्तं पद्मयोनिना ॥ २४ ॥

स्मृत्यैव ब्रह्मवाक्यस्य पुरा विश्वासतः परम् ।
चिन्तयामास मनसा ब्रह्माणं वृषभध्वजः ॥ २५ ॥

अथ सञ्चिन्त्यमानोऽसौ परमेष्ठी त्रिशूलिनः ।
पुरस्तात् प्राविशत्तूर्णमिष्टसिद्धिप्रचोदितः ॥ २६ ॥

यत्रायं हिमवत्प्रस्थे विप्रलब्धो हरः स्थितः ।
सावित्री सहितो ब्रह्मा तत्रैव समुपस्थितः ॥ २७ ॥

अथ तं वीक्ष्य धातारं सावित्रीसहितं हरः ।
सोत्सुको विप्रलब्धश्च सत्यर्थे तमुवाच ह ॥ २८ ॥

ब्रह्मन् विश्वार्थतो दारपरिग्रहकृतौ च यत् ।
त्वमात्थ तत्सार्थमिव प्रतिभाति ममाधुना ॥ २९ ॥

अहमाराधितो भक्त्या दाक्षायण्यातिभक्तितः ।
तस्या वरमहं दातुं यदायातः प्रपुजितः ॥ ३० ॥

तत्सकाशे तदा कामो मां विव्याध महेषुभिः ।
मायया मोहितश्चाहं तत्प्रतीकारमञ्जसा ।
न शक्तः कर्तुमभितः पुराहं कमलासन ॥ ३१ ॥

तस्याश्च वाञ्छितं ब्रह्मन्नेतदेव मयेक्षितम् ।
यदहं स्यां विभो भर्ता व्रतभक्तिमुदायुतः ॥ ३२ ॥

तस्मात्त्वं कुरु विश्वार्थे मदर्थे च प्रजापते ।
दक्षो यथा मामामन्त्र्य सुतां दाता तथा द्रुतम् ॥ ३३ ॥

गच्छ त्वं दक्षभवनं कथयस्व वचो मम ।
यथा सतीवियोगस्य भङ्गः स्यात् त्वं तथा कुरु ॥ ३४ ॥

मूलम्

गच्छ त्वं दक्षभवनं कथयस्व वचो मम ।
यथा सतीवियोगस्य भङ्गः स्यात् त्वं तथा कुरु ॥ ३४ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इत्युदीर्य महादेवः सकाशेऽस्य प्रजापतेः ।
सावित्रीं वीक्ष्य सत्यास्तु विप्रयोगो व्यवर्द्धत ॥ ३५ ॥

तं समाभाष्य लोकेशः कृतकृत्यो मुदान्वितः ।
इदं जगाद जगतां हितं पथ्यं च धूर्ज्जटेः ॥ ३६ ॥

ब्रह्मोवाच

यदात्थ भगवञ्छम्भो तद्विश्वार्थं सुनिश्चितम् ।
नास्त्येव भवतः स्वार्थो ममापि वृषभध्वज ॥ ३७ ॥

सुताञ्च तुभ्यं दक्षस्तु स्वयमेव प्रदास्यति ।
अहञ्चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः ॥ ३८ ॥

मूलम्

सुताञ्च तुभ्यं दक्षस्तु स्वयमेव प्रदास्यति ।
अहञ्चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इत्युदीर्य महादेवं ब्रह्मा लोकपितामहः ।
जगाम दक्षनिलयं स्यन्दनेनातिवेगिना ॥ ३९ ॥

अथ दक्षोऽपि वृत्तान्तं सर्वं श्रुत्वा सतीमुखात् ।
चिन्तयामास देवेयं मत्सुता शम्भवे कथम् ॥ ४० ॥

आगतोऽपि महादेवः प्रसन्नः सञ्जगाम ह ।
पुनरेव कथं सोऽपि सुतार्थेऽत्यर्थमीप्सितः ॥ ४१ ॥

प्रस्थाप्यो वा मया तस्य दूतो निकटमञ्जसा ।
नैतद्योग्यं न गृह्णीयाद् यद्येनां विभुरात्मने ॥ ४२ ॥

अथवा पूजयिष्यामि तमेव वृषभध्वजम् ।
मदीयतनयाभर्ता स्वयमेव यथा भवेत् ॥ ४३ ॥

मूलम्

अथवा पूजयिष्यामि तमेव वृषभध्वजम् ।
मदीयतनयाभर्ता स्वयमेव यथा भवेत् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

तथैव पूजितः सोऽपि वाञ्छन्त्यातिप्रयत्नतः ।
शम्भुर्भवतु मद्भर्तेत्येवं दत्तञ्च तेन तत् ॥ ४४ ॥

इति चिन्तयतस्तस्य दक्षस्य पुरतो विधिः ।
उपस्थितो हंसरथः सावित्रीसहितस्तदा ॥ ४५ ॥

तं दृष्ट्वा वेधसं दक्षः प्रणम्यावनतः स्थितः ।
आसनञ्च ददौ तस्मै समाभाष्य यथोचितम् ॥ ४६ ॥

ततस्तं सर्वलोकेशं तत्रागमनकारणम् ।
दक्षः पप्रच्छ विप्रेन्द्राश्चिन्ताविष्टोऽपि हर्षितः ॥ ४७ ॥

दक्ष उवाच

तवात्रागमने हेतुं कथयस्व जगद्गुरो ।
पुत्रस्नेहात् कार्यवशादथवाश्रममागतः ॥ ४८ ॥

मूलम्

दक्ष उवाच

तवात्रागमने हेतुं कथयस्व जगद्गुरो ।
पुत्रस्नेहात् कार्यवशादथवाश्रममागतः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इति पृष्टः सुरश्रेष्ठो दक्षेण सुमहात्मना ।
प्रहसन्नव्रवीद्वाक्यं मोदयंस्तं प्रजापतिम् ॥ ४९ ॥

मूलम्

मार्कण्डेय उवाच

इति पृष्टः सुरश्रेष्ठो दक्षेण सुमहात्मना ।
प्रहसन्नव्रवीद्वाक्यं मोदयंस्तं प्रजापतिम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच

शृणु दक्ष यदर्थं ते समीपमहमागतः ।
तल्लोकस्य हितं पथ्यं भवतोऽपि तदीप्सितम् ॥ ५० ॥

तव पुत्र्या समाराध्य महादेवं जगत्पतिम् ।
यो वरः प्रार्थितः सोऽद्य स्वयमेवागतो गृहम् ॥ ५१ ॥

शम्भुना तव पुत्र्यर्थे त्वत्सकाशमहं पुनः ।
प्रस्थापितोऽस्मि यत् कृत्यं श्रेयस्तदवधारय ॥ ५२ ॥

वरं दातुं यदायातस्तावत्प्रभृति शङ्करः ।
तत्सुताविप्रयोगेण न शर्म लभतेऽञ्जसा ॥ ५३ ॥

लब्धच्छिद्रोऽपि मदनो निचखान तदा भृशम् ।
सर्वैः पुष्पकरैर्बाणैरेकदैव जगत्प्रभुम् ॥ ५४ ॥

स बाणविद्धः कामेन परित्यज्यात्मचिन्तनम् ।
सतीं विचिन्तयन्नास्ते व्याकुलः प्राकृतो यथा ॥ ५५ ॥

विस्मृत्य प्रस्तुतां वाणीं गणाग्रे विप्रयोगतः ।
क्व सतीत्येव गिरिशो भाषतेऽन्यकृतावपि ॥ ५६ ॥

मया यद्वाञ्छितं पूर्वं त्वया च मदनेन च ।
मरीच्याद्यैर्मुनिवरैस्तत् सिद्धमधुना सुत ॥ ५७ ॥

त्वत्पुत्र्याराधितः शम्भुः सोऽपि तस्या विचिन्तनाम् ।
अनुमोदयितुं प्रेप्सुर्वर्तते हिमवद्गिरौ ॥ ५८ ॥

यथा नानाविधैर्भावैः सत्या नन्दाव्रतेन च ।
शम्भुराराधितस्तेन तथैवाराध्यते सती ॥ ५९ ॥

तस्मात्त्वं दक्ष तनयां शम्भ्वर्थे परिकल्पिताम् ।
तस्मै देह्यविलम्बेन तेन ते कृतकृत्यता ॥ ६० ॥

अहं तमानयिष्यामि नारदेन त्वदालयम् ।
तस्मै त्वमेनां संयच्छ यदर्थे परिकल्पिताम् ॥ ६१ ॥

मूलम्

अहं तमानयिष्यामि नारदेन त्वदालयम् ।
तस्मै त्वमेनां संयच्छ यदर्थे परिकल्पिताम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

एवमेवेति दक्षस्तमुवाच परमेष्ठिनम् ।
विधिश्च गतवांस्तत्र गिरिशो यत्र संस्थितः ॥ ६२ ॥

गते ब्रह्मणि दक्षोऽपि सदारतनयो मुदा ।
अभवत् पूर्णदेहस्तु पीयूषैरिव पूरितः ॥ ६३ ॥

अथ ब्रह्मापि मोदेन प्रसन्नः कमलासनः ।
आससाद महादेवं हिमवद्गिरिसंस्थितम् ॥ ६४ ॥

तं वीक्ष्य लोकस्रष्टारमायान्तं वृषभध्वजः ।
मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः ॥ ६५ ॥

अथ दूरान्महादेवो लोकेशं सामसंयुतम् ।
उवाच मदनोन्माथः विधिं स स्मरमानसः ॥ ६६ ॥

किमवोचत् सुरश्रेष्ठ सत्यर्थे त्वत्सुतः स्वयम् ।
कथयस्व यथा स्वान्तं मन्मथेन न दीर्यते ॥ ६७ ॥

बाधमानो विप्रयोगो मामेव च सतीमृते ।
अभिहन्ति सुरश्रेष्ठ त्यक्त्वान्यान् प्राणधारिणः ॥ ६८ ॥

सतीति सततं वेद्मि ब्रह्मन् कार्यान्तरेऽप्यहम् ।
सा यथा हि मया प्राप्या तद्विधत्स्व तथा द्रुतम् ॥ ६९ ॥

सत्यर्थे यन्ममसुतो वदति स्म वृषध्वज ।
तच्छृणुष्व निजं साध्यं सिद्धमित्यवधारय ॥ ७० ॥

देया तस्मै मया पुत्री तदर्थे परिकल्पिता ।
ममापीष्टमिदं कर्म त्वद्वाक्यादधिकं पुनः ॥ ७१ ॥

मत्पुत्त्र्याराधितः शम्भुरेतदर्थे स्वयं पुनः ।
सोऽप्यन्विच्छति तां यस्मात्तस्माद्देया मया हरे ॥ ७२ ॥

शुभे लग्ने मुहूर्ते च समागच्छतुमेऽन्तिकम् ।
तदा दास्यामि तनयां भिक्षार्थे शम्भवे विधे ॥ ७३ ॥

इत्यवोचन्मुदा दक्षस्तस्मात्त्वं वृषभध्वज ।
शुभे मुहूर्ते तद्वेश्म गच्छ तामनुयाचितुम् ॥ ७४ ॥

गमिष्ये भवता सार्धं नारदेन महात्मना ।
द्रुतमेव जगत्पूज्य तस्मात्त्वन्नारदं स्मर ॥ ७५ ॥

मरीच्यादीन् दश तथा मानसानपि संस्मर ।
तैः सार्द्धं दक्षनिलयं गमिष्येऽहं गणैः सह ॥ ७६ ॥

ततः स्मृतास्ते कमलासनेन सनारदा ब्रह्मसुता मनोजवाः ।
समागता यत्र हरो विधिश्च तत्रागताः काममवेत्य चिन्ताम् ॥ ७७ ॥

इति श्रीकालिकापुराणे सतीवाचने दशमोऽध्यायः ॥ १० ॥