प्रथमोऽध्यायः
विश्वास-प्रस्तुतिः
यद् योगिभिर्भवभयार्तिविनाशयोग्यमासाद्य वन्दितमतीवविविक्तचित्तैः ।
तद् वः पुनातु हरिपादस रोजयुग्ममाविर्भवत् क्रमविलङ्घितभूर्भुवः स्वः ॥ १ ॥
मूलम्

सा पातु वः सकलयोगिजनस्य चित्तेऽविद्यातमिस्रतरणिर्यतिमुक्तिहेतुः ।
या चास्य जन्तुनिवहस्य विमोहिनीति माया विभोर्जनुषि शुद्धकुबुद्धिहन्त्री ॥ २ ॥

ईश्वरं जगतामाद्यं प्रणम्य पुरुषोत्तमम् ।
नित्यज्ञानमयं वक्ष्ये पुराणं कालिकाह्वयम् ॥ ३ ॥

मार्कण्डेयं मुनिश्रेष्ठं स्थितं हिमधरान्तिके ।
मुनयः परिपप्रच्छुः प्रणम्य कमठादयः ॥ ४ ॥

भगवन् सम्यगाख्यात सर्वशास्त्रा।इ तत्त्वतः ।
वेदान् सर्वांस्तथा साङ्गान् सारभूतं प्रमथ्य च ॥ ५ ॥

सर्ववेदेषु शास्त्रेषु यो यो नः संशयोऽभवत् ।
स स च्छिन्नस्त्वया ब्रह्मन् सवित्रेव तमश्चयः ॥ ६ ॥

जैवातृकाग्र्य भवतः प्रसादाद्द्विजसत्तम ।
निःसंशया वयं जाता वेदे शास्त्रे च सर्वशः ॥ ७ ॥

कृतकृत्या वयं ब्रह्मंस्त्वत्तोऽधीत्य समन्ततः ।
सरहस्यं धर्मशास्त्रं यदवादि स्वयम्भुवा ॥ ८ ॥

भूयस्तच्छ्रोतुमिच्छामो हरं काली पुरा कथम् ।
मोहयामास यतिनं सतीरूपेण चेश्वरम् ॥ ९ ॥

सर्वदा ध्याननिलयं यमिनं यतिनां वरम् ।
सङ्क्षोभयामास कथं संसारविमुखं हरम् ॥ १० ॥

सती वा कथमुत्पन्ना दक्षदारासु शोभना ।
कथं हरो मनश्चक्रे दारग्रहणकर्मणि ॥ ११ ॥
मूलम्
सती वा कथमुत्पन्ना दक्षदारासु शोभना ।
कथं हरो मनश्चक्रे दारग्रहणकर्मणि ॥ ११ ॥
विश्वास-प्रस्तुतिः
कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा ।
हिमवत्तनया जाता भूयो वा कथमागता ॥ १२ ॥
मूलम्
कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा ।
हिमवत्तनया जाता भूयो वा कथमागता ॥ १२ ॥
विश्वास-प्रस्तुतिः
कथमर्धशरीरं साऽहरत स्मररिपोः पुनः ।
एतत् सर्वं समाचक्ष्व विस्तरेण द्विजोत्तम ॥ १३ ॥

नान्योऽस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ।
यथा जानीम विप्रेन्द्र तत् कुरुष्वैतदात्मवित् ॥ १४ ॥

मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
शृणुध्वं मुनयः सर्वे गुह्याद् गुह्यतरं मम ।
पुण्यं शुभकरं सम्यग् ज्ञानदं कामदं परम् ॥ १५ ॥

एतद् ब्रह्मा पुरोवाच नारदाय महात्मने ।
पृष्टस्तेन ततः सोऽपि बालखिल्येभ्य उक्तवान् ॥ १६ ॥

बालखिल्या महात्मानस्तत आचक्षिरे पुनः ।
यवक्रीताय मुनये स प्रोवाचासिताय च ॥ १७ ॥

असितो मे समाचष्ट एतद्विस्तरतो द्विजाः ।
अहं वः कथयिष्यामि कथामेतां पुरातनीम् ।
प्रणम्य परमात्मानं चक्रपाणिं जगत्पतिम् ॥ १८ ॥

व्यक्ताव्यक्तस्वरूपाय सदसद्व्यक्तिरूपिणे ।
स्थूलाय सूक्ष्मरूपाय विश्वरूपाय वेधसे ॥ १९ ॥

नित्याय नित्यज्ञानाय निर्विकाराय तेजसे ।
विद्याविद्यास्वरूपाय कालरूपाय वैनमः ॥ २० ॥

निर्मलायोर्मिषट्कादिरहिताय विरागिणे ।
व्यापिने विश्वरूपाय सृष्टिस्थित्यन्तकारिणे ॥ २१ ॥

योगिभिश्चिन्त्यते योऽसौ वेदान्तान्तगचिन्तकैः ।
अन्तरन्तः परञ्ज्योतिःस्वरूपं प्रणमामि तम् ॥ २२ ॥

तमेवाराध्य भगवान् ब्रह्मा लोकपितामहः ।
प्रजाः ससजं सकलाः सुरासुन्नरादिकाः ॥ २३ ॥

सृष्ट्वा प्रजापतीन् दक्षप्रमुखान् स यथाविधि ।
मरीचिमत्रिं पुलहं तथैवाङ्गिरस क्रतुम् ॥ २४ ॥

पुलस्त्यञ्च वशिष्ठञ्च नारदञ्च प्रचेतसम् ।
भृगुञ्च मानसान् पुत्रान् यदा दश ससर्ज सः ॥

नाम्ना सन्ध्येतिविख्याता साम्यनसन्ध्या गायत्रिका ।
न तादृशी देवलोके न मर्त्त्ये न रसातले ।
कालत्रयेऽपि भविता सम्पूर्णगुणशालिनी ॥२६ ॥

निसर्गचारुनीलेन कचभारेण राजते ।
मयूरीव विचित्रेण वर्षासु द्विजसत्तमाः ॥ २७ ॥

आरक्तगौरमलिनमाकर्णान्तं तथालकैः ।
रेजे सुराधिपधनुश्चारुबालेन्दुसन्निभम् ॥ २८ ॥

प्रफुल्लनीलनलिनश्यामलं नयनद्वयम् ।
चकाशे चकितायास्तु कुरङ्ग्याः सदृशं चलम् ॥ २९ ॥

निसर्गचञ्चलं चारु भ्रू युग्मं श्रवणायतम् ।
मीनाङ्ककोदण्डसमं नीलं तस्या द्विजोत्तमाः ॥ ३० ॥

भ्रूमध्याधोनिम्नभागादायतप्रांशुनासिका ।
लवण्यानि द्रवन्तीव ललाटात्तिलपुष्पवत् ॥ ३१ ॥

तद्वक्त्रं शोणपद्माभपूर्णचन्द्रसमप्रभम् ।
बिम्बाधरारुणिम्नाभीरेजे रागिमनोहरम् ॥ ३२ ॥

सौन्दर्यलावण्यगुणैरापूर्णं वदनं पुनः ।
अभितश्चिवुकं यातुमुद्यताविव तत्कुचौ ॥ ३३ ॥

राजीवकुट्मलाकारौ पीनोत्तुङ्गौ निरन्तरौ ।
श्मामास्यौ तत्कुचौ विप्रा मुनीनामपि मोहनौ ॥ ३४ ॥

वलिभाजि क्षीणमध्यं मुष्टिग्राह्यमिवांशुकम् ।
तन्मध्यं ददृशुः सर्वे शक्तितुल्यं मनोभुवः ॥ ३५ ॥

तस्याश्चोरुयुगं रेजे स्थूलोर्ध्वं करभायतम् ।
आनमद्वारणकरप्रतिमं मृदुमन्थरम् ॥ ३६ ॥

स्थलाम्बुजारुणं पादयुग्मं सत्पार्ष्णिराजितम् ।
अङ्गुलीदलसङ्कीर्णं कुसुमायुधबाणवत् ॥ ३७ ॥

तां चारुदर्शनां तन्वीं तनुरोमावलीवृताम् ।
सस्वेदवदनां दीर्घनयनां चारुहासिनीम् ॥ ३८ ॥

चारुकर्णयुग्मां कान्तां त्रिगम्भीरां षडुन्नताम् ।
दृष्ट्वा धाता समुत्थाय चिन्तयामास हृद्गतम् ॥ ३९ ॥

दक्षादयस्ते स्रष्टारो मरीच्याद्यास्तु मानसाः ।
दध्युः समुत्सुकाः सर्वे तां दृष्ट्वा वरवर्णिनीम् ॥ ४० ॥

किं कर्मास्या भवेत् सृष्टौ कस्य वा वरवर्।इनी ।
भविष्यतीति ते सर्वे चिन्तयामासुरुत्त्सुकाः ॥ ४१ ॥

एवं चिन्तयतस्तस्य ब्रह्मणो मुनिसत्तमाः ।
मनसः पुरुषो बल्गुराविर्भूतो विनिसृताः ॥ ४२ ॥

काञ्चनीचूर्णपीताभः पीनोरस्कः सुनासिकः ।
सुवृत्तोरुकटीजङ्घो नीलवेष्टितकेशरः ।
लग्न भ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ॥ ४३ ॥

कपाटविस्तीर्णहृदि रोमराजिविराजितः ।
शुभ्रमातङ्गकरवत् पीननिस्तलबाहुकः ।
आरक्तपाणिनयनमुखपादकरोद्भवः ॥ ४४ ॥
मूलम्
कपाटविस्तीर्णहृदि रोमराजिविराजितः ।
शुभ्रमातङ्गकरवत् पीननिस्तलबाहुकः ।
आरक्तपाणिनयनमुखपादकरोद्भवः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
क्षीणमध्यश्चारुदन्तः प्रमत्तगजकन्धरः ।
प्रफुल्लपद्मपत्राक्षः केशरघ्राणतर्पणः ।
कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ॥ ४५ ॥

पञ्चपुष्पायुधो वेगी पुष्पकोदण्डमण्डितः ।
कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् ॥ ४६ ॥

सुगन्धिमरुता भ्रान्त शृङ्गाररससेवितम् ।
तं वीक्ष्य तादृशं दक्षप्रमुखा मानसाश्च ते ॥ ४७ ॥

मरीच्याद्या दश ततो विस्मयाविष्टचेतसः ।
औत्सुक्यं परमं जग्मुरापुर्वैकारिकं मनः ॥ ४८ ॥

चास पि वेधस वीक्ष्य स्रष्टार जगतां पतिम् ।
प्रणम्य पुरुषः प्राह विनयानतकन्धरः ॥ ४९ ॥

पुरुष उवाच
विश्वास-प्रस्तुतिः
किं करिष्याम्यहं कर्म ब्रह्मस्तत्र नियोजय ।
मां न्याय्ये पुरुषो यस्मादुचिते शोभते विधे ॥ ५० ॥

अभिधानं च यद्योग्यं स्थानं पत्नी च या मम ।
तन्मे कुरुष्व लोकेशत्वं स्रष्टा जगतां यतः ॥ ५१ ॥
मूलम्
अभिधानं च यद्योग्यं स्थानं पत्नी च या मम ।
तन्मे कुरुष्व लोकेशत्वं स्रष्टा जगतां यतः ॥ ५१ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः ।
क्षणं न किञ्चित् प्रोवाच स्वसृष्टावपि विस्मितः ॥ ५२ ॥

ततो मनः सुसंयम्य सम्यगुत्सृज्य विस्मयम् ।
उवाच पुरुषं ब्रह्मा तत्कर्मोद्देशमावहन् ॥ ५३ ॥

ब्रह्मोवाच
विश्वास-प्रस्तुतिः
अनेन चारुरूपेण पुष्पबाणैश्च पञ्चभिः ।
मोहयन् पुरुषान् स्त्रींश्च कुरु सृष्टि सनातनीम् ॥ ५४ ॥

न देवो न च गन्धर्वो न किन्नरमहोरगाः ।
नासुरो न च दैत्यो वा न विद्याधरराक्षसाः ॥ ५५ ॥

न यक्षा न पिशाचाश्च न भूता न विनायकाः ।
न गुह्यका न वा सिद्धा न मनुष्या न पक्षिणः ॥ ५६ ॥

पशवो न मृगाः कीटपतङ्गाजलजाश्च ये ।
न ते सर्वे भविष्यन्ति न लक्ष्या ये शरस्य ते ॥ ५७ ॥

अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः ।
भविष्यामस्तव वशे किमन्यैः प्राणधारिभिः ॥ ५८ ॥

प्रच्छन्नरूपी जन्तूनां प्रविशन् हृदयं सदा ।
सुखहेतुः स्वयं भूत्वा कुरु सृष्टिं सनातनीम् ॥ ५९ ॥

त्वत्पुष्पवाणस्य सदा मुक्यं लक्ष्यं मनोऽस्तु तत् ।
सर्वेषां प्राणिनां नित्यं मदमोदकरो भवान् ॥ ६० ॥

इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः ।
नामापि च गदिष्यामि यत्ते योग्यं भविष्यति ॥ ६१ ॥
मूलम्
इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः ।
नामापि च गदिष्यामि यत्ते योग्यं भविष्यति ॥ ६१ ॥
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
इत्युक्त्वाथ सुरश्रेष्ठो मानसानां मुखानि च ।
आलोक्य स्वासने पद्मे सूपविष्टोऽभवन् क्षणात् ॥ ६२ ॥

इति श्रीश्रीकालिकापुराणे कामप्रादुर्भावो नाथ प्रथमोऽध्यायः ॥ १ ॥