विश्वास-प्रस्तुतिः
पञ्चमोऽध्यायः
मार्कण्डेय उवाच
अथ ब्रह्मा तदोवाच दक्षाय सुमहात्मने ।
मरीचिप्रमुखेभ्यश्च वचनञ्चेदमञ्जसा ॥ १ ॥
मूलम्
पञ्चमोऽध्यायः
मार्कण्डेय उवाच
अथ ब्रह्मा तदोवाच दक्षाय सुमहात्मने ।
मरीचिप्रमुखेभ्यश्च वचनञ्चेदमञ्जसा ॥ १ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच
भवित्री शम्भुपत्नी का का तं सन्मोहयिष्यति ।
इति सञ्चिन्तयन् कान्तां न स्थिरीकर्तुमुत्सहे ॥ २ ॥

विष्णु मायामृते दक्ष महामायां जगन्मयीम् ।
नान्या तन्मोहकर्त्री स्यात् सन्ध्यासावित्र्युमा ऋते ॥ ३ ॥

तस्मादहं विष्णुमायां योगनिद्रां जगत्प्रसूम् ।
स्तौमि सा चारुरूपेण शङ्करं मोहयिष्यति ॥ ४ ॥

भवांस्तु दक्ष तामेव यजतां विश्वरूपिणीम् ।
यथा तव सुता भूत्वा हरजाया भविष्यति ॥ ५ ॥

मार्कण्डेय उवाअ
एवं वचनमाकर्ण्य ब्रह्मणः परमात्मनः ।
उवाच दक्षह् स्रष्टारं मरीच्यादिभिरीरितः ॥ ६ ॥

दक्ष उवाच
यथात्थ भगवंस्तथ्यं त्वं लोकेश जगद्धितम् ।
तत् करिष्यामहे सम्यग् यथा स्यात्तन्मनोहरा ॥ ७ ॥

तथा तथा भविष्यामि यथा मम सुता स्वयम् ।
विष्णुमाया भवेत् पत्नी भूत्वा शम्भोर्महात्मनः ॥ ८ ॥
मूलम्
तथा तथा भविष्यामि यथा मम सुता स्वयम् ।
विष्णुमाया भवेत् पत्नी भूत्वा शम्भोर्महात्मनः ॥ ८ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
एवमेवेति तैरुक्तं मरीचिप्रमुखैस्तदा ।
यष्टुं दक्षः समारेभे महामायां जगन्मयीम् ॥ ९ ॥

क्षीरोदोत्तरतीरस्वस्तां कृत्वा हृदयस्थिताम् ।
तपस्तप्तुं समारेभे द्रष्टुं प्रत्यक्षतोऽम्बिकाम् ॥ १० ॥

दिव्यवर्षेण दक्षोऽपि सहस्राणां त्रयः समाः ।
तपश्चचार नियतः संयतात्मा दृढव्रतः ॥ ११ ॥

मारुताशी निराहारो जलाहारो च पर्णभुक् ।
एवं निनाय तत्कालं चिन्तयंस्तां जगन्मयीम् ॥ १२ ॥

गते दक्षे तपः कर्तुं ब्रह्मा सर्वजगत्पतिः ।
जगाम मन्दराभ्यासं पुण्यात्पुण्यतरं वरम् ॥ १३ ॥

तत्र गत्वा जगद्धात्रीं विष्णुमायां जगन्मयीम् ।
तुष्टाव वाग्भिरर्थ्याभिरेकतानं शतं समाः ॥ १४ ॥

विद्याविद्यात्मिकां शुद्धां निरालम्बां निराकुलाम् ।
स्तौमि देवीं जगद्धात्रीं स्थूलाणीयः स्वरूपिणीम् ॥ १५ ॥

यस्या उदेति च जगत्प्रधानाख्यं जगत्परम् ।
यस्यास्तदंशभूतां त्वां स्तौमि निद्रां सनातनीम् ॥ १६ ॥

त्वं चितिः परमानन्दा परमात्मस्वरूपिणी ।
शक्तिस्त्वं सर्वभूताना त्व सर्वेषां च पावनी ॥ १७ ॥

त्वं सावित्री जगद्धात्री त्व सन्ध्या त्व रतिर्धृतिः ।
त्वं हि ज्योति स्वरूपेण ससारस्य प्रकाशिनी ॥ १८ ॥

तथा तमःस्वरूपेण च्छादयन्ती सदा जगत् ।
त्वमेव सृष्टिरूपेण ससारपरिपूरणी ॥ १९ ॥
मूलम्
तथा तमःस्वरूपेण च्छादयन्ती सदा जगत् ।
त्वमेव सृष्टिरूपेण ससारपरिपूरणी ॥ १९ ॥
विश्वास-प्रस्तुतिः
स्थितिरूपेण च हरेर्जगतां च हितेषिणी ।
तथैवान्तस्वरूपेण जगतामन्तकारिणी ॥ २० ॥
मूलम्
स्थितिरूपेण च हरेर्जगतां च हितेषिणी ।
तथैवान्तस्वरूपेण जगतामन्तकारिणी ॥ २० ॥
विश्वास-प्रस्तुतिः
त्वं मेधा त्वं महामाया त्वं स्वधा पितृमोदिनी ।
त्वं स्वाहा त्वं नमस्कारवषट्कारौ तथा स्मृतिः ॥ २१ ॥

त्वं पुष्टिस्त्वं धृतिर्मैत्री करुणा मुदिता तथा ।
त्वमेव लज्जा त्वं शान्तिस्त्वं कान्तिर्जगदीश्वरी ॥ २२ ॥

महामाया त्वं च स्वाहा स्वधा च पितृदेवता ।
या सृष्टिशक्तिरस्माकं स्थितिशक्तिश्च या हरेः ॥ २३ ॥

अन्तशक्तिस्तथेशानी सा त्वं शक्तिः सनातनि ॥ २४ ॥

एका त्वं द्विविधा भूत्वा मोक्षसंसारकारिणी ।
विद्याविद्यास्वरूपेण स्वप्रकाशाप्रकाशतः ॥ २५ ॥

त्वं लक्ष्मीः सर्वभूतानां त्वं छाया त्वं सरस्वती ।
त्रयीमयी त्रिमात्रा त्वं सर्वभूतस्वरूपिणी ॥ २६ ॥

उद्गीतिः सामवेदस्य या पितृगणरञ्जनी ।
त्वं वेदिः सर्वयज्ञानां सामिधेनी तथा हविः ॥ २७ ॥

यदव्यक्तमनिर्देश्यं निष्कलं परमात्मनः ।
रूपं तथैव तन्मात्रं सकलं च जगन्मयम् ॥ २८ ॥

या मूर्त्तिर्वि रता सर्वधरित्रो बिभ्रती क्षितिम् ।
सा त्वं विश्वम्भरे लोके शक्तिभूतिप्रदा सदा ॥ २९ ॥

त्वं तक्ष्मीश्चेतना कान्तिस्त्वं पुष्टिस्त्वं सनातनी ।
त्वं कालरात्रिस्त्वं मुक्तिः शान्तिः प्रज्ञा तथा स्मृतिः ॥ ३० ॥

संसारसागरोत्तारतरणि सुखमोक्षदे ।
प्रसीद सर्वजगतां त्वं गतिस्त्वं मतिः सदा ॥ ३१ ॥

त्वं नित्या त्वमनित्या च त्वं चराचरमोहिनी ।
त्वं सन्धिनी सर्वयोगसाङ्गोपाङ्गविभाविनी ॥ ३२ ॥

चिन्ता कीर्तिर्यतीनां त्वं त्वं तदष्टाङ्गसंयुता ।
त्वं खड्गिनी शूलिनी च चक्रिणी घोररूपिणी ॥ ३३ ॥

त्वमीश्वरी जनानां त्वं सर्वानुग्रहकारिणी ।
विश्वादिस्त्वमनादिस्त्वं विश्वयोनिरयोनिजा ।
अनन्ता सर्वजगतस्त्वमेवैकान्तकारिणी ॥ ३४ ॥

नितान्तनिर्मला त्वं हि तामसीति च गीयसे ।
तं हिंसा त्वमहिंसा च त्वं काली चतुरानना ॥ ३५ ॥

त्वं परा सर्वजननी दमनी दामिनी तथा ।
त्वय्येव लीयते विश्वं भाति तत्त्वं तद्बिभर्त्ति च ॥ ३६ ॥

त्वं सृष्टिहीना त्वं सृष्टिस्त्वमकर्णापि सश्रुतिः ।
तपस्विनी पाणिपादहीना त्वं नितरां ग्रहा ॥ ३७ ॥

त्वं द्वौस्त्वमापस्त्वं ज्योतिर्वायुस्त्वं च नभो मनः ।
अहङ्कारोऽपि जगतामष्टधा प्रकृतिः कृतिः ॥ ३८ ॥

जगन्नाभिर्मेरुरूपधारिणी नालिकापरा ।
परापरात्मिका शुद्धा माया मोहातिकारिणी ॥ ३९ ॥

कारणं कार्यभूतञ्च सत्यं शान्तं शिवाशिवे ।
रूपाणि तव विश्वार्थे रागवृक्षफलानि च ॥ ४० ॥

नितान्तह्रस्वा दीर्घा च नितान्ताणुबृहत्तनुः ।
सूक्ष्माप्यखिललोकस्य व्यापिनी त्वं जगन्मयी ॥ ४१ ॥

मानहीना विमानातिविमानोन्मानसम्भवा ।
यदष्टिव्यष्टिसम्भोगरागादिगलिताशया ।
तत्ते महिम्नि तद्रूपं तव भ्रान्त्यादिकं च यत् ॥ ४२ ॥

इष्टानिष्टविपाकज्ञा यथेष्टानिष्टकारणम् ।
सर्गादिमध्यान्तमयं निम्नं रूपं तथैव च ॥ ४३ ॥

विचाराष्टाङ्गयोगेन सम्पाद्यैवं मुहुर्मुहुः ।
यत् स्थिरीक्रियते तत्त्वं तत्ते रूपं सनातनम् ॥ ४४ ॥

बाह्याबाह्ये सुखं दुःखं ज्ञानाज्ञाने लयालयौ ।
उपतापस्तथा शान्तिर्भूतिस्त्वं जगतः पतेः ॥ ४५ ॥

यस्याः प्रभावं नो वक्तुं शक्नोति भुवनत्रये ।
तयैव सन्मोहकरी सा त्वं किं स्तूयसे मया ॥ ४६ ॥

योगनिद्रा महानिद्रा मोहनिद्रा जगन्मयी ।
विष्णुमाया च प्रकृतिः कस्त्वां स्तुत्या विभावयेत् ॥ ४७ ॥

मम विष्णोः शङ्करस्य या वपुर्वहनात्मिका ।
तस्याः प्रभावं को वक्तुं गुणान् वेत्तुं च कः क्षमः ॥ ४८ ॥

प्रकाशकरणज्योतिःस्वरूपान्तरगोचरा ।
त्वमेव जङ्गमस्थेयरूपैका बाह्यगोचरा ॥ ४९ ॥

प्रसीद सर्वजगतां जननी स्त्रीस्वरूपिणी ।
विश्वरूपिणी विश्वेशे प्रसीद त्वं सनातनि ॥ ५० ॥
मूलम्
प्रसीद सर्वजगतां जननी स्त्रीस्वरूपिणी ।
विश्वरूपिणी विश्वेशे प्रसीद त्वं सनातनि ॥ ५० ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
एवं संस्तूयमाना सा योगनिद्रा विरिञ्चिना ।
आविर्बभूव प्रत्यक्षं ब्रह्मणः परमात्मनः ॥ ५१ ॥

स्निग्धाञ्जनद्युतिश्चारुरूपात्तुङ्गा चतुर्भुजा ।
सिंहस्था खड्गनीलाब्जहस्ता मुक्तकचोत्करा ॥ ५२ ॥

समक्षमथ तां वीक्ष्य स्रष्टा सर्वजगद्गुरुः ।
भक्त्या विनम्रतुङ्गांसस्तुष्टाव च ननाम च ॥ ५३ ॥

नमो नमस्ते जगतः प्रवृत्तिनिवृत्तिरूपे स्थितिसर्गरूपे ।
चराचराणां भवती च शक्तिः सनातनी सर्वविमोहनीति ॥ ५४ ॥

यः श्रीः सदा केशवमूर्तिमाया विश्वम्भरा या सकलं बिभर्ति ।
ह्रीर्योगिनी या महिता मनोज्ञा सा त्वं नमस्ते परमात्मसारे ॥ ५५ ॥

यामादिपूर्वे हृदि योगिनो यां विभावयन्ति प्रमितिप्रतीताम् ।
प्रकाशशुद्धादियुतां विराणां सा त्वं हि विद्या विविधावलम्बा ॥ ५६ ॥

कूटस्थमव्यक्तमचिन्त्यरूपं त्वं बिभ्रती कालमयं जगन्ति ।
विकारबीजं प्रकरोषि नित्यं प्रत्नानि न्यूतान्यथ मध्यमानि ॥ ५७ ॥

सत्त्वं रजोऽथो तम इत्यमीषां विकारहीना समवस्थितिर्या ।
सा त्वं गुणानां जगदेकहेतुर्बाह्यान्तरालं भवतीव याति ॥ ५८ ॥

अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ।
जगद्धिताय जगतां विष्णुमाये नमोऽस्तुते ॥ ५९ ॥

इत्याकर्ण्य वचस्तस्य काली लोकविमोहिनी ।
ब्रह्माणमूचे जगतां स्रष्टारं घनशब्दवत् ॥ ६० ॥

देव्युवाच
ब्रह्मन् किमर्थं भवता स्तुताहमवधारय ।
उच्यतां यदधृष्त्योऽस्ति तच्छ्रीघ्रं पुरतो मम ॥ ६१ ॥

प्रत्यक्षं मयि जातायां सिद्धिः कार्यस्य निश्चिता ।
तस्मात्ते वाञ्छितं ब्रूहि यत् करिष्यामि भाविता ॥ ६२ ॥

एकश्चरति भूतेशो न द्वितीयां समीहते ।
तं मोहय यथा दारान् स्वयं स च जिघृक्षति ॥ ६३ ॥

त्वदृते तस्य नो काचिद् भविष्यति मनोहरा ।
तस्मात्त्वमेकरूपेण भवस्य भव मोहनी ॥ ६४ ॥

यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम् ।
आमोदयसि विश्वस्य हितायैतं तथा कुरु ॥ ६५ ॥

कान्ताभिलाषमात्रं मे निनिन्द वृषभध्वजः ।
कथं पुनः स वनितां स्वेच्छया सङ्ग्रहीष्यति ॥ ६६ ॥

हरेऽगृहीतकान्ते तु कथं सृष्टिः प्रवर्तते ।
आद्यन्तमध्यहेतौ च तस्मिञ्छम्भौ विरागिणि ॥ ६७ ॥

इति चिन्तापरो नाहं त्वदन्यं शरणन्त्विह ।
लब्धवांस्तेन विश्वस्य हितायैतत् कुरुष्व मे ॥ ६८ ॥

न विष्णुरस्य मोहाय न लक्ष्मीर्न मनोभवः ।
न चाप्यहं जगन्मातस्तस्मात् त्वं मोहयेश्वरम् ॥ ६९ ॥

कीर्तिस्त्वं सर्वभूतानां यथा त्वं ह्रीर्यतात्मनाम् ।
यथा विष्णोः प्रियैका त्वं तथा सम्मोहयेश्वरम् ॥ ७० ॥
मूलम्
कीर्तिस्त्वं सर्वभूतानां यथा त्वं ह्रीर्यतात्मनाम् ।
यथा विष्णोः प्रियैका त्वं तथा सम्मोहयेश्वरम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
अथ ब्रह्माणमाभाष्य काली योगमयी पुनः ।
यदुवाच महाभागास्तच्छृण्वन्तु द्विजोत्तमाः ॥ ७१ ॥

इति श्रीकालिकापुराणे कालीस्तुतौ पञ्चमोऽयायः ।