व्यास उवाच
इति तस्य वचः श्रुत्वा दुःखितौ वैश्यपार्थिवौ ।
प्रणिपत्य मुनिं प्रीत्या प्रश्रयावनतौ भृशम् ॥ १ ॥
हर्षेणोत्फुल्लनयनावूचतुर्वाक्यकोविदौ ।
कृताञ्जलिपुटौ शान्तौ भक्तिप्रवणचेतसौ ॥ २ ॥
भगवन्पावितावद्य शान्तौ दीनौ शुचान्वितौ ।
तव सूक्तसरस्वत्या गङ्गयेव भगीरथः ॥ ३ ॥
साधवः सम्भवन्तीह परोपकृतितत्पराः ।
अकृत्रिमगुणारामाः सुखदाः सर्वदेहिनाम् ॥ ४ ॥
पूर्वपुण्यप्रसङ्गेन प्राप्तोऽयमाश्रमः शुभः ।
तवावाभ्यां महाभाग महादुःखविनाशकः ॥ ५ ॥
भवन्ति मानवा भूमौ बहवः स्वार्थतत्पराः ।
परार्थसाधने दक्षाः केचित्क्वापि भवादृशाः ॥ ६ ॥
दुःखितोऽहं मुनिश्रेष्ठ वैश्योऽयं चातिदुःखितः ।
उभौ संसारसन्तप्तौ तवाश्रमपदे मुदा ॥ ७ ॥
दर्शनादेव हे विद्वन् गतं दुःखमिहावयोः ।
देहजं मानसं वाक्यश्रवणादेव साम्प्रतम् ॥ ८ ॥
धन्यावावां कृतकृत्यौ जातौ सूक्तिसुधारसात् ।
पावितौ भवता ब्रह्मन् कृपया करुणार्णव ॥ ९ ॥
गृहाणास्मत्करौ साधो नय पारं भवार्णवे ।
मग्नौ श्रान्ताविति ज्ञात्वा मन्त्रदानेन साम्प्रतम् ॥ १० ॥
तपः कृत्वातिविपुलं समाराध्य सुखप्रदाम् ।
सम्प्राप्य दर्शनं भूयो यास्यावो निजमन्दिरम् ॥ ११ ॥
वदनात्तव सम्प्राप्य देवीमन्त्रं नवाक्षरम् ।
स्मरणञ्ज करिष्यावो निराहारौ धृतव्रतौ ॥ १२ ॥
व्यास उवाच
इति सञ्चोदितस्ताभ्यां सुमेधा मुनिसत्तमः ।
ददौ मन्त्रं शुभं ताभ्यां ध्यानबीजपुरःसरम् ॥ १३ ॥
तौ च प्राप्य मुनेर्मन्त्रं सम्मन्त्र्य गुरुदैवतौ ।
जग्मतुर्वैश्यराजानौ नदीतीरमनुत्तमम् ॥ १४ ॥
एकान्ते विजने स्थाने कृत्वाऽऽसनपरिग्रहम् ।
उपविष्टौ स्थिरप्रज्ञौ तावतीव कृशोदरौ ॥ १५ ॥
मन्त्रजाप्यरतौ शान्तौ चरित्रत्रयपाठकौ ।
निन्यतुर्मासमेकं तु तत्र ध्यानपरायणौ ॥ १६ ॥
तयोर्मासव्रतेनैव जाता प्रीतिरनुत्तमा ।
पादाम्बुजे भवान्यास्तु स्थिरा बुद्धिस्तथाप्यलम् ॥ १७ ॥
कदाचित्पादयोर्गत्वा मुनेस्तस्य महात्मनः ।
कृतप्रणामावागत्य तस्थतुश्च कुशासने ॥ १८ ॥
नान्यकार्यपरौ क्वापि बभूवतुः कदाचन ।
देवीध्यानपरौ नित्यं जपमन्त्ररतौ सदा ॥ १९ ॥
एवं जाते तदा पूर्णे तत्र संवत्सरे नृप ।
बभूवतुः फलाहारं त्यक्त्वा पर्णाशनौ नृप ॥ २० ॥
वर्षमेकं तपस्तत्र चक्रतुर्वैश्यपार्थिवौ ।
शुष्कपर्णाशनौ दान्तौ जपध्यानपरायणौ ॥ २१ ॥
पूर्णे वर्षद्वये जाते कदाचिद्दर्शनञ्च तौ ।
प्रापतुः स्वप्नमध्ये तु भगवत्या मनोहरम् ॥ २२ ॥
रक्ताम्बरधरां देवीं चारुभूषणभूषिताम् ।
कदाचिनॄपतिः स्वप्नेऽप्यपश्यज्जगदम्बिकाम् ॥ २३ ॥
वीक्ष्य स्वप्ने च तौ देवीं प्रीतियुक्तौ बभूवतुः ।
जलाहारैस्तृतीये तु स्थितौ संवत्सरे तु तौ ॥ २४ ॥
एवं वर्षत्रयं कृत्वा ततस्तौ वैश्यपार्थिवौ ।
चक्रतुस्तौ तदा चिन्तां चित्ते दर्शनलालसौ ॥ २५ ॥
प्रत्यक्षं दर्शनं देव्या न प्राप्तं शान्तिदं नृणाम् ।
देहत्यागं करिष्यावो दुःखितौ भृशमातुरौ ॥ २६ ॥
इति सञ्चिन्त्य मनसा राजा कुण्डं चकार ह ।
त्रिकोणं सुस्थिरं सौम्यं हस्तमात्रप्रमाणतः ॥ २७ ॥
संस्थाप्य पावकं राजा तथा वैश्योऽतिभक्तिमान् ।
जुहावासौ निजं मांसं छित्त्वा छित्त्वा पुनः पुनः ॥ २८ ॥
तथा वैश्योऽपि दीप्तेऽग्नौ स्वमांसं प्राक्षिपत्तदा ।
रुधिरेण बलिं चास्यै ददतुस्तौ कृतोद्यमौ ॥ २९ ॥
तदा भगवती दत्त्वा प्रत्यक्षं दर्शनं तयोः ।
प्राह प्रीतिभरोद्भ्रान्तौ दृष्ट्वा तौ दुःखितौ भृशम् ॥ ३० ॥
देव्युवाच
वरं वरय भो राजन् यत्ते मनसि वाञ्छितम् ।
तुष्टाहं तपसा तेऽद्य भक्तोऽसि त्वं मतो मम ॥ ३१ ॥
वैश्यं प्राह तदा देवी प्रसन्नाहं महामते ।
किं तेऽभीष्टं ददाम्यद्य प्रार्थयाशु मनोगतम् ॥ ३२ ॥
व्यास उवाच
तच्छ्रुत्वा वचनं राजा तामुवाच मुदान्वितः ।
देहि मेऽद्य निजं राज्यं हतशत्रुबलं बलात् ॥ ३३ ॥
तमुवाच तदा देवी गच्छ राजन् निजं गृहम् ।
शत्रवः क्षीणसत्त्वास्ते गमिष्यन्ति पराजिताः ॥ ३४ ॥
मन्त्रिणस्ते समागम्य ते पतिष्यन्ति पादयोः ।
कुरु राज्यं महाभाग नगरे स्वं यथासुखम् ॥ ३५ ॥
कृत्वा राज्यं सुविपुलं वर्षाणामयुतं नृप ।
देहान्ते जन्म सम्प्राप्य सूर्याच्च भविता मनुः ॥ ३६ ॥
व्यास उवाच
वैश्यस्तामप्युवाचेदं कृताञ्जलिपुटः शुचिः ।
न मे गृहेण कार्यं वै न पुत्रेण धनेन वा ॥ ३७ ॥
सर्वं बन्धकरं मातः स्वप्नवन्नश्वरं स्फुटम् ।
ज्ञानं मे देहि विशदं मोक्षदं बन्धनाशनम् ॥ ३८ ॥
असारेऽस्मिंश्च संसारे मूढा मज्जन्ति पामराः ।
पण्डिताः सन्तरन्तीह तस्मान्नेच्छन्ति संसृतिम् ॥ ३९ ॥
व्यास उवाच
तदाकर्ण्य महामाया वैश्यं प्राह पुरःस्थितम् ।
वैश्यवर्य तव ज्ञानं भविष्यति न संशयः ॥ ४० ॥
इति दत्त्वा वरं ताभ्यां तत्रैवान्तरधीयत ।
अदर्शनं गतायां तु राजा तं मुनिसत्तमम् ॥ ४१ ॥
प्रणम्य हयमारुह्य गमनाय मनो दधे ।
तदैव तस्य सचिवास्तत्रागत्य नृपं प्रजाः ॥ ४२ ॥
प्रणेमुर्विनयोपेतास्तमूचुः प्राञ्जलिस्थिताः ।
राजंस्ते शत्रवः सर्वे पापाच्च निहता रणे ॥ ४३ ॥
राज्यं निष्कण्टकं भूप कुरुष्व पुरमास्थितः ।
तच्छ्रुत्वा वचनं राजा नत्वा तं मुनिसत्तमम् ॥ ४४ ॥
आपूच्छ्य निर्ययौ तत्र मन्त्रिभिः परिवारितः ।
सम्प्राप्य च निजं राज्यं दारान्स्वजनबान्धवान् ॥ ४५ ॥
बुभुजे पृथिवीं सर्वां ततः सागरमेखलाम् ।
वैश्योऽपि ज्ञानमासाद्य मुक्तसङ्गः समन्ततः ॥ ४६ ॥
कालातिवाहनं तत्र मुक्तबन्धश्चकार ह ।
तीर्थेषु विचरन्गायन्भगवत्या गुणानथ ॥ ४७ ॥
एतत्ते कथितं देव्याश्चरितं परमाद्भुतम् ।
आराधनफलप्राप्तिर्यथावद्भूपवैश्ययोः ॥ ४८ ॥
दैत्यानां हननं प्रोक्तं प्रादुर्भावस्तथा शुभः ।
एवम्प्रभावा सा देवी भक्तानामभयप्रदा ॥ ४९ ॥
यः शृणोति नरो नित्यमेतदाख्यानमुत्तमम् ।
सम्प्राप्नोति नरः सत्यं संसारसुखमद्भुतम् ॥ ५० ॥
ज्ञानदं मोक्षदं चैव कीर्तिदं सुखदं तथा ।
पावनं श्रवणान्नूनमेतदाख्यानमद्भुतम् ॥ ५१ ॥
अखिलार्थप्रदं न्नॄणां सर्वधर्मसमावृतम् ।
धर्मार्थकाममोक्षाणां कारणं परमं मतम् ॥ ५२ ॥
सूत उवाच
जनमेजयेन राज्ञासौ पृष्टः सत्यवतीसुतः ।
उवाच संहितां दिव्यां व्यासः सर्वार्थतत्त्ववित् ॥ ५३ ॥
चरितं चण्डिकायास्तु शुम्भदैत्यवधाश्रितम् ।
कथयामास भगवान्कृष्णः कारुणिको मुनिः ।
इति वः कथितः सारः पुराणानां मुनीश्वराः ॥ ५४ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे
सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
॥ पञ्चमः स्कन्धः समाप्तः ॥