३१

व्यास उवाच
इति तेषां वचः श्रुत्वा शुम्भो दैत्यपतिस्तथा ।
उवाच सैनिकानाशु कोपाकुलितलोचनः ॥ १ ॥
शुम्भ उवाच
जाल्माः किं श्रूत दुर्वाच्यं कृत्वा जीवितुमुत्सहे ।
निहत्य सचिवान्भ्रातॄन्निर्लज्जो विचरामि किम् ॥ २ ॥
कालः कर्ता शुभानां वाशुभानां बलवत्तरः ।
का चिन्ता मम दुर्वारे तस्मिन्नीशेऽप्यरूपके ॥ ३ ॥
यद्‌भवति तद्‌भवतु यत्करोति करोतु तत् ।
न मे चिन्तास्ति कुत्रापि मरणाज्जीवनात्तथा ॥ ४ ॥
स कालोऽप्यन्यथाकर्तुं भावितो नेशते क्वचित् ।
न वर्षति च पर्जन्यः श्रावणे मासि सर्वथा ॥ ५ ॥
कदाचिन्मार्गशीर्षे वा पौषे माघेऽथ फाल्गुने ।
अकाले वर्षतीवाशु तस्मान्मुख्यो न चास्त्वयम् ॥ ६ ॥
कालो निमित्तमात्रं तु दैवं हि बलवत्तरम् ।
दैवेन निर्मितं सर्वं नान्यथा भवतीत्यदः ॥ ७
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
जेता यः सर्वदेवानां निशुम्भोऽप्यनया हतः ॥ ८
रक्तबीजो महाशूरः सोऽपि नाशं गतो यदा ।
तदाहं कीर्तिमुत्सृज्य जीविताशां करोमि किम् ॥ ९ ॥
प्राप्ते काले स्वयं ब्रह्मा परार्धद्वयसम्मिते ।
निधनं याति तरसा जगत्कर्ता स्वयं प्रभुः ॥ १० ॥
चतुर्युगसहस्रं तु ब्रह्मणो दिवसे किल ।
पतन्ति भवनात्पञ्च नव चेन्द्रास्तथा पुनः ॥ ११ ॥
तथैव द्विगुणे विष्णुर्मरणायोपकल्पते ।
तथैव द्विगुणे काले शङ्करः शान्तिमेति च ॥ १२ ॥
का चिन्ता मरणे मूढा निश्चले दैवनिर्मिते ।
मही महीधराणाञ्च नाशः सूर्यशशाङ्कयोः ॥ १३ ॥
जातस्य हि ध्रुवं मृत्युर्धुवं जन्म मृतस्य च ।
अध्रुवेऽस्मिञ्छरीरे तु रक्षणीयं यशः स्थिरम् ॥ १४ ॥
रथो मे कल्प्यतां शीघ्रं गमिष्यामि रणाजिरे ।
जयो वा मरणं वापि भवत्वद्यैव दैवतः ॥ १५ ॥
इत्युक्त्वा सैनिकाञ्छुम्भो रथमास्थाय सत्वरः ।
प्रययावम्बिका यत्र संस्थिता तु हिमाचले ॥ १६ ॥
सैन्यं प्रचलितं तस्य सङ्गे तत्र चतुर्विधम् ।
हस्त्यश्वरथपादातिसंयुतं सायुधं बहु ॥ १७ ॥
तत्र गत्वाचले शुम्भः संस्थितां जगदम्बिकाम् ।
त्रैलोक्यमोहिनीं कान्तामपश्यत्सिंहवाहिनीम् ॥ १८ ॥
सर्वाभरणभूषाढ्यां सर्वलक्षणसंवृताम् ।
स्तूयमानां सुरैः खस्थैर्गन्धर्वयक्षकिन्नरैः ॥ १९ ॥
पुष्पैश्च पूज्यमानाञ्च मन्दारपादपोद्‌भवैः ।
कुर्वाणां शङ्खनिनदं घण्टानादं मनोहरम् ॥ २० ॥
दृष्ट्वा तां मोहमगमच्छुम्भः कामविमोहितः ।
पञ्चबाणाहतः कामं मनसा समचिन्तयत् ॥ २१ ॥
अहो रूपमिदं सम्यगहो चातुर्यमद्भुतम् ।
सौकुमार्यञ्ज धैर्यञ्च परस्परविरोधि यत् ॥ २२ ॥
सुकुमारातितन्वङ्गी सद्यः प्रकटयौवना ।
चित्रमेतदसौ बाला कामभावविवर्जिता ॥ २३ ॥
कामकान्तासमा रूपे सर्वलक्षणलक्षिता ।
अम्बिकेयं किमेतत्तु हन्ति सर्वान्महाबलान् ॥ २४ ॥
उपायः कोऽत्र कर्तव्यो येन मे वशगा भवेत् ।
न मन्त्रा वा मरालाक्षीसाधने सन्निधौ मम ॥ २५ ॥
सर्वमन्त्रमयी ह्येषा मोहिनी मदगर्विता ।
सुन्दरीयं कथं मे स्याद्वशगा वरवर्णिनी ॥ २६ ॥
पातालगमनं मेऽद्य न युक्तं समराङ्गणात् ।
सामदानविभेदैश्च नेयं साध्या महाबला ॥ २७ ॥
किं कर्तव्यं च गन्तव्यं विषमे समुपस्थिते ।
मरणं नोत्तमं चात्र स्त्रीकृतं तु यशोऽपहृत् ॥ २८ ॥
मरणमृषिभिः प्रोक्तं सङ्गरे मङ्गलास्पदम् ।
यत्तत्समानबलयोर्योधयोर्युध्यतोः किल ॥ २९ ॥
प्राप्तेयं दैवरचिता नारी नरशतोत्तमा ।
नाशायास्मत्कुलस्येह सर्वथातिबलाबला ॥ ३० ॥
वृथा किं सामवाक्यानि मया योज्यानि साम्प्रतम् ।
हननायागता ह्येषा किं नु साम्ना प्रसीदति ॥ ३१ ॥
न दानैश्चालितुं योग्या नानाशस्त्रविभूषिता ।
भेदस्तु विफलः कामं सर्वदेववशानुगा ॥ ३२ ॥
तस्मात्तु मरणं श्रेयो न सङ्ग्रामे पलायनम् ।
जयो वा मरणं वाद्य भवत्वेव यथाविधि ॥ ३३ ॥
व्यास उवाच
इति सञ्चिन्त्य मनसा शुम्भः सत्त्वाश्रितोऽभवत् ।
युद्धाय सुस्थिरो भूत्वा तामुवाच पुरःस्थिताम् ॥ ३४ ॥
देवि युध्यस्व कान्तेऽद्य मृथायं ते परिश्रमः । मूर्खासि किल नारीणां नायं धर्मः कदाचन ॥ ३५ ॥
नारीणां लोचने बाणा भ्रुवावेव शरासनम् ।
हावभावास्तु शस्त्राणि पुमाल्ँलक्ष्यं विचक्षणः ॥ ३६ ॥
सन्नाहश्चाङ्गरागोऽत्र रथश्चापि मनोरथः ।
मन्दप्रजल्पितं भेरीशब्दो नान्यः कदाचन ॥ ३७ ॥
अन्यास्त्रधारणं स्त्रीणां विडम्बनमसंशयम् ।
लज्जैव भूषणं कान्ते न च धार्ष्ट्यं कदाचन ॥ ३८ ॥
युध्यमाना वरा नारी कर्कशेवाभिदृश्यते ।
स्तनौ सङ्गोपनीयौ वा धनुषः कर्षणे कथम् ॥ ३९ ॥
क्व मन्दगमनं कुत्र गदामादाय धावनम् ।
बुद्धिदा कालिका तेऽत्र चामुण्डा परनायिका ॥ ४० ॥
चण्डिका मन्त्रमध्यस्था लालनेऽसुस्वरा शिवा ।
वाहनं मृगराडास्ते सर्वसत्त्वभयङ्करः ॥ ४१ ॥
वीणानादं परित्यज्य घण्टानादं करोषि यत् ।
रूपयौवनयोः सर्वं विरोधि वरवर्णिनि ॥ ४२ ॥
यदि ते सङ्गरेच्छास्ति कुरूपा भव भामिनि ।
लम्बोष्ठी कुनखी क्रूरा ध्वाङ्क्षवर्णा विलोचना ॥ ४३ ॥
लम्बपादा कुदन्ती च मार्जारनयनाकृतिः ।
ईदृशं रूपमास्थाय तिष्ठ युद्धे स्थिरा भव ॥ ४४ ॥
कर्कशं वचनं ब्रूहि ततो युद्धं करोम्यहम् ।
ईदृशीं सुदतीं दृष्ट्वा न मे पाणिः प्रसीदति ॥ ४५ ॥
हन्तुं त्वां मृगशावाक्षि कामकान्तोपमे मृधे ।
व्यास उवाच
इति ब्रुवाणं कामार्तं वीक्ष्य तं जगदम्बिका ॥ ४६ ॥
स्मितपूर्वमिदं वाक्यमुवाच भरतोत्तम ।
देव्युवाच
किं विषीदसि मन्दात्मन् कामबाणविमोहितः ॥ ४७ ॥
प्रेक्षिकाहं स्थिता मूढ कुरु कालिकया मृधम् ।
चामुण्डया वा कुर्वेते तव योग्ये रणाङ्गणे ॥ ४८ ॥
प्रहरस्व यथाकामं नाहं त्वां योद्धमुत्सहे ।
इत्युक्त्वा कालिकां प्राह देवी मधुरया गिरा ॥ ४९ ॥
जह्येनं कालिके क्रूरे कुरूपप्रियमाहवे ।

व्यास उवाच
इत्युक्ता कालिका कालप्रेरिता कालरूपिणी ॥ ५० ॥
गदां प्रगृह्य तरसा तस्थावाजौ कृतोद्यमा ।
तयोः परस्परं युद्धं बभूवातिभयानकम् ॥ ५१ ॥
पश्यतां सर्वदेवानां मुनीनाञ्च महात्मनाम् ।
गदामुद्यम्य शुम्भोऽथ जघान कालिकां रणे ॥ ५२ ॥
कालिका दैत्यराजानं गदया न्यहनद्‌ भृशम् ।
बभञ्जास्य रथं चण्डी गदया कनकोज्ज्वलम् ॥ ५३ ॥
खरान्हत्वा जघानाशु दारुकं दारुणस्वना ।
स पदातिर्गदां गुर्वीं समादाय क्रुधान्वितः ॥ ५४ ॥
कालिकाभुजयोर्मध्ये प्रहसन्नहनत्तदा ।
वञ्चयित्वा गदाघातं खड्गमादाय सत्वरा ॥ ५५ ॥
चिच्छेदास्य भुजं सव्यं सायुधं चन्दनार्चितम् ।
स छिन्नबाहुर्विरथो गदापाणिः परिप्लुतः ॥ ५६ ॥
अचिरेण समागम्य कालिकामहनत्तदा ।
काली च करवालेन भुजं तस्याथ दक्षिणम् ॥ ५७ ॥
चिच्छेद प्रहसन्ती सा सगदं किल साङ्गदम् ।
कर्तुं पादप्रहारं स कुपितः प्रययौ जवात् ॥ ५८ ॥
काली चिच्छेद चरणौ खड्गेनास्य त्वरान्विता ।
सच्छिन्नकरपादोऽपि तिष्ठ तिष्ठेति च ब्रुवन् ॥ ५९ ॥
धावमानो ययावाशु कालिकां भीषयन्निव ।
तमागच्छन्तमालोक्य कालिका कमलोपमम् ॥ ६० ॥
चकर्त मस्तकं कण्ठाद्‌रुधिरौघवहं भृशम् ।
छिन्नेऽसौ मस्तके भूमौ पपात गिरिसन्निभः ॥ ६१ ॥
प्राणा विनिर्ययुस्तस्य देहादुत्क्रम्य सत्वरम् ।
गतासुं पतितं दैत्यं दृष्ट्वा देवाः सवासवाः ॥ ६२ ॥
तुष्टुवुस्तां तदा देवीं चामुण्डां कालिकां तथा ।
ववुर्वाताः शिवास्तत्र दिशश्च विमला भृशम् ॥ ६३ ॥
बभूवुश्चाग्नयो होमे प्रदक्षिणशिखाः शुभाः ।
हतशेषाश्च ये दैत्याः प्रणम्य जगदम्बिकाम् ॥ ६४ ॥
त्यक्त्वाऽऽयुधानि ते सर्वे पातालं प्रययुर्नृप ।
एतत्ते सर्वमाख्यातं देव्याश्चरितमुत्तमम् ॥ ६५ ॥
शुम्भादीनां वधं चैव सुराणां रक्षणं तथा ।
एतदाख्यानकं सर्वं पठन्ति भुवि मानवाः ॥ ६६ ॥
शृण्वन्ति च सदा भक्त्या ते कृतार्था भवन्ति हि ।
अपुत्रो लभते पुत्रान्निर्धनश्च धनं बहु ॥ ६७ ॥
रोगी च मुच्यते रोगात्सर्वान्कामानवाप्नुयात् ।
शत्रुतो न भयं तस्य य इदं चरितं शुभम् ।
शृणोति पठते नित्यं मुक्तिमाञ्जायते नरः ॥ ६८ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
पञ्चमस्कन्धे शुम्भवधो नामेकत्रिंशोऽध्यायः ॥ ३१ ॥