०२

विश्वास-प्रस्तुतिः

द्वितीयोऽध्यायः

मार्कण्डेय उवाच

ततस्ते मुनयः सर्वे तदभिप्रायवेदिनः ।
चक्रुस्तदुचितं नाम मरीच्यत्रिमुखास्तदा ॥ १ ॥

मूलम्

मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः ।
दक्षादयस्तु स्रष्टारः स्थानं पत्नीञ्च ते ददुः ॥ २ ॥

ततो निश्चित्य नामानि मरीचि प्रमुखाद्विजाः ।
ऊचुः सङ्गतमेतस्मै पुरुषाय द्विजोत्तमाः ॥ ३ ॥

ऋषय ऊचुः

यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः ।
तस्मान्मन्मथनाम्ना त्वं लोके ख्यातो भविष्यसि ॥ ४ ॥

जगत्सु कामरूपस्त्वं त्वत्समो नहि विद्यते ।
अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ॥ ५ ॥

मदनान्मदनाख्यस्त्वं शम्भोर्दर्पाच्च दर्पकः ।
तदा कन्दर्पनाम्नापि लोके ख्यातो भविष्यति ॥ ६ ॥

त्वदाशुगानां यद्वीर्य तद्वीर्य न भविष्यति ।
वैष्णवानाञ्च रौद्राणां ब्रह्मास्त्राणाञ्च तादृशम् ॥ ७ ॥

स्वर्गे मर्त्त्ये च पाताले ब्रह्मलोके सनातने ।
तव स्थानानि सर्वाणि सर्वव्यापि भवान् यतः ।
किं वाचातिविशेषेण सामान्ये नास्ति ते समः ॥ ८ ॥

यत्र यत्र भवेत् प्राणी शाद्बलास्तरवोऽथवा ।
तत्र तत्र तव स्थानमस्त्वाब्रह्मसदोदयम् ॥ ९ ॥

दक्षोऽयं भवतः पत्नीं स्वयं दास्यति शोभनाम् ।
आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तम ॥ १० ॥

एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ।
सन्ध्यानामेति विख्याता सर्वे लोके भविष्यति ॥ ११ ॥

ब्रह्मणो ध्यायतो यस्मात् सम्यग्जाता वराङ्गना ।
अतः सन्ध्येति लोकेऽस्मिन्नस्याः ख्यातिर्भविष्यति ॥ १२ ॥

मूलम्

ब्रह्मणो ध्यायतो यस्मात् सम्यग्जाता वराङ्गना ।
अतः सन्ध्येति लोकेऽस्मिन्नस्याः ख्यातिर्भविष्यति ॥ १२ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इत्युक्त्वा मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः ।
अवेक्ष्य ब्रह्मवदनं निनयावनताः पुरः ॥ १३ ॥

ततः कामोऽपि कोदण्डमादाय कुसुमोद्भवम् ।
उन्मादनेति विख्यातं कान्ताभ्रूतुल्यवेल्लितम् ॥ १४ ॥

कौसुमानि तथास्त्राणि पञ्चादाय द्विजोत्तमाः ।
हर्षणं रोचनाख्यञ्च मोहनं शोषणं तथा ॥ १५ ॥

मारणञ्चेति सञ्ज्ञाभिर्मुनिमोहकराण्यपि ।
प्रच्छन्नरूपी तत्रैव चिन्तयामास निश्चयम् ॥ १६ ॥

ब्रह्मणा मम यत्कार्यं समुद्दिष्टं सदातनम् ।
तदिहैव करिष्यामि मुनीनां सन्निधौ विधेः ॥ १७ ॥

तिष्ठन्ति मुनयश्चात्र स्वयञ्चापि प्रजापतिः ।
एषा सन्ध्यापि ब्रह्मणा प्रोक्त्तमिदानोमेव यद्वचः ॥ १९ ॥

अहं विष्णुर्हरश्चापि तवास्त्रवशवर्तिनः ।
किमन्यैर्जन्तुभिरिति तत्सार्थं करवाण्यहम् ॥ २० ॥

मूलम्

अहं विष्णुर्हरश्चापि तवास्त्रवशवर्तिनः ।
किमन्यैर्जन्तुभिरिति तत्सार्थं करवाण्यहम् ॥ २० ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इति सञ्चित्यमनसा निश्चित्य च मनोभवः ।
पुष्पज्यां पुष्पचापस्य याजयामास मार्गणैः ॥ २१ ॥

आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।
चकार वलयाकारं कामो धन्विवरस्तदा ॥ २२ ॥

मूलम्

आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।
चकार वलयाकारं कामो धन्विवरस्तदा ॥ २२ ॥

विश्वास-प्रस्तुतिः

सहिते तेन कोदण्डे मारुताश्च सुगन्धयः ।
ववुस्तत्र मुनिश्रेष्ठाः सम्यगाह्लदकारिणः ॥ २३ ॥

ततस्तानथ धात्रादीन् सर्वानेव च मानसान् ।
पृथक् पृथक् पुष्पशरैर्मोहयामास मोहनः ॥ २४ ॥

ततस्ते मुनयः सर्वे मोहिताश्चतुराननः ।
मोहितो मनसा किञ्चिद्विकारं प्रापुरादितः ॥ २५ ॥

सन्ध्यां सर्वे निरीक्षन्तः सविकाराः मुहुर्मुहुः ।
आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदवर्धिनी ॥ २६ ॥

ततः सर्वान् स मदनो मोहयित्वा पुनः पुनः ।
यथेन्द्रियविकारांस्ते प्रापुस्तानकरोत्तथा ॥ २७ ॥

उदीरितेन्द्रियो धाता वीक्षाञ्चक्रे यदाथ ताम् ।
तदैव ह्यूनपञ्चाशद्भावा जाताः शरीरतः ॥ २८ ॥

विव्वोकाद्यास्तथा हावाश्चतुःषष्टिकलास्तथा ।
कन्दर्पशरविद्धायाः सन्ध्याया अभवन् द्विजाः ॥ २९ ॥

सापि तैर्वीक्ष्यमाणाथ कन्दर्पशरपातजान् ।
चक्रे मुहुर्मुहुर्भावान् कटाक्षावरणादिकान् ॥ ३० ॥

निसर्गसुन्दरो सन्ध्या तान् भावान् मदनोद्भवान् ।
कुर्वन्त्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ॥ ३१ ॥

अथ भावयुवां सन्ध्यां वीक्षमाणः प्रजापतिः ।
धमम्भिःपूरिततनुरभिलाषमथाकरोत् ॥ ३२ ॥

ततस्ते मुनयः सर्वे मरीच्यत्रिमुखा अपि ।
दक्षाद्याश्च द्विजश्रेष्ठाः प्रापुर्वैकारिकेन्द्रियम् ॥ ३३ ॥

दृष्ट्वा तथाविधान् दक्षमरीचिप्रमुखान् विधिम् ।
सन्ध्याञ्च कर्मणि निजे श्रदृधे मदनस्तदा ॥ ३४ ॥

यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ।
कर्तुं शक्यमिति श्रद्धाभावितात्माभवत्तदा ॥ ३५ ॥

ततो वियद्गतः शम्भुर्विधिं दृष्ट्वा तथाविधम् ।
सदक्षान्मानसांश्चापि जहासोपजहास च ॥ ३६ ॥

ससाधुवादं तान् सर्वान् विहस्य च पुनः पुनः ।
उवाचेदं द्विजश्रेष्ठा लज्जयंस्तान् वृषध्वजः ॥ ३७ ॥

ईश्वर उवाच

अहो ब्रह्मंस्तव कहं कामभावः समुद्गतः ।
दृष्ट्वा स्वतनयां नैतद् योग्यं वेदानुसारिणाम् ॥ ३८ ॥

यथा माता तथा जामिर्यया जामिस्तथा सुता ।
एष वै वेदमार्गस्य निश्चयस्त्वन्मुखोत्थितः ।
कथन्तु काममात्रेण तत्ते विस्मारितं विधे ॥ ३९ ॥

धैर्ये जगदिदं ब्रह्मन् समस्तं चतुरानन ।
कथं क्षुद्रेण कामेन तत्ते विघटितं विधे ॥ ४० ॥

एकान्तयोगिनः कस्मात् सर्वदा दिव्यदर्शनाः ।
कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ॥ ४१ ॥

कथं कामोऽपि मन्दात्मा प्राप्तकर्माधुनैव तु ।
युष्मान् शरव्यान् कृतवानकालज्ञोऽल्पचेतनः ॥ ४२ ॥

धिगस्तु तं मुनिश्रेष्ठ यस्य कान्ताजनो हठाद् ।
धैर्यमाकृष्य लौल्येषु मज्जयत्यपि तन्मनः ॥ ४३ ॥

मूलम्

धिगस्तु तं मुनिश्रेष्ठ यस्य कान्ताजनो हठाद् ।
धैर्यमाकृष्य लौल्येषु मज्जयत्यपि तन्मनः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच

इति तस्य वचः श्रुत्वा लोकेशो गिरिशस्य च ।
व्रीडया द्विगुणोभूतस्वेदार्द्रो ह्यभवत् क्षणात् ॥ ४४ ॥

ततो निगृह्यैन्द्रियकं विकारं चतुराननः ।
जिघृक्षुरपि तत्याज तां सन्ध्यां कामरूपिणीम् ॥ ४५ ॥

तच्छरीरात्तु धर्माम्भो यत् पपात द्विजोत्तमाः ।
अग्निष्वात्ता वर्हिषदो जाताः पितृगणास्ततः ॥ ४६ ॥

भिन्नाञ्जननिभाः सर्वे फूल्लरा जीवलोचनाः ।
नितान्तयतयः पुण्याः संसारविमुखाः पराः ॥ ४७ ॥

सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिताः ।
षडशीतिसहस्राणि तथा वर्हिषदो द्विजाः ॥ ४८ ॥

धर्माम्भः पतितं भूमौ यद्दक्षस्य शरीरतः ।
समस्तगुणसम्पन्ना तस्माज्जाता वराङ्गनाः ॥ ४९ ॥

तन्वङ्गी तनुमध्या च तनुरोमावली शुभा ।
मृद्वङ्गी चारुदशना तप्तकाञ्चनसुप्रभा ॥ ५० ॥

मरीचिप्रमुखैः षड्भिर्निगृहीतेन्द्रियक्रिया ।
ऋते ऋतुं वशिष्ठञ्च पुलस्त्याङ्गिरसौ तदा ॥ ५१ ॥

ऋत्वादीना। चतुर्णाञ्च यो भूमौ निपपात ह ।
ततः पितृगणा जाता अपरे द्विजसत्तमाः ॥ ५२ ॥

सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ।
हविर्भुजस्तु ते सर्वे कव्यवाहा प्रकीर्तिताः ॥ ५३ ॥

ऋतोस्तु सोमपाः पुत्रा वशिष्ठस्य सुकालिनः ।
आज्यपाख्याः पुलस्त्यस्य हविष्मन्तोऽङ्गिरः सुताः ॥ ५४ ॥

जातेषु तेषु विप्रेन्द्रा अग्निष्वात्तादिकेष्वथ ।
लोकानां पितृवर्गेषु कव्यवाहाः समन्ततः ॥ ५५ ॥

सर्वेषामेव भूतानां ब्रह्मा भूतपितामहः ।
सन्ध्या पितृप्रसूर्भुता तदुद्देशाद्यतोऽभवत् ॥ ५६ ॥

अथ शङ्करवाक्येन लज्जितः स पितामहः ।
कन्दर्पाय चुकोपाशु भ्रूकुटीकुटिलाननः ॥ ५७ ॥

पुरैव तदभिप्रायं विदित्वा सोऽपि मन्मथः ।
स्वबाणान् सञ्जहाराशु भीतः पशुपतेर्विधेः ॥ ५८ ॥

ततः क्रोधसमाविष्टो ब्रह्मा लोकापितामहः ।
यच्चकार द्विजेन्द्रास्तच्छृणुध्वं सुखमाहिताः ॥ ५९ ॥

इति श्रीकालिकापुराणे ब्रह्ममोहनो नाथ द्वितीयोऽध्यायः ॥ २ ॥