०८

विश्वास-प्रस्तुतिः

अष्टमोऽध्यायः

मार्कण्ण्देय उवाच

ततो ब्रह्मापि मदनमुवाचेदं वचः पुनः ।
निश्चित्य योगनिद्रायाः स्मृत्वा वाक्यं तपोधनाः ॥ १ ॥

मूलम्

ब्रह्मोवाच

अवश्यं शम्भुपत्नी सा योगनिद्रा भविष्यति ।
यथाशक्ति भवांस्तत्र करोत्वस्याः सहायताम् ॥ २ ॥

गच्छ त्वं स्वगणैः सार्द्धं यत्र तिष्ठति शङ्करः ।
द्रुतं मनोभव त्वं च तत् स्थानं मधुना सह ॥ ६ ॥

रात्रिन्दिवस्य तुर्यांशं जगन्मोहय नित्यशः ।
भागत्रयं शम्भुपार्श्वे तिष्ठ सार्द्धं गणैः सदा ॥ ४ ॥

मार्कण्डेय उवाच

इत्युक्त्वा सर्वलोकेशस्तत्रैवान्तरधीयत ।
शम्भोः सकाशं मदनो गतवान् सगणस्तदा ॥ ५ ॥

एतस्मिन्नन्तरे दक्षश्चिरं कालं तपोरतः ।
नियमैर्बहुभिर्देवीमाराधयत सुव्रतः ॥ ६ ॥

मूलम्

एतस्मिन्नन्तरे दक्षश्चिरं कालं तपोरतः ।
नियमैर्बहुभिर्देवीमाराधयत सुव्रतः ॥ ६ ॥

विश्वास-प्रस्तुतिः

ततो नियमयुक्तस्य दक्षस्य मुनिसत्तमः ।
योगनिद्रां पूजयतः प्रत्यक्षमभवच्छिवा ॥ ७ ॥

ततः प्रत्यक्षतो दृष्ट्वा विष्णुमायां जगन्मयीम् ।
कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः ॥ ८ ॥

सिंहस्थां कालिकां कृष्णां पीनोत्तुङ्गपयोधराम् ।
चतुर्भुजां चारुवक्त्रां नीलोत्पलधरां शुभाम् ॥ ९ ॥

वरदाभयदां खड्गहस्तां सर्वगुणान्विताम् ।
आरक्तनयनां चारुमुक्तकेशी मनोहराम् ॥ १० ॥

दृष्ट्वा दक्षोऽथ तुष्टाव महामायां प्रजापतिः ।
प्रीत्या परमया युक्तो विनयानतकन्धरः ॥ ११ ॥

दक्ष उवाच

आनन्दरूपिणीं देवीं जगदानन्दकारिणीम् ।
सृष्टिस्थित्यन्तरूपां तां स्तौमि लक्ष्मीं हरेः शुभाम् ॥ १२ ॥

सत्त्वोद्रेकप्रकाशेन यज्ज्योतिस्तत्त्वमुत्तमम् ।
स्वप्रकाशं जगद्धाम तत्तवांशं महेश्वरि ॥ १३ ॥

रजोगुणातिरेकेण यत् कामस्य प्रकाशनम् ।
रागस्वरूपं मध्यस्थं तत्तेऽंशांशं जगन्मयि ॥ १४ ॥

तमोगुणातिरेकेण यद्यन्मोहप्रकाशनम् ।
आच्छादनं चेतनानां तत्ते चांशांशगोचरम् ॥ १५ ॥

परा परात्मिका शुद्धा निर्मला लोकमोहिनी ।
त्वं त्रिरूपा त्रयी कीर्तिर्वार्त्तास्य जगतो गतिः ॥ १६ ॥

बिभर्ति माधवो धात्रीं यथा मूर्त्त्या निजोत्थया ।
सा मूर्त्तिस्तव सर्वेषां जगतामुपकारिणी ॥ १७ ॥

महानुभावा त्वं विश्वशक्तिः सूक्ष्मापराजिता ।
यदूर्ध्वाधोनिरोधेन व्यज्यते पवनैः परम् ॥ १८ ॥

तज्ज्योतिस्तव मात्रार्थे सात्त्विकं भावसम्मतम् ।
यद्योगिनो निरालम्बं निष्फलं निर्मलं परम् ॥ १९ ॥

आलम्बयन्ति तत्तत्त्वं त्वदन्तर्गोचरन्तु तत् ।
या प्रसिद्धा च कूटस्था सुप्रसिद्धातिनिर्मला ॥ २० ॥

सा ज्ञप्तिस्त्वन्निष्प्रपञ्चा प्रपञ्चापि प्रकाशिका ।
त्वं विद्या त्वमविद्या च त्वमालम्बा निराश्रया ।
प्रपञ्चरूपा जगतामादिशक्तिस्त्वमीश्वरी ॥ २१ ॥

ब्रह्मकण्ठालया शुद्धा वाग्वाणी या प्रगीयते ।
वेदप्रकाशनपरा सा त्वं विश्वप्रकाशिनी ॥ २२ ॥

त्वमग्निस्त्वं तथा स्वाहा त्वं स्वधा पितृभिः सह ।
त्वं नभस्त्वं कालरूपा त्वं काष्ठा त्वं बहिःस्थिता ॥ २६ ॥

त्वमचिन्त्या त्वमव्यक्ता तथानिर्देश्यरूपिणी ।
त्वं कालरात्रिस्त्वं शान्ता त्वमेव प्रकृतिः परा ॥ २४ ॥

यस्याः संसारलोकानां परित्राणाय यद्बहिः ।
रूपं जानन्ति धात्राद्यास्तत्त्वां ज्ञास्यन्ति के पराम् ॥ २५ ॥

प्रसीद भगवत्यम्ब प्रसीद योगरूपिणि ।
प्रसीद घोररूपे त्वं जगन्मयि नमोऽस्तु ते ॥ २६ ॥

मूलम्

प्रसीद भगवत्यम्ब प्रसीद योगरूपिणि ।
प्रसीद घोररूपे त्वं जगन्मयि नमोऽस्तु ते ॥ २६ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इति स्तुता महामाया दक्षेण प्रयतात्मना ।
उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं द्विजाः ॥ २७ ॥

भगवत्युवाच

तुष्टाहं दक्ष भवतो मद्भक्त्या ह्यनया भृशम् ।
वरं वृणीष्व चाभीष्टं तत्ते दास्यामि तत स्वयम् ॥ २८ ॥

नियमेन तपोभिश्च स्तुतिभिस्ते प्रजापते ।
अतीव तुष्टा दास्येऽहं वरं वरय वाञ्छितम् ॥ २९॥

जगन्मयि महामाये यदि त्वं वरदा मम ।
तदा मम सुता भूत्वा हरजाया भवाधुना ॥ ३० ॥

ममैष न वरो देवि केवलं जगतामपि ।
लोकेशस्य तथा विष्णोः शिवस्यापि प्रजेश्वरि ॥ ३१ ॥

देव्युवाच

अहं तव सुता भूत्वा त्वज्जायायां समुद्भवा ।
हरजाया भविष्यामि न चिरात्तु प्रजापते ॥ ३२ ॥

यदा भवान्मयि पुनर्भवेन्मन्दादरस्तदा ।
देहं त्यक्ष्यामि सपदि सुखिन्यप्यथ वेतरा ॥ ३३ ॥

एष दत्तस्तव वरः प्रतिसर्ग प्रजापते ।
अहं तव सुता भूत्वा भविष्यामि हरप्रिया ॥ ३४ ॥

तथा सम्मोहयिष्यामि महादेवं प्रजापते ।
प्रतिसर्गं यथा मोहं सम्प्राप्स्यति निराकुलम् ॥ ३५ ॥

मूलम्

तथा सम्मोहयिष्यामि महादेवं प्रजापते ।
प्रतिसर्गं यथा मोहं सम्प्राप्स्यति निराकुलम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

एवमुक्त्वा महामाया दक्षं मुख्यं प्रजापतिम् ।
अन्तर्दधे ततो देवी सम्यग् दक्षस्य पश्यतः ॥ ३६ ॥

अन्तर्हितायां मायायां दक्षोऽपि निजमाश्रमम् ।
जगाम लेभे च मुदं भविष्यति सुतेति सा ॥ ३७ ॥

अथ चक्रे प्रजोत्पादं विना स्त्रीसङ्गमेन च ।
सङ्कल्पाविर्भवाभ्यान्तु मनसा चिन्तनेन च ॥ ३८ ॥

तत्र ये तनया जाता बहुशो द्विजसत्तमाः ।
ते नारदोपदेशेन भ्रमन्ति पृथिवीमिमाम् ॥ ३९ ॥

पुनः पुनः सुता ये ये तस्य जाता सहस्रशः ।
ते सर्वे भ्रातृपदवीं ययुर्नारदवाक्यतः ॥ ४० ॥

पृथिव्यां सृष्टिकर्तारः सर्वे यूयं द्विजोत्तमाः ।
पश्यध्वं पृथिवीं कृत्स्नामुपान्तप्रान्तमायताम् ॥ ४१ ॥

इति नारदवाक्येन नोदिता दक्षपुत्रकाः ।
अद्यापि न निवर्तन्ते भ्रमन्तः पृथिवीमिमाम् ॥ ४२ ॥

ततः समुत्पादयितुं प्रजाः मैथुनसम्भवाः ।
उपयेमे वीरणस्य तनयां दक्ष ईप्सिताम् ॥ ४३ ॥

वीरिणी नाम तस्यास्तु असक्नीत्यपि सत्तमाः ।
तस्यां प्रथमसङ्कल्पो यदा भूतः प्रजापते ॥ ४४ ॥

सद्योजाता महामाया तदा तस्यां द्विजोत्तमाः ।
तस्यां तु जातमात्रायां सुप्रीतोऽभूत् प्रजापतिः ।
सैवैषेति तदा मेने तां दृष्ट्वा तेजसोज्ज्वलाम् ॥ ४५ ॥

बभूव पुष्पवृष्टिश्च मेघाश्च ववृषुर्जलम् ।
दिशः शान्तास्तदा तस्यां जातायाञ्च समुद्गताः ॥ ४६ ॥

अवादयन्तस्त्रिदशाः शुभवाद्यं वियद्गताः ।
जज्वलुश्चाग्नयः शान्तास्तस्यां सत्यां नरोत्तमाः ॥ ४७ ॥

वीरिण्या लक्षितो दक्षस्तां दृष्ट्वा जगदीश्वरीम् ।
विष्णुमायां महामायां तोषयामास भक्तितः ॥ ४८ ॥

शिवा शान्ता महामाया योगनिद्रा जगन्मयी ।
या प्रोच्यते विष्णुमाया तां नमामि सनातनीम् ॥ ४९ ॥

यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ।
स्थितिञ्च विष्णुरकरोद्यन्नियोगाज्जगत्पतिः ॥ ५० ॥

शम्भुरन्तं ततो देवीं त्वां नमाभि महीयसीम् ।
विकाररहितां शुद्धामप्रमेयां प्रभावतीम् ।
प्रमाणमानमेयाख्यां प्रणमामि सुखात्मिकाम् ॥ ५१ ॥

यस्त्वां विचिन्तयेद्देवीं विद्याविद्यात्मिकां पराम् ।
तस्य भोग्यञ्च मुक्तिश्च सदा करतले स्थिता ॥ ५२ ॥

यस्त्वां प्रत्यक्षतो देवीं सकृत् पश्यति पावनीम् ।
तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिकाम् ॥ ५३ ॥

योगनिद्रे महामाये विष्णुमाये जगन्मयि ।
या प्रमाणार्थसम्पन्ना चेतना सा तवात्मिका ॥ ५४ ॥

ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च ।
जगन्मयीति मायेति सर्वं तेषां भविष्यति ॥ ५५ ॥

मूलम्

ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च ।
जगन्मयीति मायेति सर्वं तेषां भविष्यति ॥ ५५ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इति स्तुता जगन्माता दक्षेण सुमहात्मना ।
तथोवाच तदा दक्षं यथा माता शृणोति न ॥ ५६ ॥

सम्मोह्य सर्वं तत्रस्थं यथा दक्षः शृणोति तत् ।
नान्यः शृणोति च तथा माययाह तदाम्बिका ॥ ५७ ॥

अहमाराधिता पूर्वं यदर्थं मुनिसत्तम ।
ईप्सितं तव सिद्धं तदवधारय साम्प्रतम् ॥ ५८ ॥

मूलम्

देव्युवाच

अहमाराधिता पूर्वं यदर्थं मुनिसत्तम ।
ईप्सितं तव सिद्धं तदवधारय साम्प्रतम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

एवमुक्त्वा तदा देवी दक्षञ्च निजमयया ।
आस्थाय शैशवं भावं जनन्यन्ते रुरोद सा ॥ ५९ ॥

ततस्तां वीरिणी यत्नात् सुसंस्कृत्य यथोचितम् ।
शिशुपालेन विधिना तस्यै स्तन्यादिकं ददौ ॥ ६० ॥

पालिता साथ वीरिण्या दक्षेण सुमहात्मना ।
ववृधे शुक्लपक्षस्य निशानाथो यथान्वहम् ॥ ६१ ॥

तस्यान्तु सद्गुणाः सर्वे विविशुर्द्विजसत्तमाः ।
शैशवेऽपि यथा चन्द्रे कलाः सर्वा मनोहराः ॥ ६२ ॥

रेमे सा निजभावेन सखीमध्यगता यदा ।
तदा लिखति भर्गस्य प्रतिमामन्वहं मुहुः ॥ ६३ ॥

यदा गायति गीतानि तदा बाल्योचितानि सा ।
उग्रं स्थाणुं हरं रुद्रं सस्मार स्मरमानसा ॥ ६४ ॥

तस्याश्चक्रे नाम दक्षः सतीति द्विजसत्तमाः ।
प्रशस्तायाः सर्वगुणैः सत्त्वादपि नयादपि ॥ ६५ ॥

ववृधे दक्षवीरिण्योः प्रत्यहं करुणातुला ।
तस्यां बाल्येऽपि भक्तायां तयोर्नित्यं मुहुर्मुहुः ॥ ६६ ॥

सर्वकान्तगुणा क्रान्ता सदा सा नयशालिनी ।
तोषयामास पितरौ नित्यं नित्यं नरोत्तमाः ॥ ६७ ॥

अथैकदा पितुः पार्श्वे तिष्ठन्तीं तां सतीं विधिः ।
नारदश्च ददर्शाथ रत्नभूतां क्षितौ शुभाम् ॥ ६८ ॥

सापि तौ वीक्ष्य मुदिता विनयावनता तदा ।
प्रणनाम सती देवं ब्रह्माणमथ नारदम् ॥ ६९ ॥

प्रणामान्ते सतीं वीक्ष्य विनयावनतां विधिः ।
नारदश्च तथैवाशीर्वादमेतमुवाच ह ॥ ७० ॥

त्वामेव यः कामयते यं त्वं कामयसे पतिम् ।
तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ॥ ७१ ॥

यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ।
जायां स ते पतिर्भूयादनन्यसदृशः शुभे ॥ ७२ ॥

इत्युक्त्वा सुचिरं तौ तु स्थित्वा दक्षाश्रमे पुनः ।
विसृष्टौ तेन संयातौ स्वस्थानं द्विजसत्तमाः ॥ ७३ ॥

इति श्रीकालिकापुराणे सत्युत्पत्तौ अष्टमोऽध्यायः