१०

व्यास उवाच -
बभूव चक्रवर्ती स नृपतिः सत्यसङ्गरः ।
मान्धाता पृथिवीं सर्वामजयन्नृपतीश्वरः ॥ १ ॥
दस्यवोऽस्य भयत्रस्ता ययुर्गिरिगुहासु च ।
इन्द्रेणास्य कृतं नाम त्रसद्दस्युरिति स्फुटम् ॥ २ ॥
तस्य बिन्दुमती भार्या शशबिन्दोः सुताभवत् ।
पतिव्रता सुरूपा च सर्वलक्षणसंयुता ॥ ३ ॥
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप ।
पुरुकुत्सं सुविख्यातं मुचुकुन्दं तथापरम् ॥ ४ ॥
पुरुकुत्सात्ततोऽरण्यः पुत्रः परमधार्मिकः ।
पितृभक्तिरतश्चाभूद्‌बृहदश्वस्तदात्मजः ॥ ५ ॥
हर्यश्वस्तस्य पुत्रोऽभूद्‌धार्मिकः परमार्थवित् ।
तस्यात्मजस्त्रिधन्वाभूदरुणस्तस्य चात्मजः ॥ ६ ॥
अरुणस्य सुतः श्रीमान्सत्यव्रत इति श्रुतः ।
सोऽभूदिच्छाचरः कामी मन्दात्मा ह्यतिलोलुपः ॥ ७ ॥
स पापात्मा विप्रभार्यां हृतवान्काममोहितः ।
विवाहे तस्य विघ्नं स चकार नृपतेः सुतः ॥ ८ ॥
मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप ।
ऊचुर्भृशं सुदुःखार्ता हा हताःस्मेति चासकृत् ॥ ९ ॥
पप्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः ।
किं कृतं मम पुत्रेण भवतामशुभं द्विजाः ॥ १० ॥
तन्निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम् ।
तदोचुस्त्वरुणं विप्रां कृताशीर्वचना भृशम् ॥ ११ ॥
ब्राह्मणा ऊचुः -
राजंस्तव सुतेनाद्य विवाहे प्रहृता किल ।
विवाहिता विप्रकन्या बलेन बलिनांवर ॥ १२ ॥
व्यास उवाच -
श्रुत्वा तेषां वचस्तथ्यं राजा परमधार्मिकः ।
पुत्रमाह वृथा नाम कृतं ते दुष्टकर्मणा ॥ १३ ॥
गच्छ दूरं सुमन्दात्मन्दुराचार गृहान्मम ।
न स्थातव्यं त्वया पाप विषये मम सर्वथा ॥ १४ ॥
कुपितं पितरं प्राह क्व गच्छामीति वै मुहुः ।
अरुणस्तमथोवाच श्वपाकैः सह वर्तय ॥ १५ ॥
श्वपचस्य कृतं कर्म द्विजदारापहारणम् ।
तस्मात्तैः सह संसर्गं कृत्वा तिष्ठ यथासुखम् ॥ १६ ॥
नाहं पुत्रेण पुत्रार्थी त्वया च कुलपांसन ।
यथेष्टं व्रज दुष्टात्मन् कीर्तिनाशः कृतस्त्वया ॥ १७ ॥
स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः ।
निश्चक्राम पुरात्तस्मात्तरसा श्वपचान्ययौ ॥ १८ ॥
सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते ।
धनुर्बाणधरः श्रीमान्कवची करुणालयः ॥ १९ ॥
यदा निष्कासितः पित्रा कुपितेन महात्मना ।
गुरुणाथ वसिष्ठेन प्रेरितोऽसौ महीपतिः ॥ २० ॥
तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः ।
वसिष्ठे धर्मशास्त्रज्ञे निवारणपराङ्‌मुखे ॥ २१ ॥
केनचित्कारणेनाथ पिता तस्य महीपतिः ।
पुत्रार्थेऽसौ तपस्तप्तुं पुरं त्यक्त्वा वनं गतः ॥ २२ ॥
न ववर्ष तदा तस्मिन्विषये पाकशासनः ।
समा द्वादश राजेन्द्र तेनाधर्मेण सर्वथा ॥ २३ ॥
विश्वामित्रस्तदा दारांस्तस्मिंस्तु विषये नृप ।
सन्न्यस्य कौशिकीतीरे चचार विपुलं तपः ॥ २४ ॥
कातरा तत्र सञ्जाता भार्या वै कौशिकस्य ह ।
कुटुम्बभरणार्थाय दुःखिता वरवर्णिनी ॥ २५ ॥
बालकान्क्षुधयाक्रान्तान्‌रुदतः पश्यती भृशम् ।
याचमानांश्च नीवारान्कष्टमाप पतिव्रता ॥ २६ ॥
चिन्तयामास दुःखार्ता तोकान्वीक्ष्य क्षुधातुरान् ।
नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम् ॥ २७ ॥
न मे त्रातास्ति पुत्राणां पतिर्मे नास्ति सन्निधौ ।
रुदन्ति बालकाः कामं धिङ्‌मे जीवनमद्य वै ॥ २८ ॥
धनहीनां च मां त्यक्त्वा तपस्तप्तुं गतः पतिः ।
न जानाति समर्थोऽपि दुःखितां धनवर्जिताम् ॥ २९ ॥ बालानां भरणं केन करोमि पतिना विना ।
मरिष्यन्ति सुताः सर्वे क्षुधया पीडिता भृशम् ॥ ३० ॥
एकं सुतं तु विक्रीय द्रव्येण कियता पुनः ।
पालयामि सुतानन्यानेष मे विहितो विधिः ॥ ३१ ॥
सर्वेषां मारणं नाद्धा युक्तं मम विपर्यये ।
कालस्य कलनायाहं विक्रीणामि तथात्मजम् ॥ ३२ ॥
हृदयं कठिनं कृत्वा सञ्चिन्त्य मनसा सती ।
सा दर्भरज्ज्वा बद्ध्वाथ गले पुत्रं विनिर्गता ॥ ३३ ॥
मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।
शेषस्य भरणार्थाय गृहीत्वा चलिता गृहात् ॥ ३४ ॥
दृष्टा सत्यव्रतेनार्ता तापसी शोकसंयुता ।
पप्रच्छ नृपतिस्तां तु किं चिकीर्षसि शोभने ॥ ३५ ॥
रुदन्तं बालकं कण्ठे बद्ध्वा नयसि काधुना ।
किमर्थं चारुसर्वाङ्‌गि सत्यं ब्रूहि ममाग्रतः ॥ ३६ ॥
ऋषिपत्न्युवाच -
विश्वामित्रस्य भार्याहं पुत्रोऽयं मे नृपात्मज ।
विक्रेतुमौरसं कामं गमिष्ये विषमे सुतम् ॥ ३७ ।
अन्नं नास्ति पतिर्मुक्त्वा गतस्तप्तुं नृप क्वचित् ।
विक्रीणामि क्षुधार्तैनं शेषस्य भरणाय वै ॥ ३८ ॥
राजोवाच -
पतिव्रते रक्ष पुत्रं दास्यामि भरणं तव ।
तावदेव पतिस्तेऽत्र वनाच्चैवागमिष्यति ॥ ३९ ॥
वृक्षे तवाश्रमाभ्याशे भक्ष्यं किञ्चिन्निरन्तरम् ।
बन्धयित्वा गमिष्यामि सत्यमेतद्‌ब्रवीम्यहम् ॥ ४० ॥
इत्ययुक्ता सा तदा तेन राज्ञा कौशिककामिनी ।
विबन्धं तनयं कृत्वा जगामाश्रममण्डलम् ॥ ४१ ॥
सोऽभवद्‌ गालवो नाम गलबन्धान्महातपाः ।
सा तु स्वस्याश्रमे गत्वा मुमोद बालकैर्वृता ॥ ४२ ॥
सत्यव्रतस्तु भक्त्या च कृपया च परिप्लुतः ।
विश्वामित्रस्य च मुनेः कलत्रं तद्‌ बभार ह ॥ ४३ ॥
वने स्थितान्मृगान्हत्वा वराहान्महिषांस्तथा ।
विश्वामित्रवनाभ्याशे मांसं वृक्षे बबन्ध ह ॥ ४४ ॥
ऋषिपत्नी गृहीत्वा तन्मांसं पुत्रानदात्ततः ।
निर्वृत्तिं परमां प्राप प्राप्य भक्ष्यमनुत्तमम् ॥ ४५ ॥
अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः ।
गते तप्तुं नृपे तस्मिन्वसिष्ठः पर्यरक्षत ॥ ४६ ॥
सत्यव्रतोऽपि धर्मात्मा ह्यतिष्ठन्नगराद्‌ बहिः ।
पितुराज्ञां समास्थाय पशुघ्नव्रतवान्वने ॥ ४७ ॥
सत्यव्रतो ह्यकस्माच्च कस्यचित्कारणान्नृपः ।
वसिष्ठे चाधिकं मन्युं धारयामास नित्यदा ॥ ४८ ॥
त्यज्यमानं वने पित्रा धर्मिष्ठं च प्रियं सुतम् ।
न वारयामास मुनिर्वसिष्ठः कारणेन ह ॥ ४९ ॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे ।
जानन्नपि स धर्मात्मा विप्रदारपरिग्रहे ॥ ५० ॥
कस्मिंश्चिद्दिवसेऽरण्ये मृगाभावे महीपतिः ।
वसिष्ठस्य च गां दोग्ध्रीमपश्यद्वनमध्यगाम् ॥ ५१ ॥
तां जघान क्षुधार्तस्तु क्रोधान्मोहाच्च दस्युवत् ।
वृक्षे बबन्ध तन्मांसं नीत्वा स्वयमभक्षयत् ॥ ५२ ॥
ऋषिपत्नी सुतान्सर्वान्भोजयमास तत्तदा ।
शङ्कमाना मृगस्येति न गोरिति च सुव्रता ॥ ५३ ॥
वसिष्ठस्तु हतां दोग्ध्रीं ज्ञात्वा क्रुद्धस्तमब्रवीत् ।
दुरात्मन् किं कृतं पापं धेनुघातात्पिशाचवत् ॥ ५४ ॥
एवं ते शङ्कवः क्रूराः पतन्तु त्वरितास्त्रयः ।
गोवधाद्दारहरणात्पितुः क्रोधात्तथा भृशम् ॥ ५५ ॥
त्रिशङ्कुरिति नाम्ना वै भुवि ख्यातो भविष्यसि ।
पिशाचरूपमात्मानं दर्शयन्सर्वदेहिनाम् ॥ ५६ ॥
व्यास उवाच -
एवं शप्तो वसिष्ठेन तदा सत्यव्रतो नृपः ।
चचार च तपस्तीव्रं तस्मिन्नेवाश्रमे स्थितः ॥ ५७ ॥
कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मन्त्रमनुत्तमम् ।
ध्यायन्भगवतीं देवीं प्रकृतिं परमां शिवाम् ॥ ५८ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे सत्यव्रताख्यानवर्णनं नाम दशमोऽध्यायः ॥ १० ॥