विश्वास-प्रस्तुतिः
तृतीयोऽध्यायः
मार्कण्डेय उवाच
ततः कोपसमाविष्टः पद्मयोनिर्जगत्पतिः ।
प्रजज्वालातिबलवद्दिधक्षुरिव पावकः ॥ १ ॥
मूलम्
तृतीयोऽध्यायः
मार्कण्डेय उवाच
ततः कोपसमाविष्टः पद्मयोनिर्जगत्पतिः ।
प्रजज्वालातिबलवद्दिधक्षुरिव पावकः ॥ १ ॥
विश्वास-प्रस्तुतिः
उवाच चेश्वरं कामो भवतः पुरतो यतः ।
पुष्पेषुभिर्मामभजत् तत्फलस्याप्नुयाद्वर ॥ २ ॥

तव नेत्राग्निनिर्दग्धः कन्दर्पो दर्पमोहितः ।
भविष्यति महादेव कृत्वा कर्मातिदुष्करम् ॥ ३ ॥

इति वेधाः स्वयं कामं शशाप द्विजसत्तमाः ।
समक्षं व्योमकेशस्य मुनीनाञ्च यतात्मनाम् ॥ ४ ॥

अथ भीतो रतिपतिस्तत्क्षणात् त्यक्तमार्गणः ।
प्रादुर्वभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ॥ ५ ॥

उवाच चेदं ब्रह्माणं सदक्षं समरीचिकम् ।
तथ्यञ्च गद्गतं भीत्या भीतिर्हि गुणहानिकृत् ॥ ६ ॥

मन्मथ उवाच
ब्रह्मन् किमर्थ भवता शप्तोऽहमतिदारुणम् ।
अनागस्तव लोकेश न्यायमार्गानुसारिणः ॥ ७ ॥

त्वयैवोक्तन्तु तत् कर्म यत्तु कुर्यामहं विभो ।
तत्र याग्यो न शापो मे यतो नान्यन्मया कृतम् ॥ ८ ॥

अहं विष्णुस्तथा शम्भुः सर्वे त्वच्छरगोचराः ।
इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् ॥ ९ ॥

नापराधो ममास्त्यत्र ब्रह्मन् मयि निरागसि ।
दारुणं शमयस्वैनं शाप मम जगत्पते ॥ १० ॥
मूलम्
नापराधो ममास्त्यत्र ब्रह्मन् मयि निरागसि ।
दारुणं शमयस्वैनं शाप मम जगत्पते ॥ १० ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इति तस्य वचः श्रुत्वा विधाता जगतां पतिः ।
प्रत्युवाच यतात्मानं मदनं सदयं मुहुः ॥ ११ ॥

ब्रह्मोवाच
आत्मजा मम सन्ध्येयं यस्मादेतत्सकाशतः ।
लक्ष्यीकृतोऽहं भवता ततः शापो मया कृतः ॥ १२ ॥

अधुना शान्तरोषोऽहं त्वां वदामि मनोभव ।
भवतः शापशमनं भविष्यति यथा तथा ॥ १३ ॥
मूलम्
अधुना शान्तरोषोऽहं त्वां वदामि मनोभव ।
भवतः शापशमनं भविष्यति यथा तथा ॥ १३ ॥
विश्वास-प्रस्तुतिः
त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना ।
तस्यैवानुग्रहात् पश्चाच्छरीरं समवाप्स्यसि ॥ १४ ॥

यदा हरो महादेवः कुर्याद्दारपरिग्रहम् ।
तदा स एव भवतः शरीरं प्रापयिष्यति ॥ १५ ॥
मूलम्
यदा हरो महादेवः कुर्याद्दारपरिग्रहम् ।
तदा स एव भवतः शरीरं प्रापयिष्यति ॥ १५ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
एवमुक्तवाथ मदनं ब्रह्मा लोकपितामहः ।
अन्तर्दधे मुनीन्द्राणां मानसानाञ्च पश्यताम् ॥ १६ ॥

तस्मिन्नन्तर्हिते शम्भूः सर्वेषाञ्च विधातरि ।
यथेष्टदेशं गतवान् ब्रह्मा (तदा (?)) मारुतरंहसा ॥ १७ ॥

वेधस्यन्तर्हिते तस्मिन् गते शम्भौ निजास्पदम् ।
दक्षः प्राहाथ कन्दर्प पत्नीं तस्य निदर्शयन् ॥ १८ ॥

दक्ष उवाच
मद्देहजेयं कन्दर्प मद्रूपगुणसंयुता ।
एनां गृह्णीष्व भार्यार्थ भवतः सद्दशीं गुणैः ॥ १९ ॥

एषा तव महातेजाः सर्वदा सहचारिणी ।
भविष्यति यथाकामं धर्मतो दशवर्तिनी ॥ २० ॥
मूलम्
एषा तव महातेजाः सर्वदा सहचारिणी ।
भविष्यति यथाकामं धर्मतो दशवर्तिनी ॥ २० ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इत्युक्ता प्रददौ दक्षौ देहस्वेदाम्बुसम्भवाम् ।
कन्दर्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥ २१ ॥

तां वीक्ष्य मदनो रामां रत्याख्यां सुमनोहराम् ।
आत्माशुगेन विद्धोऽसौ मुमोह रतिरञ्जितः ॥ २२ ॥

क्षणप्रभावदेकान्तगौरी मृगदृशी सदा ।
लोलापाङ्गवय तस्यैव मृगीव सदृशी वधौ ॥ ३३ ॥

तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोऽकरोत् ।
उन्मादकृन्मे कोदण्डं किं धात्रा स्यान्निवेशितम् ॥ २४ ॥

कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तमाः ।
आशुगत्वं निजास्त्राणां श्रद्दधे न च चारुताम् ॥ २५ ॥

तस्याः स्वभावसुरभिं धीरं श्वासानिलं तथा ।
आघ्राय मदनः श्रद्धां त्यक्तवान् मलयानिले ॥ २६ ॥

पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा भ्रूलक्ष्मलक्षितम् ।
न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ॥ २७ ॥

सुवर्णपद्मकलिकातुल्यं तस्याः कुचद्वयम् ।
रेजे चुचूकयुग्मेन भ्रमरेणेव सेवितम् ॥ २८ ॥

दृढपीनोन्नतघनस्तनन्ध्याद्विलम्बिनीम् ।
आनाभितो रोमराजिं तन्वी चार्वायतां शुभाम् ॥ २९ ॥

ज्यां पुष्पधनुषः कामः षट्पदावलिसम्भृताम् ।
विसस्मार च यस्मार्त्ता विगृह्यैनां निरीक्षते ॥ ३० ॥

गम्भीरनाभिरन्ध्रान्तश्चतुष्पार्श्वत्वमावृताम् ।
आननाब्जेक्षणद्वन्द्वमारक्तकमलं यथा ॥ ३१ ॥

क्षीणमध्येन वपुषा निसर्गाष्टपदप्रभा ।
रत्नवेदीव ददृशे कामेन द्विजसत्तमाः ॥ ३२ ॥

रम्भास्तम्भयातस्निग्धं तदुरुयुगलं मृदु ।
निजशक्तिसमं कामो वीक्षाञ्चक्रे मनोहरम् ॥ ३३ ॥

आरक्तपार्ष्णिपादाग्रप्रान्तभागं पदद्वयम् ।
अनुरागमयं चित्रं स्थतं तिस्यां मनोभवः ॥ ३४ ॥

तस्याः करयुगं रक्तनखरैः किंशुकोपमैः ।
वृत्ताभिरङ्गुलिभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥ ३५ ॥

इति दृष्ट्वा स्मरो मेने ममास्त्रैर्द्विगुणीकृतैः ।
मां मोहयितुमुद्युक्ता किमेषा द्विजसत्तमाः ॥ ३६ ॥

तद्वाहुयुगलं कान्तं मृणालयुगलायतम् ।
मृदुस्निग्धं रराजातिकान्तितोयप्रवाहवत् ॥ ३७ ॥

नीलनीरदसङ्काशः केशपाशो मनोहरः ।
चमरीबालभारवद्विभाति स्म स्मरप्रियः ॥ ३८ ॥

तां वीक्ष्य मदनो देवीं रतिमतिमनोहराम् ।
कान्तितोयौघसम्पूर्णा कुचवक्त्राब्जकुड्मलाम् ॥ ३९ ॥

वक्त्रपद्मां चारुबाहुमृणालशकलान्विताम् ।
भ्रूयुग्मविभ्रमद्व्राततनूर्मिपरिराजिताम् ॥ ४० ॥

कटाक्षपातभृङ्गीघां नेत्रनीलोत्पलान्विताम् ।
तनुलोमालिशैवालां मनोद्रुमविशातिनीम् ॥ ४१ ॥

निम्ननाभिह्रदां दक्षप्रालेयाद्रिसमुद्भवाम् ।
गङ्गामिव महादेवो जग्राहोत्फुल्ललोचनः ॥ ४२ ॥

उवाच च तदा सक्षं कामो मोदभरान्वितः ।
विस्मृत्य शापञ्च तदा विधिदत्तं सुदारुणम् ॥ ४३ ॥

मदन उवाच
अनया सहचारिण्या सम्यक् सुन्दररूपया ।
समर्थो मोहितुं शम्भुं किमन्यैर्जन्तुभिर्विधो ॥ ४४ ॥

यत्र यत्र मया लक्ष्यं क्रियते धनुषोऽनघ ।
तत्रानयापि चेष्टव्यं मायया रमणाह्वया ॥ ४५ ॥

यदा देवालयं यामि पृथिवीं वा रसातलम् ।
तदैषाप्यस्तु सध्रीची सर्वदा चारुहासिनी ॥ ४६ ॥

यथा पद्मालया विष्णोर्जलदानां यथा तडित् ।
यथा ममैषा भविता प्रजाध्यक्ष सहायिनी ॥ ४७ ॥
मूलम्
यथा पद्मालया विष्णोर्जलदानां यथा तडित् ।
यथा ममैषा भविता प्रजाध्यक्ष सहायिनी ॥ ४७ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
इत्युक्त्वा मदनो देवीं रतिं जग्राह सोत्सुकः ।
स्रागरादुत्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ॥ ४८ ॥

रराज स तया सार्धं भिन्नपीतप्रभः स्मरः ।
जोमूत इव सन्ध्यायां सौदामिन्या मनोज्ञया ॥ ४९ ॥

इति रतिपतिरुच्चैर्मोदयुक्तो रतिं तां हृदि परिजगृहे यां योगदर्शीव विद्याम् ।
रतिरपि पतिमग्र्यं प्राप्य तोषञ्च लेभे हरिमिव कमलोत्था पूर्णचन्द्रोपमास्या ॥
५० ॥

इति श्रीकालिकापुराणे रत्युत्पत्तौ तृतीयोऽध्यायः