षष्ठोऽध्यायः
देव्युवाच
विश्वास-प्रस्तुतिः
यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् ।
मदृते मोहयित्रीह शङ्करस्य न विद्यते ॥ १ ॥
मूलम्

हरेऽगृहीतदारे तु सृष्टिर्नैषा सनातनी ।
भविष्यतीति तत् सत्यं भवता प्रतिपादितम् ॥ २ ॥

मयापि च महान् यत्नो विद्यतेऽस्य जगत्पतेः ।
त्वद्वाक्याद् द्विगुणो मेऽद्य प्रयत्नोऽभूत् सुनिर्भरः ॥ ३ ॥

अहं तथा यतिष्यामि यथा दारपरिग्रहम् ।
हरः करिष्यत्यवशः स्वयमेव विमोहितः ॥ ४ ॥
मूलम्
अहं तथा यतिष्यामि यथा दारपरिग्रहम् ।
हरः करिष्यत्यवशः स्वयमेव विमोहितः ॥ ४ ॥
विश्वास-प्रस्तुतिः
चार्वी मूर्तिमहं धृत्वा तस्यैव वशवर्तिनी ।
भविष्यामि महाभाग यथा विष्णोर्हरिप्रिया ॥ ५ ॥

यथा सोऽपि ममैवेह वशवर्ती सदा भवेत् ।
तथा चाहं करिष्यामि यथेतरजनं हरम् ॥ ६ ॥
मूलम्
यथा सोऽपि ममैवेह वशवर्ती सदा भवेत् ।
तथा चाहं करिष्यामि यथेतरजनं हरम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
प्रतिसर्गादि मध्यं तमहं शम्भुं निराकुलम् ।
स्त्रीरूपेणानुयास्यामि विशेषेणान्यतो विधे ॥ ७ ॥

उत्पन्ना दक्षजायायां चारुरूपेण शङ्करम् ।
अहं सभाजयिष्यामि प्रतिसर्गं पितामह ॥ १२ ॥

मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इति तस्मै समाभाष्य ब्रह्मणे द्विजसत्तमाः ।
वीक्ष्यमाणा जगत्स्रष्ट्रा तत्रैवान्तर्दधे ततः ॥ १३ ॥

तस्यामन्तर्हितायान्नु धाता लोकपितामहः ।
जगाम तत्र भगवान् स्थितो यत्र मनोभवः ॥ १४ ॥

मुदितोऽत्यर्थमभवन्महामायावचः स्मरन् ।
कृतकृत्यं तदात्मानं मेने च मुनिपुङ्गवाः ॥ १५ ॥

अथ दृष्ट्वा महात्मानं विरञ्चि मदनस्तथा ।
गच्छन्तं हंसयानेन चाभ्युत्तस्थौ त्वरान्वितः ॥ १६ ॥

आसन्नं तमथासाद्य हर्षोत्फुल्लविलोचनः ।
ववन्दे सर्वलोकेशं मोदयुक्तं मनोभवः ॥ १७ ॥

अथाह भगवान् धाता प्रीत्या मधुरगद्गदम् ।
मदनं मोदयन् सूक्तं यद् देव्या विष्णुमायया ॥ १८ ॥

ब्रह्मोवाच
विश्वास-प्रस्तुतिः
यदाह वत्स शर्वस्य मोहने त्वं पुरा वचः ।
अनुमोहनकर्त्री या तां सृजेति मनोभव ॥ १९ ॥

तदर्थं संस्तुता देवी योगनिद्रा जगन्मयी ।
एकतानेन मनसा मया मन्दरकन्दरे ॥ २० ॥

स्वयमेव तया वत्स प्रत्यक्षीभूतया मम ।
तुष्टयाङ्गीकृतं शम्भुर्मोहनीयो मयेति वै ॥ २१ ॥

तया च दक्षभवने स समुत्पन्नया हरः ।
मोहनीयस्तु न चिरादिति सत्यं मनोभव ॥ २२ ॥

मदन उवाच
विश्वास-प्रस्तुतिः
ब्रह्मन् का योगनिद्रेति विख्याता या जगन्मयी ।
कथं तस्या हरो वश्यः कार्यस्तपसि सम्स्थितः ॥ २३ ॥

किम्प्रभावाथ सा देवी का वा सा कुत्र संस्थिता ।
तदहं श्रोतुमिच्छामि त्वत्तो लोकपितामह ॥ २४ ॥

यस्य त्यक्तसमाधेस्तु न क्षणं दृष्टिगोचरे ।
शक्नुमोऽपि वयं स्थातुं तं कस्मात् सा विमोहयेत् ॥ २५ ॥

ज्वलदग्निप्रकाशाक्षं जटाराजिकरालितम् ।
शूलिनं वीक्ष्य कः स्थातुं ब्रह्मन् शक्नोति तत्पुरः ॥ २६ ॥

तस्य तादृक्स्वरूपस्य सम्यङ्मोहनवाञ्छया ।
मयाभ्युपेतं तां श्रुतु महमिच्छामि तत्त्वतः ॥ २७ ॥
मूलम्
तस्य तादृक्स्वरूपस्य सम्यङ्मोहनवाञ्छया ।
मयाभ्युपेतं तां श्रुतु महमिच्छामि तत्त्वतः ॥ २७ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
मनोभवस्य वचनं श्रुत्वाथ चतुराननः ।
विवक्षुरपि तद्वाक्यं श्रुत्वानुत्साहकारणम् ॥ २८ ॥

शर्वस्य मोहने ब्रह्मा चिन्ताविष्टो भवन्नहि ।
समर्थो मोहयितुमिति निःश्वास मुहुर्मुहुः ॥ २९ ॥

निःश्वासमारुतात्तस्य नानारूपा महाबलाः ।
जाता गणा लोलजिह्वा लोलाश्चाति भयङ्कराः ॥ ३० ॥

तुरङ्गवदनाः केचित् केचिद् गजमुखास्तथा ।
सिंहव्याघ्रमुखाश्चान्ये श्ववराहखराननाः ॥ ३१ ॥

ऋक्षमार्जारदवदनाः शरभास्याः शुकाननाः ।
प्लवगोमायुवक्त्राश्च सरीसृपमुखाः परे ॥ ३२ ॥

गोरूपा गोमुखाः केचित्तथा पक्षिमुखाः परे ।
महादीर्घा महाह्रस्वा महास्थूला महाकृशाः ॥ ३३ ॥

पिङ्गाक्षा विरालाक्षाश्च त्र्यक्षैकाक्षा महोदराः ।
एककर्णास्त्रिकर्णाश्च चतुष्कर्णास्तथा परे ॥ ३४ ॥

स्थूलकर्णा महाकर्णा बहुकर्णा विकर्णकाः ।
दीर्घाक्षाः स्थूलनेत्राश्च सूक्ष्मनेत्रा विदृष्टयः ॥ ३५ ॥

चतुष्पादाः पञ्चपादास्त्रिपादैकपदास्तथा ।
ह्रस्वपादा दीर्घपादाः स्थूलपादा महापदाः ॥ ३६ ॥

एकहस्ताश्चतुर्हस्ता द्विहस्तास्त्रिशयास्तथा ।
विहस्ताश्च विरूपाक्षा गोधिकाकृतयः परे ॥ ३७ ॥

मनुष्याकृतयः केचिच्छुशुमारमुखास्तथा ।
क्रौञ्चाकारा वकाकारा हंससारसरूपिणः ।
तथैव मद्गुकुररकङ्ककाकमुखास्तथा ॥ ३८ ॥
मूलम्
मनुष्याकृतयः केचिच्छुशुमारमुखास्तथा ।
क्रौञ्चाकारा वकाकारा हंससारसरूपिणः ।
तथैव मद्गुकुररकङ्ककाकमुखास्तथा ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अर्द्धनीला अर्द्धरक्ताः कपिलाः पिङ्गलास्तथा ।
नीलाः शुक्लास्तथा पीता हरिताश्चित्ररूपिणः ॥ ६९ ॥

अवादयन्त ते शङ्खान् पटहान् परिवादिनः ।
मृदङ्गान् डिडिमांश्चैव गोमुखान् पणवांस्तथा ॥ ४० ॥

क्रौञ्चाकारा बकाकारा हंससारसरूपिणः ।

सर्वे जटाभिः पिङ्गाभिस्तुङ्गाभिश्च करालिताः ।
निरन्तराभिर्विप्रेन्द्रा गणाः स्यन्दनगामिनः ॥ ४१ ॥

शूलहस्ताः पाशहस्ताः खड्गहस्ता धनुर्धराः ।
शक्त्यङ्कु शगदावाण-पट्टिशप्रासपाणयः ॥ ४२ ॥

नानायुधा महानादं कुर्वन्तस्ते महाबलाः ।
मारय च्छेदयेत्यूचुर्ब्रह्मणः पुरतो गताः ॥ ४३ ॥

तेषान्तु वदतां यत्र मारय छेदयेत्युत ।
योगनिन्द्रा प्रभावात् स विधिर्वक्तुं प्रचक्रमे ॥ ४४ ॥

अथ ब्रह्माणमाभाष्य तान् दृष्ट्वा मदनो गणान् ।
उवाच वारयन् वक्तुं गणानामग्रतः स्मरः ॥ ४५ ॥

किं कर्म ते करिष्यन्ति कुत्र स्थास्यन्ति वा विधे ।
किन्नामधेया एते वा तत्रैतान् विनियोजय ॥ ४६ ॥

नियोज्यैतान्निजे कृत्ये स्थानं दत्त्वा नाम च ।
कृत्वा पश्चात्महामायाप्रभावं कथयस्व मे ॥ ४७ ॥
मूलम्
नियोज्यैतान्निजे कृत्ये स्थानं दत्त्वा नाम च ।
कृत्वा पश्चात्महामायाप्रभावं कथयस्व मे ॥ ४७ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
अथ तद्वाक्यमाकर्ण्य सर्वलोकपितामहः ।
गणान् समदनानाह तेषां कर्मादिकं दिशन् ॥ ४८ ॥
मूलम्
अथ तद्वाक्यमाकर्ण्य सर्वलोकपितामहः ।
गणान् समदनानाह तेषां कर्मादिकं दिशन् ॥ ४८ ॥
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
एत उत्पन्नमात्रा हि मारयेत्यवदंस्तराम् ।
मुहुर्मुहुरतोऽमीषां नाम मारेति जायताम् ॥ ४९ ॥

मारात्मकत्वादप्येते माराः सन्तु च नामतः ।
सदा विघ्नं करिष्यन्ति जन्तूनाञ्च विनार्चनम् ॥ ५० ॥

तवानुगमनं कर्म मुख्यमेषां मनोभव ।
यत्र यत्र भवान् याता स्वकर्मार्थं यदा यदा ।
गन्तारस्तत्र तत्रैते साहाय्याय तदा तदा ॥ ५१ ॥

चित्तोद्भ्रान्तिं करिष्यन्ति त्वदस्त्रवशवर्तिनाम् ।
ज्ञानिनां ज्ञानमार्गञ विघ्नयिष्यन्ति सर्वदा ॥ ५२ ॥

यथा सांसारिकं कर्म सर्वे कुर्वन्ति जन्तवः ।
तथा चैते करिष्यन्ति सविघ्नमपि सर्वतः ॥ ५३ ॥

इमे स्थास्यन्ति सर्वत्र वेगिनः कामरूपिणः ।
त्वमेवैषां गणाध्यक्षः पञ्चयज्ञांशभोगिनः ।
नित्यक्रियावतां तोयभोगिनो वै भवन्त्विति ॥ ५४ ॥

इति श्रुत्वा तु ते सर्वे मदनं सविधिं ततः ।
परिवार्य यथाकामं तस्थुः श्रुत्वा निजां गतिम् ॥ ५५ ॥

तेषां वर्णयितुं शक्यो भुवि किं मुनिसत्तमाः ।
माहात्म्यञ्च प्रभावञ्च ते तपःशालिनो यतः ॥ ५६ ॥

नैषां जाया न तनया निःसमीहाः सदैव हि ।
न्यासिनोऽपि महात्मानः सर्वे त ऊर्ध्वरेतसः ॥ ५७ ॥

ततो ब्रह्मा प्रसन्नः स माहात्म्यं मदनाय च ।
गदितुं योगनिन्द्रायाः सम्यक् समुपचक्रमे ॥ ५८ ॥

अव्यक्तव्यक्तरूपेण रजःसत्त्वतमोगुणैः ।
संविभज्यार्थं कुरुते विष्णुमायेति सोच्यते ॥ ५९ ॥

या निम्नान्तस्थलाम्भस्था जगदण्डकपालतः ।
विभज्य पुरुषं याति योगनिद्रेति सोच्यते ॥ ६० ॥

मन्त्रान्तर्भावनपरा परमानन्दरूपिणी ।
योगिनां सत्त्वविद्यान्तः सा निगद्या जगन्मयी ॥ ६१ ॥

गर्भान्तर्ज्ञानसम्पन्नं प्रेरितं सूतिमारुतैः ।
उत्पन्नं ज्ञानरहितं कुरुते या निरन्तरम् ॥ ६२ ॥

पूर्वातिपूर्वं सन्धातुं संस्कारेण नियोज्य च ।
आहारादौ ततो मोहं ममत्वं ज्ञानसंशयम् ॥ ६३ ॥

क्रोधोपरोधलोभेषु क्षिप्त्वा क्षिप्त्वा पुनः पुनः ।
पश्चात् कामे नियोज्याशु चिन्तायुक्तमहर्निशम् ॥ ६४ ॥

आमोदयुक्तं व्यसनासक्तं जन्तुं करोति या ।
महामायेति सा प्रोक्ता तेन सा जगदीश्वरी ॥ ६५ ॥

अहङ्कारादिसंसक्तसृष्टिप्रभवभाविनी ।
उत्पत्तिरितिलोकैः सा कथ्यतेऽनन्तरूपिणी ॥ ६६ ॥

उत्पन्नमङ्करं बीजाद् यथापो मेघसम्भवाः ।
प्ररोहयति सा जन्तूंस्तथोत्पन्नान् प्ररोहयेत् ॥ ६७ ॥

सा शक्तिः सृष्टिरूपा च सर्वेषां ख्यातिरीश्वरी ।
क्षमा क्षमावतां नित्यं करुणा सा दयावताम् ॥ ६८ ॥

नित्या सा नित्यरूपेण जगद्गर्भे प्रकाशते ।
ज्योतिःस्वरूपेण परा व्यक्ताव्यक्तप्रकाशिनी ॥ ६९ ॥

सा योगिनां मुक्तिहेतुर्विद्यारूपेण वैष्णवी ।
सांसारिकाणां संसारबन्धहेतुविपर्यया ॥ ७० ॥

लक्ष्मीरूपेण कृष्णस्य द्वितीया सुमनोहरा ।
त्रयीरूपेण कण्ठस्था सदा मम मनोभव ॥ ७१ ॥

सर्वत्रस्था सर्वगा दिव्यमूर्तिर्नित्या देवी सर्वरूपा पराख्या ।
कृष्णादीनां सर्वदा मोहयित्री सा स्त्रीरूपेः सर्वजन्तोः समन्तात् ॥ ७२ ॥

इति श्रीकालिकापुराणे योगनिद्रास्तुतौ षष्ठोऽध्यायः ॥