श्रीनारायण उवाच
ध्यानं च कण्वशाखोक्तं सर्वपापप्रणाशनम् ।
श्वेतपङ्कजवर्णाभां गङ्गां पापप्रणाशिनीम् ॥ १ ॥
कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ २ ॥
शरत्पूर्णेन्दुशतकमृष्टशोभाकरां पराम् ।
ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ ३ ॥
नारायणप्रियां शान्तां तत्सौभाग्यसमन्विताम् ।
बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ॥ ४ ॥
सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः ।
कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ॥ ५ ॥
पक्वबिम्बविनिन्द्याच्छचार्वोष्ठपुटमुत्तमम् ।
मुक्तापङ्क्तिप्रभामुष्टदन्तपङ्क्तिमनोरमम् ॥ ६ ॥
सुचारुवक्त्रनयनं सकटाक्षं मनोहरम् ।
कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम् ॥ ७ ॥
बृहच्छ्रोणि सुकठिनां रम्भास्तम्भविनिन्दिताम् ।
स्थलपद्मप्रभामुष्टपादपद्मयुगं वरम् ॥ ८ ॥
रत्नपादुकसंयुक्तं कुङ्कुमाक्तं सयावकम् ।
देवेन्द्रमौलिमन्दारमकरन्दकणारुणम् ॥ ९ ॥
सुरसिद्धमुनीन्द्रैश्च दत्तार्घसंयुतं सदा ।
तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ॥ १० ॥
मुक्तिप्रदं मुमुक्षूणां कामिनां सर्वभोगदम् ।
वरां वरेण्यां वरदां भक्तानुग्रहकारिणीम् ॥ ११ ॥
श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम् ।
इत्यनेनैव ध्यानेन ध्यात्वा त्रिपथगां शुभाम् ॥ १२ ॥
दत्त्वा सम्पूजयेद् ब्रह्मन्नुपचाराणि षोडश ।
आसनं पाद्यमर्ध्यं च स्नानीयं चानुलेपनम् ॥ १३ ॥
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् ।
वसनं भूषणं माल्यं गन्धमाचमनीयकम् ॥ १४ ॥
मनोहरं सुतल्पं च देयान्येतानि षोडश ।
दत्त्वा भक्त्या च प्रणमेत्संस्तूय सम्पुटाञ्जलिः ॥ १५ ॥
सम्पूज्यैव प्रकारेण सोऽश्वमेधफलं लभेत् ।
नारद उवाच
श्रोतुमिच्छामि देवेश लक्ष्मीकान्त जगत्पते ॥ १६ ॥
विष्णोर्विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारकम् ।
श्रीनारायण उवाच
शृणु नारद वक्ष्यामि पापघ्नं पुण्यकारकम् ॥ १७ ॥
शिवसङ्गीतसम्मुग्धश्रीकृष्णाङ्गसमुद्भवाम् ।
राधाङ्गद्रवसंयुक्तां तां गङ्गां प्रणमाम्यहम् ॥ १८ ॥
यज्जन्म सृष्टेरादौ च गोलोके रासमण्डले ।
सन्निधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ॥ १९ ॥
गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे ।
कार्तिकीपूर्णिमायां च तां गङ्गां प्रणमाम्यहम् ॥ २० ॥
कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः ।
समावृता या गोलोके तां गङ्गां प्रणमाम्यहम् ॥ २१ ॥
षष्टिलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा ।
समावृता या वैकुण्ठे तां गङ्गां प्रणमाम्यहम् ॥ २२ ॥
त्रिंशल्लक्षयोजना या दैर्घ्ये पञ्चगुणा ततः ।
आवृता ब्रह्मलोके या तां गङ्गां प्रणमाम्यहम् ॥ २३ ॥
त्रिंशल्लक्षयोजना या दैर्घ्ये चतुर्गुणा ततः ।
आवृता शिवलोके या तां गङ्गां प्रणमाम्यहम् ॥ २४ ॥
लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ।
आवृता धुवलोके या तां गङ्गां प्रणमाम्यहम् ॥ २५ ॥
लक्षयोजनविस्तीर्णा दैर्घ्ये पञ्चगुणा ततः ।
आवृता चन्द्रलोके या तां गङ्गां प्रणमाम्यहम्॥ २६ ॥
षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः ।
आवृता सूर्यलोके या तां गङ्गां प्रणमाम्यहम् ॥ २७ ॥
लक्षयोजनविस्तीर्णा दैर्घ्ये पञ्चगुणा ततः ।
आवृता या तपोलोके तां गङ्गां प्रणमाम्यहम् ॥ २८ ॥
सहस्रयोजनायामा दैर्घ्ये दशगुणा ततः ।
आवृता जनलोके या तां गङ्गां प्रणमाम्यहम् ॥ २९ ॥
दशलक्षयोजना या दैर्घ्ये पञ्चगुणा ततः ।
आवृता या महर्लोके तां गङ्गां प्रणमाम्यहम् ॥ ३० ॥
सहस्रयोजनायामा दैर्घ्ये शतगुणा ततः ।
आवृता या च कैलासे तां गङ्गां प्रणमाम्यहम् ॥ ३१ ॥
शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः ।
मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम् ॥ ३२ ॥
पाताले भोगवती च विस्तीर्णा दशयोजना ।
ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम् ॥ ३३ ॥
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् ।
क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ॥ ३४ ॥
सत्ये या क्षीरवर्णा च त्रेतायामिन्दुसन्निभा ।
द्वापरे चन्दनाभा या तां गङ्गां प्रणमाम्यहम् ॥ ३५ ॥
जलप्रभा कलौ या च नान्यत्र पृथिवीतले ।
स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ॥ ३६ ॥
यत्तोयकणिकास्पर्शे पापिनां ज्ञानसम्भवः ।
ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ ३७ ॥
इत्येवं कथिता ब्रह्मन् गङ्गापद्मैकविंशतिः ।
स्तोत्ररूपं च परमं पापघ्नं पुण्यजीवनम् ॥ ३८ ॥
नित्यं यो हि पठेद्भक्त्या सम्पूज्य च सुरेश्वरीम् ।
सोऽश्वमेधफलं नित्यं लभते नात्र संशयः ॥ ३९ ॥
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्स्त्रियम् ।
रोगात्प्रमुच्यते रोगी बन्धान्मुक्तो भवेद् ध्रुवम् ॥ ४० ॥
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ।
यः पठेत्प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥ ४१ ॥
शुभं भवेच्च दुःस्वप्ने गङ्गास्नानफलं लभेत् ।
श्रीनारायण उवाच
स्तोत्रेणानेन गङ्गा च स्तुत्वा चैव भगीरथः ॥ ४२ ॥
जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः ।
वैकुण्ठं ते ययुस्तूर्णं गङ्गायाः स्पर्शवायुना ॥ ४३ ॥
भगीरथेन सा नीता तेन भागीरथी स्मृता ।
इत्येवं कथितं सर्वं गङ्गोपाख्यानमुत्तमम् ॥ ४४ ॥
पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।
नारद उवाच
कथं गङ्गा त्रिपथगा जाता भुवनपावनी ॥ ४५ ॥
कुत्र वा केन विधिना तत्सर्वं वद मे प्रभो ।
तत्रस्थाश्च जना ये ये ते च किं चक्रुरुत्तमम् ॥ ४६ ॥
एतत्सर्वं तु विस्तीर्णं कृत्वा वक्तुमिहार्हसि ।
श्रीनारायणाय उवाच
कार्तिक्यां पूर्णिमायां तु राधायाः सुमहोत्सवः ॥ ४७ ॥
कृष्णः सम्पूज्य तां राधामुवास रासमण्डले ।
कृष्णेन पूजितां तां तु सम्पूज्य हृष्टमानसाः ॥ ४८ ॥
ऊषुर्ब्रह्मादयः सर्वे ऋषयः शौनकादयः ।
एतस्मिन्नन्तरे कृष्णसङ्गीता च सरस्वती ॥ ४९ ॥
जगौ सुन्दरतालेन वीणया च मनोहरम् ।
तुष्टो ब्रह्मा ददौ तस्यै रत्नेन्द्रसारहारकम् ॥ ५० ॥
शिवो मणीन्द्रसारं तु सर्वब्रह्माण्डदुर्लभम् ।
कृष्णः कौस्तुभरत्नं च सर्वरत्नात्परं वरम् ॥ ५१ ॥
अमूल्यरत्ननिर्माणं हारसारं च राधिका ।
नारायणश्च भगवान् ददौ मालां मनोहराम् ॥ ५२ ॥
अमूल्यरत्ननिर्माणं लक्ष्मीः कनककुण्डलम् ।
विष्णुमाया भगवती मूलप्रकृतिरीश्वरी ॥ ५३ ॥
दुर्गा नारायणीशाना ब्रह्मभक्तिं सुदुर्लभाम् ।
धर्मबुद्धिं च धर्मश्च यशश्च विपुलं भवे ॥ ५४ ॥
वह्निशुद्धांशुकं वह्निर्वायुश्च मणिनूपुरान् ।
एतस्मिन्नन्तरे शम्भुर्ब्रह्मणा प्रेरितो मुहुः ॥ ५५ ॥
जगौ श्रीकृष्णसङ्गीतं रासोल्लाससमन्वितम् ।
मूर्च्छां प्रापुः सुराः सर्वे चित्रपुत्तलिका यथा ॥ ५६ ॥
कष्टेन चेतनां प्राप्य ददृशू रासमण्डले ।
स्थलं सर्वं जलाकीर्णं राधाकृष्णविहीनकम् ॥ ५७ ॥
अत्युच्चै रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः ।
ध्यानेन ब्रह्मा बुबुधे सर्वं तीर्थमभीप्सितम् ॥ ५८ ॥
गतश्च राधया सार्धं श्रीकृष्णो द्रवतामिति ।
ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरम् ॥ ५९ ॥
स्वमूर्तिं दर्शय विभो वाञ्छितं वरमेव नः ।
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ॥ ६० ॥
तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरान्विताम् ।
सर्वात्माहमियं शक्तिर्भक्तानुग्रहविग्रहा ॥ ६१ ॥
ममाप्यस्याश्च देहेन कर्तव्यं च किमावयोः ।
मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः ॥ ६२ ॥
मन्मन्त्रपूता मां द्रष्टुमागमिष्यन्ति मत्पदम् ।
मूर्तिं द्रष्टुं च सुव्यक्तां यदीच्छथ सुरेश्वराः ॥ ६३ ॥
करोतु शम्भुस्तत्रैवं मदीयं वाक्यपालनम् ।
स्वयं विधातस्त्वं ब्रह्मन्नाज्ञां कुरु जगद्गुरुम् ॥ ६४ ॥
कर्तुं शास्त्रविशेषं च वेदाङ्गं सुमनोहरम् ।
अपूर्वमन्त्रनिकरैः सर्वाभीष्टफलप्रदैः ॥ ६५ ॥
स्तोत्रैश्च निकरैर्ध्यानैर्युतं पूजाविधिक्रमैः ।
मन्मन्त्रकवचस्तोत्रं कृत्वा यत्नेन गोपनम् ॥ ६६ ॥
भवन्ति विमुखा येन जना मां तत्करिष्यति ।
सहस्रेषु शतेष्वेको मन्मन्त्रोपासको भवेत् ॥ ६७ ॥
जना मन्मन्त्रपूताश्च गमिष्यन्ति च मत्पदम् ।
अन्यथा न भविष्यन्ति सर्वे गोलोकवासिनः ॥ ६८ ॥
निष्कलं भविता सर्वं ब्रह्माण्डं चैव ब्रह्मणः ।
जनाः पञ्चप्रकाराश्च युक्ताः स्रष्टुं भवे भवे ॥ ६९ ॥
पृथिवीवासिनः केचित्केचित्स्वर्गनिवासिनः ।
इदं कर्तुं महादेवः करोति देवसंसदि ॥ ७० ॥
प्रतिज्ञां सुदृढां सद्यस्ततो मूर्तिं च द्रक्ष्यति ।
इत्येवमुक्त्वा गगने विरराम सनातनः ॥ ७१ ॥
तच्छ्रुत्वा जगतां धाता तमुवाच शिवं मुदा ।
ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनां वरः ॥ ७२ ॥
गङ्गातोयं करे कृत्वा स्वीकारं च चकार सः ।
संयुक्तं विष्णुमायाया मन्त्रौघैः शास्त्रमुत्तमम् ॥ ७३ ॥
वेदसारं करिष्यामि प्रतिज्ञापालनाय च ।
गङ्गातोयमुपस्मृश्य मिथ्या यदि वदेज्जनः ॥ ७४ ॥
स याति कालसूत्रं च यावद्वै ब्रह्मणो वयः ।
इत्युक्ते शङ्करे ब्रह्मन् गोलोके सुरसंसदि ॥ ७५ ॥
आविर्बभूव श्रीकृष्णो राधया सहितस्ततः ।
तं सुदृष्ट्वा च संहृष्टास्तुष्टुवुः पुरुषोत्तमम् ॥ ७६ ॥
परमानन्दपूर्णाश्च चकुश्च पुनरुत्सवम् ।
कालेन शम्भुर्भगवान् मुक्तिदीपं चकार सः ॥ ७७ ॥
इत्येवं कथितं सर्वं सुगोप्यं च सुदुर्लभम् ।
स एव द्रवरूपा सा गङ्गा गोलोकसम्भवा ॥ ७८ ॥
राधाकृष्णाङ्गसम्भूता भुक्तिमुक्तिफलप्रदा ।
स्थाने स्थाने स्थापिता सा कृष्णेन च परात्मना ।
कृष्णस्वरूपा परमा सर्वब्रह्माण्डपूजिता ॥ ७९ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
गङ्गोपाख्यानवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥