नारद उवाच
श्रुतं पृथिव्युपाख्यानमतीव सुमनोहरम् ।
गङ्गोपाख्यानमधुना वद वेदविदांवर ॥ १ ॥
भारते भारतीशापात्सा जगाम सुरेश्वरी ।
विष्णुस्वरूपा परमा स्वयं विष्णुपदीति च ॥ २ ॥
कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा ।
तत्क्रमं श्रोतुमिच्छामि पापघ्नं पुण्यदं शुभम् ॥ ३ ॥
श्रीनारायण उवाच
राजराजेश्वरः श्रीमान् सगरः सूर्यवंशजः ।
तस्य भार्या च वैदर्भी शैव्या च द्वे मनोहरे ॥ ४ ॥
तत्पत्न्यामेकपुत्रश्च बभूव सुमनोहरः ।
असमञ्ज इति ख्यातः शैव्यायां कुलवर्धनः ॥ ५ ॥
अन्या चाराधयामास शङ्करं पुत्रकामुकी ।
बभूव गर्भस्तस्याश्च हरस्य च वरेण ह ॥ ६ ॥
गते शताब्दे पूर्णे च मांसपिण्डं सुषाव सा ।
तद् दृष्ट्वा सा शिवं ध्यात्वा रुरोदोच्चैः पुनः पुनः ॥ ७ ॥
शम्भुर्ब्राह्मणरूपेण तत्समीपं जगाम ह ।
चकार संविभज्यैतत्पिण्डं षष्टिसहस्रधा ॥ ८ ॥
सर्वे बभूवुः पुत्राश्च महाबलपराक्रमाः ।
ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टकलेवराः ॥ ९ ॥
कपिलस्य मुनेः शापाद् बभूवुर्भस्मसाच्च ते ।
राजा रुरोद तच्छ्रुत्वा जगाम गहने वने ॥ १० ॥
तपश्चकारासमञ्जो गङ्गानयनकारणात् ।
लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः ॥ ११ ॥
अंशुमांस्तस्य तनयो गङ्गानयनकारणात् ।
तपः कृत्वा लक्षवर्षं ममार कालयोगतः ॥ १२ ॥
भगीरथस्तस्य पुत्रो महाभागवतः सुधीः ।
वैष्णवो विष्णुभक्तश्च गुणवानजरामरः ॥ १३ ॥
तपः कृत्वा लक्षवर्षं गङ्गानयनकारणात् ।
ददर्श कृष्णं ग्रीष्मस्थसूर्यकोटिसमप्रभम् ॥ १४ ॥
द्विभुजं मुरलीहस्तं किशोरं गोपवेषिणम् ।
गोपालसुन्दरीरूपं भक्तानुग्रहरूपिणम् ॥ १५ ॥
स्वेच्छामयं परं ब्रह्म परिपूर्णतमं प्रभुम् ।
ब्रह्मविष्णुशिवाद्यैश्च स्तुतं मुनिगणैर्नुतम् ॥ १६ ॥
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् ।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकारणम् ॥ १७ ॥
वह्निशुद्धांशुकाधानं रत्नभूषणभूषितम् ।
तुष्टाव दृष्ट्वा नृपतिः प्रणम्य च पुनः पुनः ॥ १८ ॥
लीलया च वरं प्राप वाञ्छितं वंशतारणम् ।
कृत्वा च स्तवनं दिव्यं पुलकाङ्कितविग्रहः ॥ १९ ॥
श्रीभगवानुवाच
भारतं भारतीशापाद् गच्छ शीघ्रं सुरेश्वरि ।
सगरस्य सुतान्सर्वान्पूतान्कुरु ममाज्ञया ॥ २० ॥
त्वत्स्पर्शवायुना पूता यास्यन्ति मम मन्दिरम्।
बिभ्रतो मम मूर्तीश्च दिव्यस्यन्दनगामिनः ॥ २१ ॥
मत्पार्षदा भविष्यन्ति सर्वकालं निरामयाः ।
समुच्छिद्य कर्मभोगान् कृताञ्जन्मनि जन्मनि ॥ २२ ॥
कोटिजन्मार्जितं पापं भारते यत्कृतं नृभिः ।
गङ्गाया वातस्पर्शेन नश्यतीति श्रुतौ श्रुतम् ॥ २३ ॥
स्पर्शनाद्दर्शनाद्देव्याः पुण्यं दशगुणं ततः ।
मौसलस्नानमात्रेण सामान्यदिवसे नृणाम् ॥ २४ ॥
शतकोटिजन्मपापं नश्यतीति श्रुतौ श्रुतम् ।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ २५ ॥
जन्मसङ्ख्यार्जितान्येव कामतोऽपि कृतानि च ।
तानि सर्वाणि नश्यन्ति मौसलस्नानतो नृणाम् ॥ २६ ॥
पुण्याहस्नानतः पुण्यं वेदा नैव वदन्ति च ।
किञ्चिद्वदन्ति ते विप्र फलमेव यथागमम् ॥ २७ ॥
ब्रह्मविष्णुशिवाद्याश्च सर्वं नैव वदन्ति च ।
सामान्यदिवसस्नानसङ्कल्पं शृणु सुन्दरि ॥ २८ ॥
पुण्यं दशगुणं चैव मौसलस्नानतः परम् ।
ततस्त्रिंशद्गुणं पुण्यं रविसङ्क्रमणे दिने ॥ २९ ॥
अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने ।
ततो दशगुणं पुण्यं नराणामुत्तरायणे ॥ ३० ॥
चातुर्मास्यां पौर्णमास्यामनन्तं पुण्यमेव च ।
अक्षयायां च तत्तुल्यं चैतद्वेदे निरूपितम् ॥ ३१ ॥
असङ्ख्यपुण्यफलदमेतेषु स्नानदानकम् ।
सामान्यदिवसस्नानाद्दानाच्छतगुणं फलम् ॥ ३२ ॥
मन्वन्तराद्यायां तिथौ युगाद्यायां तथैव च ।
माघस्य सितसप्तम्यां भीष्माष्टम्यां तथैव च ॥ ३३ ॥
अथाप्यशोकाष्टम्यां च नवम्यां च तथा हरेः ।
ततोऽपि द्विगुणं पुण्यं नन्दायां तव दुर्लभम् ॥ ३४ ॥
दशहरादशम्यां तु युगाद्यादिसमं फलम् ।
नन्दासमं च वारुण्यां महत्पूर्वे चतुर्गुणम् ॥ ३५ ॥
ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति ।
पुण्यं कोटिगुणं चैव सामान्यस्नानतोऽपि यत् ॥ ३६ ॥
चन्द्रोपरागसमये सूर्ये दशगुणं ततः ।
पुण्यमर्धोदये काले ततः शतगुणं फलम् ॥ ३७ ॥
इत्येवमुक्त्वा देवेशो विरराम तयोः पुरः ।
तमुवाच ततो गङ्गा भक्तिनम्राऽऽत्मकन्धरा ॥ ३८ ॥
गङ्गोवाच
यामि चेद्भारतं नाथ भारतीशापतः पुरा ।
तवाज्ञया च राजेन्द्र तपसा चैव साम्प्रतम् ॥ ३९ ॥
दास्यन्ति पापिनो मह्यं पापानि यानि कानि च ।
तानि मे केन नश्यन्ति तमुपायं वद प्रभो ॥ ४० ॥
कतिकालं परिमितं स्थितिर्मे तत्र भारते ।
कदा यास्यामि देवेश तद्विष्णोः परमं पदम् ॥ ४१ ॥
ममान्यद्वाञ्छितं यद्यत्सर्वं जानासि सर्ववित् ।
सर्वान्तरात्मन् सर्वज्ञ तदुपायं वद प्रभो ॥ ४२ ॥
श्रीभगवानुवाच
जानामि वाञ्छितं गङ्गे तव सर्वं सुरेश्वरि ।
पतिस्ते द्रवरूपाया लवणोदो भविष्यति ॥ ४३ ॥
स ममांशस्वरूपश्च त्वं च लक्ष्मीस्वरूपिणी ।
विदग्धाया विदग्धेन सङ्गमो गुणवान् भुवि ॥ ४४ ॥
यावत्यः सन्ति नद्यश्च भारत्याद्याश्च भारते ।
सौभाग्या त्वं च तास्वेव लवणोदस्य सौरते ॥ ४५ ॥
अद्यप्रभृति देवेशि कलेः पञ्चसहस्रकम् ।
वर्षं स्थितिस्ते भारत्याः शापेन भारते भुवि ॥ ४६ ॥
नित्यं त्वमब्धिना सार्धं करिष्यसि रहो रतिम् ।
त्वमेव रसिका देवि रसिकेन्द्रेण संयुता ॥ ४७ ॥
त्वां स्तोष्यन्ति च स्तोत्रेण भगीरथकृतेन च ।
भारतस्था जनाः सर्वे पूजयिष्यन्ति भक्तितः ॥ ४८ ॥
कण्वशाखोक्तध्यानेन ध्यात्वा त्वां पूजयिष्यति ।
यः स्तौति प्रणमेन्नित्यं सोऽश्वमेधफलं लभेत् ॥ ४९ ॥
गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ५० ॥
सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति ।
प्रकृतेर्भक्तसंस्पर्शादेव तद्धि विनङ्क्ष्यति ॥ ५१ ॥
पापिनां तु सहस्राणां शवस्पर्शेन यत्त्वयि ।
तन्मन्त्रोपासकस्नानात्तदघं च विनङ्क्ष्यति ॥ ५२ ॥
तत्रैव त्वमधिष्ठानं करिष्यस्यघमोचनम् ।
सार्धं सरिद्भिः श्रेष्ठाभिः सरस्वत्यादिभिः शुभे ॥ ५३ ॥
तत्तु तीर्थं भवेत्सद्यो यत्र त्वद्गुणकीर्तनम् ।
त्वद्रेणुस्पर्शमात्रेण पूतो भवति पातकी ॥ ५४ ॥
रेणुप्रमाणवर्षं च देवीलोके वसेद् ध्रुवम् ।
ज्ञानेन त्वयि ये भक्त्या मन्नामस्मृतिपूर्वकम् ॥ ५५ ॥
समुत्सृजन्ति प्राणांश्च ते गच्छन्ति हरेः पदम् ।
पार्षदप्रवरास्ते च भविष्यन्ति हरेश्चिरम् ॥ ५६ ॥
लयं प्राकृतिकं ते च द्रक्ष्यन्ति चाप्यसङ्ख्यकम् ।
मृतस्य बहुपुण्येन तच्छवं त्वयि विन्यसेत् ॥ ५७ ॥
प्रयाति स च वैकुण्ठं यावदह्नः स्थितिस्त्वयि ।
कायव्यूहं ततः कृत्वा भोजयित्वा स्वकर्मकम् ॥ ५८ ॥
तस्मै ददामि सारूप्यं करोमि तं च पार्षदम् ।
अज्ञानी त्वज्जलस्पर्शाद्यदि प्राणान्समुत्सृजेत् ॥ ५९ ॥
तस्मै ददामि सालोक्यं करोमि तं च पार्षदम् ।
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ॥ ६० ॥
तस्मै ददामि सालोक्यं यावद्वै ब्रह्मणो वयः ।
अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ॥ ६१ ॥
तस्मै ददामि सारूप्यमसङ्ख्यं प्राकृतं लयम् ।
रत्नेन्द्रसारनिर्माणयानेन सह पार्षदैः ॥ ६२ ॥
सद्यः प्रयाति गोलोकं मम तुल्यो भवेद् ध्रुवम् ।
तीर्थेऽप्यतीर्थे मरणे विशेषो नास्ति कश्चन ॥ ६३ ॥
मन्मन्त्रोपासकानां तु नित्यं नैवेद्यभोजिनाम् ।
पूतं कर्तुं सशक्तो हि लीलया भुवनत्रयम् ॥ ६४ ॥
रत्नेन्द्रसारयानेन गोलोकं सम्प्रयान्ति च ।
मद्भक्ता बान्धवा येषां तेऽपि पश्वादयोऽपि हि ॥ ६५ ॥
प्रयान्ति रत्नयानेन गोलोकं चातिदुर्लभम् ।
यत्र यत्र स्मृतास्ते च ज्ञानेन ज्ञानिनः सति ॥ ६६ ॥
जीवन्मुक्ताश्च ते पूता मद्भक्तेः संविधानतः ।
इत्युक्त्वा श्रीहरिस्तांश्च प्रत्युवाच भगीरथम् ॥ ६७ ॥
स्तुहि गङ्गामिमां भक्त्या पूजां च कुरु साम्प्रतम् ।
भगीरथस्तां तुष्टाव पूजयामास भक्तितः ॥ ६८ ॥
कौथुमोक्तेन ध्यानेन स्तोत्रेणापि पुनः पुनः ।
प्रणनाम च श्रीकृष्णं परमात्मानमीश्वरम् ॥ ६९ ॥
भगीरथश्च गङ्गा च सोऽन्तर्धानं चकार ह ।
नारद उवाच
केन ध्यानेन स्तोत्रेण केन पूजाक्रमेण च ॥ ७० ॥
पूजां चकार नृपतिर्वद वेदविदांवर ।
श्रीनारायण उवाच
स्नात्वा नित्यक्रियां कृत्वा धृत्वा धौते च वाससी ॥ ७१ ॥
सम्पूज्य देवषट्कं च संयतो भक्तिपूर्वकम् ।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ ७२ ॥
सम्पूज्य देवषट्कं च सोऽधिकारी च पूजने ।
गणेशं विघ्ननाशाय आरोग्याय दिवाकरम् ॥ ७३ ॥
वह्निं शौचाय विष्णुं च लक्ष्यर्थं पूजयेन्नरः ।
शिवं ज्ञानाय ज्ञानेशं शिवां च मुक्तिसिद्धये ॥ ७४ ॥
सम्पूज्यैताँल्लभेत्प्राज्ञो विपरीतमतोऽन्यथा ।
दध्यावनेन ध्यानेन तद्ध्यानं शृणु नारद ॥ ७५ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
गङ्गोपाख्यानवर्णनं नामकादशोऽध्यायः ॥ ११ ॥