०४

विश्वास-प्रस्तुतिः

चतुर्थोऽध्यायः

मार्कण्डेय उवाच

ततः प्रभृति धातापि यदेवान्तर्हितः पुरा ।
चिन्तयामास सततं शम्भुवाक्यविषार्द्दितः ॥ १ ॥

मूलम्

चतुर्थोऽध्यायः

मार्कण्डेय उवाच

ततः प्रभृति धातापि यदेवान्तर्हितः पुरा ।
चिन्तयामास सततं शम्भुवाक्यविषार्द्दितः ॥ १ ॥

विश्वास-प्रस्तुतिः

कान्ताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् ।
मुनीनां पुरतः कस्मात् स दारान् सङ्ग्रहीष्यति ॥ २ ॥

मूलम्

कान्ताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् ।
मुनीनां पुरतः कस्मात् स दारान् सङ्ग्रहीष्यति ॥ २ ॥

विश्वास-प्रस्तुतिः

का वा भवित्री तज्जायाका च तन्मनसि स्थिता ।
योगमार्गमवष्टव्य तस्य मोहं करिष्यति ॥ ३ ॥

मूलम्

का वा भवित्री तज्जायाका च तन्मनसि स्थिता ।
योगमार्गमवष्टव्य तस्य मोहं करिष्यति ॥ ३ ॥

विश्वास-प्रस्तुतिः

मन्मथोऽपि समर्थो नो भविष्यत्यस्य मोहने ।
नितान्तयोगी रामाणां नामापि सहते न सः ॥ ४ ॥

मूलम्

मन्मथोऽपि समर्थो नो भविष्यत्यस्य मोहने ।
नितान्तयोगी रामाणां नामापि सहते न सः ॥ ४ ॥

विश्वास-प्रस्तुतिः

अगृहीतेषु दारेषु हरेण कथमादितः ।
मध्येऽन्ते च भवेत् सृष्टिस्तद्वधो नान्यकारितः ॥ ५ ॥

मूलम्

अगृहीतेषु दारेषु हरेण कथमादितः ।
मध्येऽन्ते च भवेत् सृष्टिस्तद्वधो नान्यकारितः ॥ ५ ॥

विश्वास-प्रस्तुतिः

केचिद्भविष्यन्ति भुवि मया बाध्या महाबलाः ।
केचिद्विष्णोर्वारणीयाः केचिच्छम्भोरुपायतः ॥ ६ ॥

मूलम्

केचिद्भविष्यन्ति भुवि मया बाध्या महाबलाः ।
केचिद्विष्णोर्वारणीयाः केचिच्छम्भोरुपायतः ॥ ६ ॥

विश्वास-प्रस्तुतिः

संसारविमुखे शम्भौ तथैकान्तविरागिणि ।
अस्मदृते न कर्मान्यत् करिष्यति न संशयः ॥ ७ ॥

मूलम्

संसारविमुखे शम्भौ तथैकान्तविरागिणि ।
अस्मदृते न कर्मान्यत् करिष्यति न संशयः ॥ ७ ॥

विश्वास-प्रस्तुतिः

चिन्तयन्निति लोकेशो ब्रह्मा लोकपितामहः ।
पुनर्द्ददर्श भूमिष्ठान् दक्षादीन् वियति स्थितः ॥ ८ ॥

मूलम्

चिन्तयन्निति लोकेशो ब्रह्मा लोकपितामहः ।
पुनर्द्ददर्श भूमिष्ठान् दक्षादीन् वियति स्थितः ॥ ८ ॥

विश्वास-प्रस्तुतिः

रतिद्वितीयं मदनं मोदयुक्तं निरीक्ष्य च ।
पुनस्तत्र गतः प्राह सान्त्वयन् पुष्पसायकम् ॥ ९ ॥

मूलम्

रतिद्वितीयं मदनं मोदयुक्तं निरीक्ष्य च ।
पुनस्तत्र गतः प्राह सान्त्वयन् पुष्पसायकम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच

अनया सहचारिण्या राजसे त्वं मनोभव ।
एषा च भवता पत्या युक्ता संशोधते धृशम् ॥ १० ॥

मूलम्

ब्रह्मोवाच

अनया सहचारिण्या राजसे त्वं मनोभव ।
एषा च भवता पत्या युक्ता संशोधते धृशम् ॥ १० ॥

विश्वास-प्रस्तुतिः

यथा श्रिया हृषीकेशो यथा तेन हरिप्रिया ।
क्षणदा विधुना युक्ता तया युक्तो यथा विधुः ॥ ११ ॥

मूलम्

यथा श्रिया हृषीकेशो यथा तेन हरिप्रिया ।
क्षणदा विधुना युक्ता तया युक्तो यथा विधुः ॥ ११ ॥

विश्वास-प्रस्तुतिः

तथैव युवयोः शोभा दाम्पत्यञ्च पुरस्कृतम् ।
अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि ॥ १२ ॥

मूलम्

तथैव युवयोः शोभा दाम्पत्यञ्च पुरस्कृतम् ।
अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि ॥ १२ ॥

विश्वास-प्रस्तुतिः

जगद्धिताय वत्स त्वं मोहयस्व पिणाकिनम् ।
यथा सुखमनाः शम्भुः कुर्याद्दारपरिग्रहम् ॥ १३ ॥

मूलम्

जगद्धिताय वत्स त्वं मोहयस्व पिणाकिनम् ।
यथा सुखमनाः शम्भुः कुर्याद्दारपरिग्रहम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

विजने स्निग्धदेशे च पर्वतेषु सरित्सु च ।
यत्र यत्र प्रयातीशस्तत्र तत्रानया सह ॥ १४ ॥

मूलम्

विजने स्निग्धदेशे च पर्वतेषु सरित्सु च ।
यत्र यत्र प्रयातीशस्तत्र तत्रानया सह ॥ १४ ॥

विश्वास-प्रस्तुतिः

मोहयस्व यतात्मानं वनिताविमुखं हरम् ।
त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः ॥ १५ ॥

मूलम्

मोहयस्व यतात्मानं वनिताविमुखं हरम् ।
त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः ॥ १५ ॥

विश्वास-प्रस्तुतिः

भूते हरे सानुरागे भवतोऽपि मनोभव ।
शापोपशान्तिर्भविता तस्मादात्महितं कुरु ॥ १६ ॥

मूलम्

भूते हरे सानुरागे भवतोऽपि मनोभव ।
शापोपशान्तिर्भविता तस्मादात्महितं कुरु ॥ १६ ॥

विश्वास-प्रस्तुतिः

सानुरागो वरारोहां यदीच्छति मनोभव ।
तदा तवोपभोगाय स त्वां सम्भावयिष्यति ॥ १७ ॥

मूलम्

सानुरागो वरारोहां यदीच्छति मनोभव ।
तदा तवोपभोगाय स त्वां सम्भावयिष्यति ॥ १७ ॥

विश्वास-प्रस्तुतिः

तस्माज्जगद्धिताय त्वं यतस्व हरमोहने ।
शिवस्य भव केतुस्त्वं मोहयित्वा महेश्वरम् ॥ १८ ॥

मूलम्

तस्माज्जगद्धिताय त्वं यतस्व हरमोहने ।
शिवस्य भव केतुस्त्वं मोहयित्वा महेश्वरम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इति श्रुत्वा वचस्तस्य ब्रह्मणः परमात्मनः ।
उवाच मन्मथस्तथ्यं ब्रह्माणं जगतो हितम् ॥ १९ ॥

मूलम्

मार्कण्डेय उवाच

इति श्रुत्वा वचस्तस्य ब्रह्मणः परमात्मनः ।
उवाच मन्मथस्तथ्यं ब्रह्माणं जगतो हितम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

मन्मथ उवाच

करिष्येऽहं तव विभो वचनाच्छम्भुमोहनम ।
किन्तु योषिन्महास्त्रं मे तत्र कान्तां प्रभो सृज ॥ २० ॥

मूलम्

मन्मथ उवाच

करिष्येऽहं तव विभो वचनाच्छम्भुमोहनम ।
किन्तु योषिन्महास्त्रं मे तत्र कान्तां प्रभो सृज ॥ २० ॥

विश्वास-प्रस्तुतिः

मया सम्मोहिते शम्भौ यया तस्यानुमोहनम् ।
कार्यं मनोरमां रामां तां निदेशय लोकभृत् ॥ २१ ॥

मूलम्

मया सम्मोहिते शम्भौ यया तस्यानुमोहनम् ।
कार्यं मनोरमां रामां तां निदेशय लोकभृत् ॥ २१ ॥

विश्वास-प्रस्तुतिः

तामहं नहि पश्यामि यया तस्यानुमोहनम् ।
कर्तव्यमधुना धातस्तत्रोपायं तथा कुरु ॥ २२ ॥

मूलम्

तामहं नहि पश्यामि यया तस्यानुमोहनम् ।
कर्तव्यमधुना धातस्तत्रोपायं तथा कुरु ॥ २२ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

एवंवादिनि कन्दर्पे धाता लोकपितामहः ।
कुर्या सम्मोहनीं योषामिति चिन्तां जगामह ॥ २३ ॥

मूलम्

मार्कण्डेय उवाच

एवंवादिनि कन्दर्पे धाता लोकपितामहः ।
कुर्या सम्मोहनीं योषामिति चिन्तां जगामह ॥ २३ ॥

विश्वास-प्रस्तुतिः

चिन्ताविष्टस्य तस्याथ निःश्वासो यो विनिःसृतः ।
तस्माद्वसन्तः सञ्जातः पुष्पव्रातविभूषितः ॥ २४ ॥

मूलम्

चिन्ताविष्टस्य तस्याथ निःश्वासो यो विनिःसृतः ।
तस्माद्वसन्तः सञ्जातः पुष्पव्रातविभूषितः ॥ २४ ॥

विश्वास-प्रस्तुतिः

चूताङ्कुरान् मुकुलितान् विभ्रद् भ्रमरसंहतिम् ।
किंशुकान् सारसान् रेजे प्रफुल्ल इव पादपः ॥ २५ ॥

मूलम्

चूताङ्कुरान् मुकुलितान् विभ्रद् भ्रमरसंहतिम् ।
किंशुकान् सारसान् रेजे प्रफुल्ल इव पादपः ॥ २५ ॥

विश्वास-प्रस्तुतिः

शोणराजीवसङ्काशः फुल्लतामरसेक्षणः ।
सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः ॥ २६ ॥

मूलम्

शोणराजीवसङ्काशः फुल्लतामरसेक्षणः ।
सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः ॥ २६ ॥

विश्वास-प्रस्तुतिः

शङ्खवच्छ्रवणावर्तः श्यामकुञ्चितमूर्द्धजः ।
सन्ध्यांशुमालिसदृशकुण्डलद्वयमण्डितः ॥ २७ ॥

मूलम्

शङ्खवच्छ्रवणावर्तः श्यामकुञ्चितमूर्द्धजः ।
सन्ध्यांशुमालिसदृशकुण्डलद्वयमण्डितः ॥ २७ ॥

विश्वास-प्रस्तुतिः

प्रमत्तमातङ्गगतिर्विस्तीर्णहृदयस्तलः ।
पीनस्थूलायतभुजः कठोरकरयुग्मकः ॥ २८ ॥

मूलम्

प्रमत्तमातङ्गगतिर्विस्तीर्णहृदयस्तलः ।
पीनस्थूलायतभुजः कठोरकरयुग्मकः ॥ २८ ॥

विश्वास-प्रस्तुतिः

सुवृत्तोरुकटीजङ्घः कम्बुग्रीवोन्नतांसकः ।
गूढजत्रुः पीनवक्षाः सम्पूर्णः सर्वलक्षणैः ॥ २९ ॥

मूलम्

सुवृत्तोरुकटीजङ्घः कम्बुग्रीवोन्नतांसकः ।
गूढजत्रुः पीनवक्षाः सम्पूर्णः सर्वलक्षणैः ॥ २९ ॥

विश्वास-प्रस्तुतिः

तादृशेऽथ समुत्पन्ने सम्पूर्णः कुसुमाकरे ।
ववौ वायुः ससुरभिः पादपा अपि पुष्पिताः ॥ ३० ॥

मूलम्

तादृशेऽथ समुत्पन्ने सम्पूर्णः कुसुमाकरे ।
ववौ वायुः ससुरभिः पादपा अपि पुष्पिताः ॥ ३० ॥

विश्वास-प्रस्तुतिः

पिकाश्च नेदुः शतशः पञ्चमं मधुरस्वराः ।
प्रफुल्लपद्मा अभवन् सरस्यः पुष्टपुष्कराः ॥ ३१ ॥

मूलम्

पिकाश्च नेदुः शतशः पञ्चमं मधुरस्वराः ।
प्रफुल्लपद्मा अभवन् सरस्यः पुष्टपुष्कराः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तमुत्पन्नमवेक्ष्याथ तथा तादृसमुत्तमम् ।
हिरण्यगर्भो मदनं जगाद मधुरं वचः ॥ ३२ ॥

मूलम्

तमुत्पन्नमवेक्ष्याथ तथा तादृसमुत्तमम् ।
हिरण्यगर्भो मदनं जगाद मधुरं वचः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच

एष मन्मथ ते मित्रं सदा सहचरो भवेत् ।
आनुकूल्यं तव कृते सवदैव करिष्यति ॥ ३३ ॥

मूलम्

ब्रह्मोवाच

एष मन्मथ ते मित्रं सदा सहचरो भवेत् ।
आनुकूल्यं तव कृते सवदैव करिष्यति ॥ ३३ ॥

विश्वास-प्रस्तुतिः

यथाग्नेः श्वसनो मित्रं सर्वत्रोपकरोति च ।
तथायं भवतो मित्रं सदा त्वामनुयास्यति ॥ ३४ ॥

मूलम्

यथाग्नेः श्वसनो मित्रं सर्वत्रोपकरोति च ।
तथायं भवतो मित्रं सदा त्वामनुयास्यति ॥ ३४ ॥

विश्वास-प्रस्तुतिः

वसतेरन्तहेतुत्वाद् वसन्ताख्यो भवत्वयम् ।
तवानुगमनं कर्म तथा लोकानुरञ्जनम् ॥ ३५ ॥

मूलम्

वसतेरन्तहेतुत्वाद् वसन्ताख्यो भवत्वयम् ।
तवानुगमनं कर्म तथा लोकानुरञ्जनम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

असौ वसन्तः शृङ्गारो वसन्ते मलयानिलः ।
भवन्तु सुहृदो भावाः सदा त्वद्वशवर्तिनः ॥ ३६ ॥

मूलम्

असौ वसन्तः शृङ्गारो वसन्ते मलयानिलः ।
भवन्तु सुहृदो भावाः सदा त्वद्वशवर्तिनः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

बिब्बोकाद्यास्तथा हावाश्चतुःषष्टिकलास्तथा ।
कुर्वन्तु रत्याः सौहृद्यं सुहृदस्ते यथा तव ॥ ३७ ॥

मूलम्

बिब्बोकाद्यास्तथा हावाश्चतुःषष्टिकलास्तथा ।
कुर्वन्तु रत्याः सौहृद्यं सुहृदस्ते यथा तव ॥ ३७ ॥

विश्वास-प्रस्तुतिः

एभिः सहचरैः काम वसन्तप्रमुखैर्भवान् ।
अनया सहचारिण्या त्वद्युक्तपरिवारया ॥ ३८ ॥

मूलम्

एभिः सहचरैः काम वसन्तप्रमुखैर्भवान् ।
अनया सहचारिण्या त्वद्युक्तपरिवारया ॥ ३८ ॥

विश्वास-प्रस्तुतिः

मोहयस्व महादेवं कुरु सृष्टिं सनातनीम् ।
यथेष्टदेशं गच्छ त्वं सर्वः सहचरैर्वृतः ।
अहं तां भावयिष्यामि यो हरं मोहयिष्यति ॥ ३९ ॥

मूलम्

मोहयस्व महादेवं कुरु सृष्टिं सनातनीम् ।
यथेष्टदेशं गच्छ त्वं सर्वः सहचरैर्वृतः ।
अहं तां भावयिष्यामि यो हरं मोहयिष्यति ॥ ३९ ॥

विश्वास-प्रस्तुतिः

एवमुक्तोऽथ मदनः सुरज्येष्ठेन हर्षितः ।
जगाम सगणस्तत्र सपत्न्यनुचरस्तदा ॥ ४० ॥

मूलम्

एवमुक्तोऽथ मदनः सुरज्येष्ठेन हर्षितः ।
जगाम सगणस्तत्र सपत्न्यनुचरस्तदा ॥ ४० ॥

विश्वास-प्रस्तुतिः

दक्षं प्रणम्य तान् सर्वान् मानसानभिवाद्य च ।
यत्रास्ति शम्भुर्गतवांस्तत्स्थानं मन्मथस्तदा ॥ ४१ ॥

मूलम्

दक्षं प्रणम्य तान् सर्वान् मानसानभिवाद्य च ।
यत्रास्ति शम्भुर्गतवांस्तत्स्थानं मन्मथस्तदा ॥ ४१ ॥

विश्वास-प्रस्तुतिः

तस्मिन् गते सानुचरेऽथ मन्मथे शृङ्गारभावादियुते द्विजोत्तमाः ।
प्रोवाच दक्षं मधुरं पितामहः सार्धं मरीच्यत्रिमुखैर्मुनीश्वरैः ॥ ४२ ॥

मूलम्

तस्मिन् गते सानुचरेऽथ मन्मथे शृङ्गारभावादियुते द्विजोत्तमाः ।
प्रोवाच दक्षं मधुरं पितामहः सार्धं मरीच्यत्रिमुखैर्मुनीश्वरैः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

इति श्रीकालिकापुराणे वसन्तोत्पत्तौ चतुर्थोऽध्यायः ॥ ४ ॥

मूलम्

इति श्रीकालिकापुराणे वसन्तोत्पत्तौ चतुर्थोऽध्यायः ॥ ४ ॥