विश्वास-प्रस्तुतिः
सप्तमोऽध्यायः
मार्कण्डेय उवाच
अथ ब्रह्मा महामायास्वरूपं प्रतिपाद्य च ।
मदनाय पुनः प्राह युक्तासौ हरमोहने ॥ १ ॥
मूलम्

ब्रह्मोवाच
विष्णुमाया महादेवो यथा दारपरिग्रहम् ।
करिष्यति तथा कर्तुमङ्गीकारं पुराकरोत् ॥ २ ॥

साऽवश्यं दक्षतनया भूत्वा शम्भोर्महात्मनः ।
भविष्यति द्वितीयेति स्वयमेवावदत् स्मर ॥ ३ ॥

त्वमेभिः स्वगणैः सार्धं रत्या च मधुना सह ।
यथेच्छति तथा दारान् ग्रहीतुं कुरु शङ्करः ॥ ४ ॥

शम्भौ गृहीतदारे तु कृतकृत्या वयं स्मर ।
अविच्छिन्ना सृष्टिरियं भविष्यति न संशयः ॥ ५ ॥
मूलम्
शम्भौ गृहीतदारे तु कृतकृत्या वयं स्मर ।
अविच्छिन्ना सृष्टिरियं भविष्यति न संशयः ॥ ५ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
तथाब्रवीद् द्विजश्रेष्ठा लोकेशाय मनोभवः ।
मधुरं यत् कृतं तेन महादेवस्य मोहने ॥ ६ ॥

मदन उवाच
शृणु ब्रह्मन् यथास्माभिः क्रियते हरमोहने ।
प्रत्यक्षे वा परोक्षे वा तस्य तद्गदतो मम ॥ ७ ॥

यदा समाधिमाश्रित्य स्थितः शम्भुर्जितेन्द्रियः ।
तदा सुगन्धिवातेन शीतलेन विवेगिना ।
तं वीजयामि लोकेश नित्यं मोहनकारिणा ॥ ८ ॥

स्वसायकांस्तथा पञ्च समादाय शरासनम् ।
भ्रमामि तस्य सविधे मोहयंस्तद्गणानहम् ॥ ९ ॥

सिद्धद्वन्द्वानहं तत्र रमयामि दिवानिशम् ।
भावा हावाश्च ते सर्वे प्रविशन्ति च तेषु वै ॥ १० ॥

यदि प्रविष्टे सविधे शम्भोः प्राणी पितामह ।
को वा न कुरुते द्वन्द्वभावं तत्र मुहुर्मुहुः ॥ ११ ॥

मम प्रवेशमात्रेण तथा स्युः सर्वजन्तवः ।
न शम्भुर्न वृषस्तस्य मानसीं विक्रियां गतौ ॥ १२ ॥

यदाहि भवतः प्रस्थं स याति प्रमथाधिपः ।
तत्र गन्ता तदैवाहं सरितः समधुर्विधे ॥ १३ ॥

यदा मेरुं प्रयात्येष यदा वा नाटकेश्वरम् ।
कैलासं वा यदा याति तत्र गच्छाम्यहं तदा ॥ १४ ॥

यदा त्यक्त समाधिस्तु हरस्तिष्ठति वै क्षणम् ।
ततस्तस्य पुरश्चक्रमिथुनं योजयाम्यहम् ॥ १५ ॥

तच्चक्रयुगलं ब्रह्मन् हावभावयुतं मुहुः ।
नानाभावेन कुरुते दाम्पत्यक्रममुत्तमम् ॥ १६ ॥

नीलकण्ठानपि मुहुः सजायानपि तत्पुरः ।
सम्मोहयामि सविधे मृगानन्यांश्च पक्षिणः ॥ १७ ॥

विचित्रभावमासाद्य यदा प्रकुरुते रतिम् ।
मयूरमिथुनं वीक्ष्य तत्तदा को न चोत्सुकः ॥ १८ ॥

मृगाश्च तत्पुरस्थाश्च स्वजायाभिस्तु सोत्सुकाः ।
अकुर्वन् रुचिरं भावं तस्य पार्श्वे पुरस्तदा ॥ १९ ॥

अपश्यन् विवरं नास्य कदाचिदपि मच्छरः ।
निपात्यः स यदा देहे यन्मया सर्वलोकधृत् ॥ २० ॥

बहुधा निश्चितं ज्ञातं रामासङ्गादृते हरम् ।
अलं च सम्मोहयितुं ससहायोऽपि निष्कलम् ॥ २१ ॥

मधुश्च कुरुते कर्म यद्यत्तस्य विमोहने ।
तच्छृणुष्व महाभाग नित्यं तस्योचितं पुनः ॥ २२ ॥

चम्पकान् केशरानाम्रान् करुणान् पाटलांस्तथा ।
नागकेशरपुन्नागान् किंशुकान् केतकान् धवान् ॥ २३ ॥

माधवीर्मल्लिकाः पर्णधारान् कुरुवकांस्तथा ।
उत्फुल्लयति तत्तस्य यत्र तिष्ठति वै हरः ॥ २४ ॥

सरांस्युत्फुल्लपद्मानि बीजयन् मलयानिलैः ।
सुगन्धीकृतवान् यत्नादतीव शङ्कराश्रमम् ॥ २५ ॥

लताः सर्वाः सुमनसः फुल्लपादपसञ्चयान् ।
वृक्षान् रुचिरभावेन वेष्टयन्ति स्म तत्र वै ॥ २६ ॥

तान् वृक्षांश्चारुपुष्पौघांस्तैः सुगन्धिसमीरणैः ।
दृष्ट्वा कामवशं यातो न तत्र मुनिरप्युत ॥ २७ ॥

तद्गणा अपि लोकेश नानाभावैः सुशोभनैः ।
वसन्ति स्म सुराः सिद्धा ये ये चातितपोधनाः ॥ २८ ॥

न तस्य पुनरस्माभिर्दृष्टं मोहस्य कारणम् ।
भावमात्रं न कुरुते कामोत्थमपि शङ्करः ॥ २९ ॥

इति सर्वमहं दृष्ट्वा ज्ञात्वा च हरभावनाम् ।
विमुखोऽहं शम्भुमोहान्नियतं मायया बिना ॥ ३० ॥

इदानीं त्वद्वचः श्रुत्वा योगनिद्रोदितं पुनः ।
तस्याः प्रभावं श्रुत्वाथ गणान् दृष्ट्वा सहायकान् ॥ ३१ ॥

मया शम्भोर्विमोहाय क्रियते मुहुरुद्यमः ।
भवानपि त्रिलोकेश योगनिद्रा द्रुतं पुनः ।
भवेद् यथा शम्भुजाया तथैव विदधात्वियम् ॥ ३२ ॥

यमानां नियमानाञ्च प्राणायामस्य नित्यशः ।
आसनस्य महेशस्य प्रत्याहारस्य गोचरे ॥ ३३ ॥

ध्यानस्य धारणायाश्च समाधेर्विघ्नसम्भवम् ।
मन्ये कर्तुं न शक्यं स्यादपि मारशतैरपि ॥ ३४ ॥

तथाप्ययं मारगणः करोतु हरस्य योगाङ्गविकारविघ्नम् ।
यदेव शक्यं किमु वा समर्थः समक्षमन्यस्य न कर्तु भोजः ॥ ३५ ॥

इति श्रीकालिकापुराणे वदनवाक्ये सप्ततोऽध्यायः ॥ ७ ॥