३२

जनमेजय उवाच
महिमा वर्णितः सम्यक्चण्डिकायास्त्वया मुने ।
केन चाराधिता पूर्वं चरित्रत्रययोगतः ॥ १ ॥
प्रसन्ना कस्य वरदा केन प्राप्तं फलं महत् ।
आराध्य कामदां देवीं कथयस्व कृपानिधे ॥ २ ॥
उपासनाविधिं ब्रह्मंस्तथा पूजाविधिं वद ।
विस्तरेण महाभाग होमस्य च विधिं पुनः ॥ ३ ॥
सूत उवाच
इति भूपवचः श्रुत्वा प्रीतः सत्यवतीसुतः ।
प्रत्युवाच नृपं कृष्णो महामायाप्रपूजनम् ॥ ४ ॥
व्यास उवाच
स्वारोचिषेऽन्तरे पूर्वं सुरथो नाम पार्थिवः ।
बभूव परमोदारः प्रजापालनतत्परः ॥ ५ ॥
सत्यवादी कर्मपरो ब्राह्मणानाञ्च पूजकः ।
गुरुभक्तिरतो नित्यं स्वदारगमने रतः ॥ ६ ॥
दानशीलोऽविरोधी च धनुर्वेदैकपारगः ।
एवं पालयतो राज्यं म्लेच्छाः पर्वतवासिनः ॥ ७ ॥
बलाच्छत्रुत्वमापन्नाः सैन्यं कृत्वा चतुर्विधम् ।
हस्त्यश्वरथपादातिसहितास्ते मदोत्कटाः ॥ ८ ॥
कोलाविध्वंसिनः प्राप्ताः पृथ्वीग्रहणतत्पराः ।
सुरथः सैन्यमादाय सम्मुखः समपद्यत ॥ ९ ॥
युद्धं समभवद्‌घोरं तस्य तैरतिदारुणैः ।
म्लेच्छानां तु बलं स्वल्पं राज्ञस्द्‌बलमद्‌भुतम् ॥ १० ॥
तथापि तैर्जितो युद्धे दैवाद्‌राजा पराजितः ।
भग्नश्च स्वपुरं प्राप्तः सुरक्षं दुर्गमण्डितम् ॥ ११ ॥
चिन्तयामास मेधावी राजा नीतिविचक्षणः ।
प्रधानान्विमना दृष्ट्वा शत्रुपक्षसमाश्रितान् ॥ १२ ॥
स्थानं गृहीत्वा विपुलं परिखादुर्गमण्डितम् ।
कालप्रतीक्षा कर्तव्या किं वा युद्धं वरं मतम् ॥ १३ ॥
मन्त्रिणः शत्रुवशगा मन्त्रयोग्या न ते किल ।
किं करोमीति मनसा भूपतिः समचिन्तयत् ॥ १४ ॥
कदाचित्ते गहीत्वा मां पापाचाराः पराश्रिताः ।
शत्रुभ्योऽथ प्रदास्यन्ति तदा किं वा भविष्यति ॥ १५ ॥
पापबुद्धिषु विश्वासो न कर्तव्यः कदाचन ।
किन्न ते वै प्रकुर्वन्ति ये लोभवशगा नराः ॥ १६ ॥
भ्रातरं पितरं मित्रं सुहृदं बान्धवं तथा ।
गुरुं पूज्यं द्विजं द्वेष्टि लोभाविष्टः सदा नरः ॥ १७ ॥
तस्मान्मया न कर्तव्यो विश्वासः सर्वथाधुना ।
मन्त्रिवर्गेऽतिपापिष्ठे शत्रुपक्षसमाश्रिते ॥ १८ ॥
इति सञ्चिन्त्य मनसा राजा परमदुर्मनाः ।
एकाकी हयमारुह्य निर्जगाम पुरात्ततः ॥ १९ ॥
असहायोऽथ निर्गत्य गहनं वनमाश्रितः ।
चिन्तयामास मेधावी क्व गन्तव्यं मया पुनः ॥ २० ॥
योजनत्रयमात्रे तु मुनेराश्रममुत्तमम् ।
ज्ञात्वा जगाम भूपालस्तापसस्य सुमेधसः ॥ २१ ॥
बहुवृक्षसमायुक्तं नदीपुलिनसंश्रितम् ।
निर्वैरश्वापदाकीर्णं कोकिलारावमण्डितम् ॥ २२ ॥
शिष्याध्ययनशब्दाढ्यं मृगयूथशतावृतम् ।
नीवारान्नसुपक्वाढ्यं सुपुष्पफलपादपम् ॥ २३ ॥
होमधूमसुगन्धेन प्रीतिदं प्राणिनां सदा ।
वेदध्वनिसमाक्रान्तं स्वर्गादपि मनोहरम् ॥ २४ ॥
दृष्ट्वा तमाश्रमं राजा बभूवासौ मुदान्वितः ।
भयं त्यक्त्वा मतिं चक्रे विश्रामाय द्विजाश्रमे ॥ २५ ॥
आसज्य पादपेऽश्वं तु जगाम विनयान्वितः ।
दृष्ट्वा तं मुनिमासीनं सालच्छायासु संश्रितम् ॥ २६ ॥
मृगाजिनासनं शान्तं तपसातिकृशं ऋजुम् ।
अध्यापयन्तं शिष्यांश्च वेदशास्त्रार्थदर्शिनम् ॥ २७ ॥
रहितं क्रोधलोभाद्यैर्द्वन्द्वातीतं विमत्सरम् ।
आत्मज्ञानरतं सत्यवादिनं शमसंयुतम् ॥ २८ ॥
तं वीक्ष्य भूपतिर्भूमौ पपात दण्डवत्तदा ।
तदग्रेऽश्रुजलापूर्णनयनः प्रेमसंयुतः ॥ २९ ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते तमुवाच तदा मुनिः ।
शिष्यो ददौ बृसीं तस्मै गुरुणा नोदितस्तदा ॥ ३० ॥
उत्थाय नृपतिस्तस्यां समासीनस्तदाज्ञया ।
अर्ध्यपाद्यार्हणं चक्रे सुमेधा विधिपूर्वकम् ॥ ३१ ॥
पप्रच्छात्र कुतः प्राप्तः कस्त्वं चिन्तापरः कथम् ।
कथयस्व यथाकामं संवृतं कारणं त्विह ॥ ३२ ॥
किमागमनकृत्यं ते ब्रूहि कार्यं मनोगतम् ।
करिष्ये वाञ्छितं काममसाध्यमपि यत्तव ॥ ३३ ॥
राजोवाच
सुरथो नाम राजाहं शत्रुभिश्च पराजितः । त्यक्त्वा राज्यं गृहं भार्यामहं ते शरणं गतः ॥ ३४ ॥
यदाज्ञापयसे ब्रह्मंस्तदहं भक्तितत्परः ।
करिष्यामि न मे त्राता त्वदन्यः पृथिवीतले ॥ ३५ ॥
शत्रुभ्यो मे भयं घोरं प्राप्तोऽस्म्यद्य तवान्तिकम् ।
त्रायस्व मुनिशार्दूल शरणागतवत्सल ॥ ३६ ॥
ऋषिरुवाच
निर्भयं वस राजेन्द्र नात्र ते शत्रवः किल ।
आगमिष्यन्ति बलिनो निश्चयं तपसो बलात् ॥ ३७ ॥
नात्र हिंसा प्रकर्तव्या वनवृत्त्वा नृपोत्तम ।
कर्तव्यं जीवनं शस्तैर्नीवारफलमूलकैः ॥ ३८ ॥
व्यास उवाच
इति तस्य वचः श्रुत्वा निर्भयः स नृपस्तदा ।
उवासाश्रम एवासौ फलमूलाशनः शुचिः ॥ ३९ ॥
कदाचित्स नृपस्तत्र वृक्षच्छायां समाश्रितः ।
चिन्तयामास चिन्तार्तो गृह एव गताशयः ॥ ४० ॥
राज्यं मे शत्रुभिः प्राप्तं म्लेच्छैः पापरतैः सदा ।
सम्पीडिताः स्युर्लोकास्तैर्दुराचारैर्गतत्रपैः ॥ ४१ ॥
गजाश्च तुरगाः सर्वे दुर्बला भक्ष्यवर्जिताः ।
जाताः स्युर्नात्र सन्देहः शत्रुणा परिपीडिताः ॥ ४२ ॥
सेवका मम सर्वे ते शत्रूणां वशवर्तिनः ।
दुःखिता एव जाताः स्युः पालिता ये मया पुरा ॥ ४३ ॥
धनं मे सुदुराचारैरसद्व्ययपरैः परैः ।
द्यूतासवभुजिष्यादिस्थाने स्यात्प्रापितं किल ॥ ४४ ॥
कोशक्षयं करिष्यन्ति व्यसनैः पापबुद्धयः ।
न पात्रदाननिपुणा म्लेच्छास्ते मन्त्रिणोऽपि मे ॥ ४५ ॥
इति चिन्तापरो राजा वृक्षमूलस्थितो यदा ।
तदाऽऽजगाम वैश्यस्तु कश्चिदार्तिपरस्तथा ॥ ४६ ॥
नृपेण पुरतो दृष्टः पार्श्वे तत्रोपवेशितः ।
पप्रच्छ तं नृपः कोऽसि कुत एवागतो वनम् ॥ ४७ ॥
कोऽसि कस्माच्च दीनोऽसि हरिणः शोकपीडितः ।
ब्रूहि सत्यं महाभाग मैत्री साप्तपदी मता ॥ ४८ ॥
व्यास उवाच
तच्छ्रुत्वा वचनं राज्ञस्तमुवाच विशोत्तमः ।
उपविश्य स्थिरो भूत्वा मत्वा साधुसमागमम् ॥ ४९ ॥
वैश्य उवाच
मित्राहं वैश्यजातीयः समाधिर्नाम विश्रुतः ।
धनवान्धर्मनिपुणः सत्यवागनसूयकः ॥ ५० ॥
पुत्रदारैर्निरस्तोऽहं धनलुब्धैरसाधुभिः ।
(कृपणेति मिषं कृत्वा त्यक्त्वा मायां सुदुस्त्यजाम् ।)
स्वजनेन च सन्त्यक्तः प्राप्तोऽस्मि वनमाशु वै ॥ ५१ ॥
कोऽसि त्वं भाग्यवान्भासि कथयस्व प्रियाधुना ।
राजोवाच
सुरथो नाम राजाहं दस्युभिः पीडितोऽभवम् ॥ ५२ ॥
प्राप्तोऽस्मि गतराज्योऽत्र मन्त्रिभिः परिवञ्चितः ।
दिष्ट्या त्वमत्र मित्रं मे मिलितोऽसि विशोत्तम ॥ ५३ ॥
सुखेन विहरिष्यावो वनेऽत्र शुभपादपे ।
शोकं त्यज महाबुद्धे स्वस्थो भव विशोत्तम ॥ ५४ ॥
(अत्रैव च यथाकामं सुखं तिष्ठ मया सह ।)
वैश्य उवाच
कुटुम्बं मे निरालम्बं मया हीनं सुदुःखितम् ।
भविष्यति च चिन्ताऽऽर्तं व्याधिशोकोपतापितम् ॥ ५५ ॥
भार्यादेहे सुखं नो वा पुत्रदेहे न वा सुखम् ।
इति चिन्तातुरं चेतो न मे शाम्यति भूमिप ॥ ५६ ॥
कदा द्रक्ष्ये सुतं भार्यां गृहं स्वजनमेव च ।
स्वस्थं न मन्मनो राजन् गृहचिन्ताकुलं भृशम् ॥ ५७ ॥
राजोवाव
यैर्निरस्तोऽसि पुत्राद्यैरसद्‌वृत्तैः सुबालिशैः ।
तान्दृष्ट्वा किं सुखं तेऽद्य भविष्यति महामते ॥ ५८ ॥
हितकारी वरः शत्रुर्दुःखदाः सुहृदः कुतः ।
तस्मात्स्थिरं मनः कृत्वा विहरस्व मया सह ॥ ५९ ॥
वैश्य उवाच
मनो मे न स्थिरं राजन् भवत्यद्य सुदुःखितम् ।
चिन्तयात्र कुटुम्बस्य दुस्त्यजस्य दुरात्मभिः ॥ ६० ॥
राजोवाच
ममापि राज्यजं दुःखं दुनोति किल मानसम् ।
पृच्छावोऽद्य मुनिं शान्तं शोकनाशनमौषधम् ॥ ६१ ॥
व्यास उवाच
इति कृत्वा मतिं तौ तु राजा वैश्यश्च जग्मतुः ।
मुनिं तौ विनयोपेतौ प्रष्टुं शोकस्य कारणम् ॥ ६२ ॥
गत्वा तं प्रणिपत्याह राजा ऋषिमनुत्तमम् ।
आसीनं सम्यगासीनः शान्तं शान्तिमुपागतः ॥ ६३ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे
सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥