०९

विश्वास-प्रस्तुतिः

नवमोऽध्यायः

मार्कण्डेय उवाच

बाल्यं व्यतीत्य सा प्राप यौवनं शोभनं ततः ।
अतीव रूपेणाङ्गेन सर्वाङ्गसुमनोहरा ॥ १ ॥

मूलम्

तां वीक्ष्यदक्षो लोकेशः प्रोद्भिन्नान्तर्वयः स्थिताम् ।
चिन्तयामास भर्गाय कथं दास्य इमां सुताम् ॥ २ ॥

अथ सापि स्वयं भर्ग प्राप्तुमैच्छत्तदान्वहम् ।
आराधयामास च तं गृहे मातुरनुज्ञया ॥ ३ ॥

आश्विने नन्दकाख्यायां लवणैः सगुडोदनैः ।
पूजयित्वा हरं पश्चाद्ववन्दे सा निनाय तत् ॥ ४ ॥

कार्त्तिकस्य चतुर्दश्यां सापूपैः पायसैर्हरम् ।
समाकीर्णैः समाराध्य सस्मार परमेश्वरम् ॥ ५ ॥

कृष्णाष्टम्यां मार्गशीर्षे सतिलैः सयवोदनैः ।
पूजयित्वा हरं नीलैर्निनाय दिवसं पुनः ॥ ६ ॥

पौषे तु कृष्णसप्तम्यां कृत्वा जागरणं निशि ।
अपूजयच्छिवं प्रातः कृसरान्नेन सा सती ॥ ७ ॥

माघस्य पौर्णमास्यान्तु कृत्वा जागरणं निशि ।
आर्द्रवस्त्रा नदीतीरे ह्यकरोद्धरपूजनम् ॥ ८ ॥

नानाविधैः फलैः पुष्पैः सम्यक् तत्कालसम्भवैः ।
चकार नियताहारं तं मासं हरमानसा ॥ ९ ॥

चतुर्दश्यां कृष्णपक्षे तपस्यस्य विशेषतः ।
कृत्वा जागरणं देवं बिल्वपत्रैरपूजयत् ॥ १० ॥

चैत्रे शुक्लचतुर्दश्यां पालाशैः कुसुमैः शिवम् ।
आपूजयद्दिवारात्रौ तं स्मरन्ती निनाय तम् ॥ ११ ॥

वैशाखस्य तृतीयायां शुक्लायां सयवोदनैः ।
पूजयित्वा हरं देवं हव्यैर्मासं चरन्त्यनु ।
निनाय सा निराहारा स्मरन्ती वृषवाहनम् ॥ १२ ॥

ज्येष्ठस्य पूर्णिमारात्रौ सम्पूज्य वृषवाहनम् ।
वसनैर्वृहतीपुष्पैर्निराहारा निनाय ताम् ॥ १३ ॥

आषाढस्य चतुर्दश्यां शुक्लायां कृत्तिवाससः ।
वृहतीकुसुमैः पूजा देवस्याकारि वै तया ॥ १४ ॥

श्रावणस्य सिताष्टम्यां चतुर्दश्याञ्च सा शिवम् ।
यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ॥ १५ ॥

भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः ।
सम्पूज्याथ चतुर्दश्यां चकार जलभोजनम् ॥ १६ ॥

इति व्रतं यदारब्धं पुरा सत्या तदैव तु ।
सावित्रीसहितो ब्रह्मा जगामाथ हरान्तिकम् ॥ १७ ॥

वासुदेवोऽपि भगवान् सह लक्ष्म्या तदन्तिकम् ।
प्रस्थं हिमवतः शम्भुः स्थितो यत्र गणैः सह ॥ १८ ॥

तौ तु दृष्ट्वा ब्रह्मकृष्णौ सस्त्रीकौ सङ्गतौ हरः ।
यथोचितं समाभाष्य पप्रच्छागमनं तयोः ॥ १९ ॥

तथाविधांस्तु तान् दृष्ट्वा दाम्पत्यभावसंयुतान् ।
काञ्चिदीहाञ्च मनसा चक्रे दारपरिग्रहे ॥ २० ॥

अथागमनहेतुं न कथयध्वञ्च तत्त्वतः ।
किमर्थमागता यूयं किं कार्यं वोऽत्र विद्यते ॥ २१ ॥

इति पृष्टौ त्र्यम्बकेन ब्रह्मा लोकपितामहः ।
उवाच च महादेवं विष्णुना परिचोदितः ॥ २२ ॥

ब्रह्मोवाच

अयदर्थमागतवावां तच्छृणुस्व त्रिलोचन ।
विशेषतश्च देवार्थं विश्वार्थञ्च वृषध्वज ॥ २३ ॥

अहं सृष्टिरतः शम्भो स्थितिहेतुस्तथा हरिः ।
अन्तहेतुर्भवानस्य जगतः प्रतिसर्गकम् ॥ २४ ॥

तत्कर्मणि स दैवाहं भवद्भ्यां सहितो ह्यलम् ।
हरिः स्थितावपि तथा मयालं भवता सह ।
त्वमन्तकरणे शक्तो विना नावां भविष्यसि ॥ २५ ॥

तस्मादन्योन्यकृत्येषु सर्वेषां वृषभध्वज ।
साहाय्यं नः सदा योग्यमन्यथा न जगद्भवेत् ॥ २६ ॥

केचिद्भविष्यन्त्यसुरा मम वध्या महेश्वर ।
अपरे तु हरेर्वध्या भवतोऽपि तथापरे ॥ २७ ॥

केचित्तद्वीर्यजातस्य केचिन्मेऽशम्भवस्य वै ।
मायायाः केचिदपरे वध्याः स्युर्देववैरिणः ॥ २८ ॥

योगयुक्ते त्वयि सदा रागद्वेषादिवर्जिते ।
दयामात्रैकैरते न वध्या असुरास्तव ॥ २९ ॥

अबाधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः ।
अन्तश्च भविता युक्तं नित्यं नित्यं वृषध्वज ॥ ३० ॥

सृष्टिस्थित्यन्तकर्माणि न कार्याणि यदा हर ।
शरीरभेदमस्माकं मायायाश्च न युज्यते ॥ ३१ ॥

एकस्वरूपा हि वयं भिन्ना कार्यस्य भेदतः ।
कार्यभेदो न सिद्धश्चेद्रूपभेदोऽप्रयोजनः ॥ ६२ ॥

एक एव त्रिधा भूत्वा वयं भिन्नस्वरूपिणः ।
भूता महेश्वर इति तत्त्वं विद्धि सनातनम् ॥ ३३ ॥

मायापि भिन्नरूपेण कमलाख्या सरस्वती ।
सावित्री चाथ सन्ध्या च भूता कार्यस्य भेदतः ॥ ३४ ॥

प्रवृत्तेरनुरागस्य नारी मूलं महेश्वर ।
रामापरिग्रहात् पश्चात् कामक्रोधादिकोद्भवः ॥ ३५ ॥

अनुरागे तु सञ्जाते कामक्रोधादिकारणे ।
विरागहेतुं यत्नेन सान्त्वयन्तीह जन्तवः ॥ ३६ ॥

सङ्गः प्रथम एव स्याद्रागवृक्षात् फलं महत् ।
तस्मात् सञ्जायते कामः कामात् क्रोधस्ततो भवेत् ॥ ३७ ॥

वैराग्यञ्च निवृत्तिश्च शोकात् स्वाभाविकादपि ।
संसारविमुखे हेतुरसङ्गश्च सदातनः ॥ ३८ ॥

दया तत्र भवेन्नित्यं शान्तिश्चापि महेश्वर ।
अहिंसा च तपःशान्तिर्ज्ञानमार्गानुसाधनम् ॥ ३९ ॥

त्वयि तावत्तपोनिष्ठे विसङ्गिनि दयायुते ।
अहिंसा च तथा शान्तिः सदा तव भविष्यति ॥ ४० ॥

ततो सुखविधौ यत्नस्तव कस्माद्भविष्यति ।
अकृते दूषणं यद्यत्तत् सर्वं कथितं तव ॥ ४१ ॥

तस्माद्विश्वहिताय त्वं देवानाञ्च जगत्पते ।
परिगृह्णीष्व भार्यार्थे वामामेकां सुशोभनाम् ॥ ४२ ॥

यथा पद्मालया विष्णोः सावित्री च यथा मम ।
तथा सहचरी शम्भोर्या स्यात्त्वं गृह्ण सम्प्रति ॥ ४३ ॥

मूलम्

यथा पद्मालया विष्णोः सावित्री च यथा मम ।
तथा सहचरी शम्भोर्या स्यात्त्वं गृह्ण सम्प्रति ॥ ४३ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इति श्रुत्वा वचस्तस्य ब्रह्मणः पुरतो हरेः ।
तदा जगाद लोकेशं स्मितार्द्दितमुखो हरः ॥ ४४ ॥

ईश्वर उवाच

एवमेव यथात्थ त्वं ब्रह्मन् विश्वनिमित्ततः ।
न स्वार्थतः प्रवृत्तिर्मे सम्यग् ब्रह्मविचिन्तनात् ॥ ४५ ॥

तथापि यत्करिष्यामि तत्ते वक्ष्ये जगद्धितम् ।
तच्छृणुष्व महाभाग युक्तमेव वचो मम ॥ ४६ ॥

या मे तेज समर्था स्याद्ग्रहीतुमिह भागशः ।
तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् ॥ ४७ ॥

योगयुक्ते मयि तथा योगिन्येव भविष्यति ।
कामासक्ते मयि पुनर्मोहिन्येव भविष्यति ।
तां मे निदेशय ब्रह्मन् भार्यार्थे वरवर्णिनीम् ॥ ४८ ॥

यदक्षरं वेदविदो निगदन्ति मनीषिणः ।
ज्योतिःस्वरूपं परमं चिन्तयिष्ये सनातनम् ॥ ४९ ॥

तच्चिन्तायां सदा शक्तो ब्रह्मन् गच्छामि भावनाम् ।
तत्र या विघ्नजननी न भवित्रीह सास्तु मे ॥ ५० ॥

त्वं वा विष्णुरहं वापि परब्रह्मस्वरूपिणः ।
अङ्गभूता महाभाग योग्यं तदनुचिन्तनम् ॥ ५१ ॥

तच्चिन्तया विना नाहं स्थास्यामि कमलासन ।
तस्माज्जायां प्रादिशस्व मत्कर्मानुगतां सदा ॥ ५२ ॥

मूलम्

तच्चिन्तया विना नाहं स्थास्यामि कमलासन ।
तस्माज्जायां प्रादिशस्व मत्कर्मानुगतां सदा ॥ ५२ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा ब्रह्मा सर्वजगत्पतिः ।
सस्मितं मोदित मना इदं वचनमब्रवीत् ॥ ५३ ॥

मूलम्

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा ब्रह्मा सर्वजगत्पतिः ।
सस्मितं मोदित मना इदं वचनमब्रवीत् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच

अस्तीदृशी महादेव मार्गिता यादृशी त्वया ॥ ५४ ॥

दक्षस्य तनया याभूत् सतीनाम्नी सुशोभना ।
सैवेदृशी भवद्भार्या भविष्यति सुधीमती ॥ ५५ ॥

तां त्वदर्थे तपस्यन्ती तत्प्राप्तिं प्रतिकामिनीम् ।
विद्धि त्वं देवदेवेश सर्वेष्वात्मसु वर्तसे ॥ ५६ ॥

मूलम्

तां त्वदर्थे तपस्यन्ती तत्प्राप्तिं प्रतिकामिनीम् ।
विद्धि त्वं देवदेवेश सर्वेष्वात्मसु वर्तसे ॥ ५६ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

अथ ब्रह्मवचः शेषे भगवान् मधुसूदनः ।
यदुक्तं ब्रह्मणा सर्वं तत् कुरुष्वेत्युवाच सः ॥ ५७ ॥

करिष्य इति तेनोक्ते स्वेष्टं देशं प्रजग्मतुः ।
हरिर्ब्रह्मा च मुदितौ सावित्रीकमलायुतौ ॥ ५८ ॥

कामोऽपि वाक्यानि हरस्य श्रुत्वा चामोदयुक्तो रतिना समित्रः ।
शम्भुं समासाद्य विविक्तरूपी तस्थौ वसन्तं विनियोज्य शश्वत् ॥ ५९ ॥

इति श्रीकालिकापुराणे हरानुनयने नवमोऽध्यायः