महिष उवाच
तस्यास्तु भगिनी कन्या नाम्ना चेन्दुमती शुभा ।
विवाहयोग्या सञ्जाता सुरूपावरजा यदा ॥ १ ॥
तस्या विवाहः संवृत्तः सञ्जातश्च स्वयंवरः ।
राजानो बहुदेशीयाः सङ्गतास्तत्र मण्डपे ॥ २ ॥
तया वृतो नृपः कश्चिद्बलवान् रूपसंयुतः ।
कुलशीलसमायुक्तः सर्वलक्षणसंयुतः ॥ ३ ॥
तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा ।
चकमे दैवयोगात्तु शठं चातुर्यभूषितम् ॥ ४ ॥
पितरं प्राह तन्वङ्गी विवाहं कुरु मे पितः ।
इच्छा मेऽद्य समुद्भूता दृष्ट्वा मद्राधिपं त्विह ॥ ५ ॥
चन्द्रसेनोऽपि तच्छ्रुत्वा पुत्र्या यद्भाषितं रहः ।
प्रसन्नेन च मनसा तत्कार्ये तत्परोऽभवत् ॥ ६ ॥
तमाहूय नृपं गेहे विवाहविधिना ददौ ।
कन्यां मन्दोदरीं तस्मै पारिबर्हं तथा बहु ॥ ७ ॥
चारुदेष्णोऽपि तां प्राप्य सुन्दरीं मुदितोऽभवत् ।
जगाम स्वगृहं तुष्टो राजापि सहितः स्त्रिया ॥ ८ ॥
रेमे नृपतिशार्दूलः कामिन्या बहुवासरान् ।
कदाचिद्दासपत्न्या स रममाणो रहः किल ॥ ९ ॥
सैरन्ध्र्या कथितं तस्यै तया दृष्टः पतिस्तथा ।
उपालम्भं ददौ तस्मै स्मितपूर्वं रुषान्विता ॥ १० ॥
कदाचिदपि सामान्यां रहो रूपवतीं नृपः ।
क्रीडयँल्लालयन्दृष्टः खेदं प्राप तदैव सा ॥ ११ ॥
न ज्ञातोऽयं शठः पूर्वं यदा दृष्टः स्वयंवरे ।
किं कृतं तु मया मोहाद्वञ्चिताहं नृपेण ह ॥ १२ ॥
किं करोम्यद्य सन्तापं निर्लज्जे निर्घृणे शठे ।
का प्रीतिरीदृशे पत्यौ धिगद्य मम जीवितम् ॥ १३ ॥
अद्यप्रभृति संसारे सुखं त्यक्तं मया खलु ।
पतिसम्भोगजं सर्वं सन्तोषोऽद्य मया कृतः ॥ १४ ॥
अकर्तव्यं कृतं कार्यं तज्जातं दुःखदं मम ।
देहत्यागः क्रियते चेद्धत्यातीव दुरत्यया ॥ १५ ॥
पितृगेहं व्रजाम्याशु तत्रापि न सुखं भवेत् ।
हास्ययोग्या सखीनां तु भवेयं नात्र संशयः ॥ १६ ॥
तस्मादत्रैव संवासो वैराग्ययुतया मया ।
कर्तव्यः कालयोगेन त्यक्त्वा कामसुखं पुनः ॥ १७ ॥
महिष उवाच
इति सञ्चिन्त्य सा नारी दुःखशोकपरायणा ।
स्थिता पतिगृहं त्यक्त्वा सुखं संसारजं ततः ॥ १८ ॥
तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम् ।
अन्यं कापुरुषं मन्दं कामार्ता संश्रयिष्यसि ॥ १९ ॥
वचनं कुरु मे तथ्यं नारीणां परमं हितम् ।
अकृत्वा परमं शोकं लप्स्यसे नात्र संशयः ॥ २० ॥
देव्युवाच
मन्दात्मन् गच्छ पातालं युद्धं वा कुरु साम्प्रतम् ।
हत्वा त्वामसुरान्सर्वान्गमिष्यामि यथासुखम् ॥ २१ ॥
यदा यदा हि साधूनां दुःखं भवति दानव ।
तदा तेषां च रक्षार्थं देहं सन्धारयाम्यहम् ॥ २२ ॥
अरूपायाश्च मे रूपमजन्मायाश्च जन्म च ।
सुराणां रक्षणार्थाय विद्धि दैत्य विनिश्चितम् ॥ २३ ॥
सत्यं ब्रवीमि जानीहि प्रार्थिताहं सुरैः किल ।
त्वद्वधार्थं हयारे त्वां हत्वा स्थास्यामि निश्चला ॥ २४ ॥
तस्माद्युध्यस्व वा गच्छ पातालमसुरालयम् ।
सर्वथा त्वां हनिष्यामि सत्यमेतद् ब्रवीम्यहम् ॥ २५ ॥
व्यास उवाच
इत्युक्तः स तया देव्या धनुरादाय दानवः ।
युद्धकामः स्थितस्तत्र सङ्ग्रामाङ्गणभूमिषु ॥ २६ ॥
मुमोच तरसा बाणान्कर्णाकृष्टाञ्छिलाशितान् ।
देवी चिच्छेद तान्बाणैः क्रोधान्मुक्तैरयोमुखैः ॥ २७ ॥
तयोः परस्परं युद्धं सम्बभूव भयप्रदम् ।
देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ २८ ॥
मध्ये दुर्धर आगत्य मुमोच च शिलीमुखान् ।
देवीं प्रति विषासक्तान्कोपयन्नतिदारुणान् ॥ २९ ॥
ततो भगवती क्रुद्धा तं जघान शितैः शरैः ।
दुर्धरस्तु पपातोर्व्यां गतासुर्गिरिशृङ्गवत् ॥ ३० ॥
तं तथा निहतं दृष्ट्वा त्रिनेत्रः परमास्त्रवित् ।
आगत्य सप्तभिर्बाणैर्जघान परमेश्वरीम् ॥ ३१ ॥
अनागतांस्तु चिच्छेद देवी तान्विशिखैः शरान् ।
त्रिशूलेन त्रिनेत्रं तु जघान जगदम्बिका ॥ ३२ ॥
अन्धकस्त्वाजगामाशु हतं दृष्ट्वा त्रिलोचनम् ।
गदया लोहमय्याऽऽशु सिंहं विव्याध मस्तके ॥ ३३ ॥
सिंहस्तु नखघातेन तं हत्वा बलवत्तरम् ।
चखाद तरसा मांसमन्धकस्य रुषान्वितः ॥ ३४ ॥
तान् रणे निहतान्वीक्ष्य दानवो विस्मयं गतः ।
चिक्षेप तरसा बाणानतितीक्ष्णाञ्छिलाशितान् ॥ ३५ ॥
द्विधा चक्रे शरान्देवी तानप्राप्ताञ्छिलीमुखैः ।
गदया ताडयामास दैत्यं वक्षसि चाम्बिका ॥ ३६ ॥
स गदाभिहतो मूर्च्छामवापामरबाधकः ।
विषह्य पीडां पापात्मा पुनरागत्य सत्वरः ॥ ३७ ॥
जघान गदया सिंहं मूर्ध्नि क्रोधसमन्वितः ।
सिंहोऽपि नखघातेन तं ददार महासुरम् ॥ ३८ ॥
विहाय पौरुषं रूपं सोऽपि सिंहो बभूव ह ।
नखैर्विदारयामास देवीसिंहं मदोत्कटम् ॥ ३९ ॥
तञ्च केसरिणं वीक्ष्य देवी क्रुद्धा ह्ययोमुखैः ।
शरैरवाकिरत्तीक्ष्णैः क्रूरैराशीविषैरिव ॥ ४० ॥
त्यक्त्वा स हरिरूपं तु गजो भूत्वा मदस्रवः ।
शैलशृङ्गं करे कृत्वा चिक्षेप चण्डिकां प्रति ॥ ४१ ॥
आगच्छन्तं गिरेः शृङ्गं देवी बाणैः शिलाशितैः ।
चकार तिलशः खण्डाञ्जहास जगदम्बिका ॥ ४२ ॥
उत्पत्य च तदा सिंहस्तस्य मूर्ध्नि व्यवस्थितः ।
नखैर्विदारयामास महिषं गजरूपिणम् ॥ ४३ ॥
विहाय गजरूपं च बभूवाष्टापदी तथा ।
हन्तुकामो हरिं कोपाद्दारुणो बलवत्तरः ॥ ४४ ॥
तं वीक्ष्य शरभं देवी खड्गेन सा रुषान्विता ।
उत्तमाङ्गे जघानाशु सोऽपि तां प्राहरत्तदा ॥ ४५ ॥
तयोः परस्परं युद्धं बभूवातिभयप्रदम् ।
माहिषं रूपमास्थाय शृङ्गाभ्यां प्राहरत्तदा ॥ ४६ ॥
पुच्छप्रभ्रमणेनाशु शृङ्गाघातैर्महासुरः ।
ताडयामास तन्वङ्गीं घोररूपो भयानकः ॥ ४७ ॥
पुच्छेन पर्वताञ्छृङ्गे गृहीत्वा भ्रामयन्बलात् ।
प्रेषयामास पापात्मा प्रहसन्परया मुदा ॥ ४८ ॥
तामुवाच बलोन्मत्तस्तिष्ठ देवि रणाङ्गणे ।
अद्याहं त्वां हनिष्यामि रूपयौवनभूषिताम् ॥ ४९ ॥
मूर्खासि मदमत्ताद्य यन्मया सह सङ्गरम् ।
करोषि मोहितातीव मृषा बलवती खरा ॥ ५० ॥
हत्वा त्वां निहनिष्यामि देवान्कपटपण्डितान् ।
ये नारीं पुरतः कृत्वा जेतुमिच्छन्ति मां शठाः ॥ ५१ ॥
देव्युवाच
मा गर्वं कुरु मन्दात्मंस्तिष्ठ तिष्ठ रणाङ्गणे ।
करिष्यामि निरातङ्कान्हत्वा त्वां सुरसत्तमान् ॥ ५२ ॥
पीत्वाद्य माधवीं मिष्टां शातयामि रणेऽधम ।
देवानां दुःखदं पापं मुनीनां भयकारकम् ॥ ५३ ॥
व्यास उवाच
इत्युक्त्वा चषकं हैमं गहीत्वा सुरया युतम् ।
पपौ पुनः पुनः क्रोधाद्धन्तुकामा महासुरम् ॥ ५४ ॥
पीत्वा द्राक्षासवं मिष्टं शूलमादाय सत्वरा ।
दुद्राव दानवं देवी हर्षयन्देवतागणान् ॥ ५५ ॥
देवास्तां तुष्टुवुः प्रेष्णा चक्रुः कुसुमवर्षणम् ।
जय जीवेति ते प्रोचुर्दुन्दुभीनाञ्च निःस्वनैः ॥ ५६ ॥
ऋषयः सिद्धगन्धर्वाः पिशाचोरगचारणाः ।
किन्नराः प्रेक्ष्य सङ्ग्रामं मुदिता गगने स्थिताः ॥ ५७ ॥
सोऽपि नानाविधान्देहान्कृत्वा कृत्वा पुनः पुनः ।
मायामयाञ्जघानाजौ देवीं कपटपण्डितः ॥ ५८ ॥
चण्डिकापि च तं पापं त्रिशूलेन बलाद्धृदि ।
ताडयामास तीक्ष्णेन क्रोधादरुणलोचना ॥ ५९ ॥
ताडितोऽसौ पपातोर्व्यां मूर्च्छामाप मुहूर्तकम् ।
पुनरुत्थाय चामुण्डां पद्भ्यां वेगादताडयत् ॥ ६० ॥
विनिहत्य पदाघातैर्जहास च मुहुर्मुहुः ।
रुराव दारुणं शब्दं देवानां भयकारकम् ॥ ६१ ॥
ततो देवी सहस्रारं सुनाभं चक्रमुत्तमम् ।
करे कृत्वा जगादोच्चैः संस्थितं महिषासुरम् ॥ ६२ ॥
पश्य चक्रं मदान्धाद्य तव कण्ठनिकृन्तनम् ।
क्षणमात्रं स्थिरो भूत्वा यमलोकं व्रजाधुना ॥ ६३ ॥
इत्युक्त्वा दारुणं चक्रं मुमोच जगदम्बिका ।
शिरश्छिन्नं रथाङ्गेन दानवस्य तदा रणे ॥ ६४ ॥
सुस्राव रुधिरं चोष्णं कण्ठनालाद् गिरेर्यथा ।
गैरिकाद्यरुणं प्रौढं प्रवाहमिव नैर्झरम् ॥ ६५ ॥
कबन्धस्तस्य दैत्यस्य भ्रमन्वै पतितः क्षितौ ।
जयशब्दश्च देवानां बभूव सुखवर्धनः ॥ ६६ ॥
सिंहस्त्वतिबलस्तत्र पलायनपरानथ ।
दानवान्भक्षयामास क्षुधार्त इव सङ्गरे ॥ ६७ ॥
मृते च महिषे क्रूरे दानवा भयपीडिताः ।
मृतशेषाश्च ये केचित्पातालं ते ययुर्नृप ॥ ६८ ॥
आनन्दं परमं जग्मुर्देवास्तस्मिन्निपातिते ।
मुनयो मानवाश्चैव ये चान्ये साधवः क्षितौ ॥ ६९ ॥
चण्डिकापि रणं त्यक्त्वा शुभे देशेऽथ संस्थिता ।
देवास्तत्राययुः शीघ्रं स्तोतुकामाः सुखप्रदाम् ॥ ७० ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
पञ्चमस्कन्धे महिषासुरवधो नामाष्टादशोऽध्यायः ॥ १८ ॥