व्यास उवाच
इति सञ्चिन्त्य मनसा तानुवाच हसन्निव ।
वञ्चिता मत्स्वरूपेण दैत्याः किं गुरुणा किल ॥ १ ॥
अहं काव्यो गुरुश्चायं देवकार्यप्रसाधकः ।
अनेन वञ्चिता यूयं मद्याज्या नात्र संशयः ॥ २ ॥
मा श्रद्धध्वं वचोऽस्यार्या दाम्भिकोऽयं मदाकृतिः ।
अनुगच्छत मां याज्यास्त्यजतैनं बृहस्पतिम् ॥ ३ ॥
इत्याकर्ण्य वचस्तस्य दृष्ट्वा तौ सदृशौ पुनः ।
विस्मयं परमं जग्मुः काव्योऽयमिति निश्चिताः ॥ ४ ॥
स तान्वीक्ष्य सुसम्भ्रान्तान्गुरुर्वाक्यमुवाच ह ।
गुरुर्वो वञ्चयत्येव मद्रूपोऽयं बृहस्पतिः ॥ ५ ॥
प्राप्तो वञ्चयितुं युष्मान्देवकार्यार्थसिद्धये ।
मा विश्वासं वचस्तस्य कुरुध्वं दैत्यसत्तमाः ॥ ६ ॥
प्राप्ता विद्या मया शम्भोर्युष्मानध्यापयामि ताम् ।
देवेभ्यो विजयं नूनं करिष्यामि न संशयः ॥ ७ ॥
इति श्रुत्वा गुरोर्वाक्यं काव्यरूपधरस्य ते ।
विश्वासं परमं जग्मुः काव्योऽयमिति निश्चयात् ॥ ८ ॥
काव्येन बहुधा तत्र बोधिताः किल दानवाः ।
बुबुधुर्न गुरोर्मायामोहिताः कालपर्ययात् ॥ ९ ॥
एवं ते निश्चयं कृत्वा ततो भार्गवमब्रुवन् ।
अयं गुरुर्नो धर्मात्मा बुद्धिदश्च हिते रतः ॥ १० ॥
दशवर्षाणि सततमयं नः शास्ति भार्गवः ।
गच्छ त्वं कुहको भासि नास्माकं गुरुरप्युत ॥ ११ ॥
इत्युक्त्वा भार्गवं मूढा निर्भर्त्स्य च पुनः पुनः ।
जगृहुस्तं गुरुं प्रीत्या प्रणिपत्याभिवाद्य च ॥ १२ ॥
काव्यस्तु तन्मयान्दृष्ट्वा चुकोपाथ शशाप च ।
दैत्यान्विबोधितान्मत्वा गुरुणा चातिवञ्जितान् ॥ १३ ॥
यस्मान्मया बोधिता वै गृह्णीयुर्न च मे वचः ।
तस्मात्प्रनष्टसञ्ज्ञा वै पराभवमवाप्स्यथ ॥ १४ ॥
मदवज्ञाफलं कामं स्वल्पे काले ह्यवाप्स्यथ ।
तदास्य कपटं सर्वं परिज्ञातं भविष्यति ॥ १५ ॥
व्यास उवाच
इत्युक्त्वासौ जगामाशु भार्गवः क्रोधसंयुतः ।
बृहस्पतिर्मुदं प्राप्य तस्थौ तत्र समाहितः ॥ १६ ॥
ततः शप्तान्गुरुर्ज्ञात्वा दैत्यांस्ताम्भार्गवेण हि ।
जगाम तरसा त्यक्त्वा स्वरूपं स्वं विधाय च ॥ १७ ॥
गत्वोवाच तदा शक्रं कृतं कार्यं मया धुवम् ।
शप्ताः शुक्रेण ते दैत्या मया त्यक्ताः पुनः किल ॥ १८ ॥
निराधाराः कृता नूनं यतध्वं सुरसत्तमाः ।
सङ्ग्रामार्थं महाभाग शापदग्धा मया कृताः ॥ १९ ॥
इति श्रुत्वा गुरोर्वाक्यं मघवा मुदमाप्तवान् ।
जहृषुश्च सुराः सर्वे प्रतिपूज्य बृहस्पतिम् ॥ २० ॥
सङ्ग्रामाय मतिं चक्रुः संविचार्य मिथः पुनः ।
निर्ययुर्मिलिताः सर्वे दानवाभिमुखाः सुराः ॥ २१ ॥
सुरान्समुद्यताञ्ज्ञात्वा कृतोद्योगान्महाबलान् ।
अन्तर्हितं गुरुं चैव बभूवुश्चिन्तयान्विताः ॥ २२ ॥
परस्परमथोचुस्ते मोहितास्तस्य मायया ।
सम्प्रसाद्यो महात्मा च यातोऽसौ रुष्टमानसः ॥ २३ ॥
वञ्चयित्वा गतः पापो गुरुः कपटपण्डितः ।
भ्रातृस्त्रीलम्भनः प्रायो मलिनोऽन्तर्बहिः शुचिः ॥ २४ ॥
किं कुर्मः क्व च गच्छामः कथं काव्यं प्रकोपितम् ।
कुर्वीमहि सहायार्थं प्रसन्नं हृष्टमानसम् ॥ २५ ॥
इति सञ्चिन्त्य ते सर्वे मिलिता भयकम्पिताः ।
प्रह्लादं पुरतः कृत्वा जग्मुस्ते भार्गवं पुनः ॥ २६ ॥
प्रणेमुश्चरणौ तस्य मुनेर्मौनभृतस्तदा ।
भार्गवस्तानुवाचाथ रोषसंरक्तलोचनः ॥ २७ ॥
मया प्रबोधिता यूयं मोहिता गुरुमायया ।
न गृहीतं वचो योग्यं तदा याज्या हितं शुचि ॥ २८ ॥
तदावगणितश्चाहं भवद्भिस्तद्वशं गतैः ।
प्राप्तं नूनं मदोन्मत्तैर्ममावमानजं फलम् ॥ २९ ॥
तत्र गच्छत सत्भ्रष्टा यत्रासौ कपटाकृतिः ।
वञ्चकः सुरकार्यार्थी नाहं तद्वद्धि वञ्चकः ॥ ३० ॥
व्यास उवाच
एवं ब्रुवन्तं शुक्रं तु वाक्यसन्दिग्धया गिरा ।
प्रह्लादस्तं तदोवाच गहीत्वा चरणौ ततः ॥ ३१ ॥
प्रह्लाद उवाच
भार्गवाद्य समायातान्याज्यानस्मांस्तथातुरान् ।
त्यक्तुं नार्हसि सर्वज्ञ त्वद्धितास्तनयान्हि नः ॥ ३२ ॥
गते त्वयि तु मन्त्रार्थं शैलूषेण दुरात्मना ।
त्वद्वेषमधुरालापैर्वयं तेन प्रवञ्चिताः ॥ ३३ ॥
अज्ञानकृतदोषेण नैव कुप्यति शान्तिमान् ।
सर्वज्ञस्त्वं विजानासि चित्तं नः प्रवणं त्वयि ॥ ३४ ॥
ज्ञात्वा नस्तपसा भावं त्यज कोपं महामते ।
ब्रुवन्ति मुनयः सर्वे क्षणकोपा हि साधवः ॥ ३५ ॥
जलं स्वभावतः शीतं वह्न्यातपसमागमात् ।
भवत्युष्णं वियोगाच्च शीतत्वमनुगच्छति ॥ ३६ ॥
क्रोथश्चाण्डालरूपो वै त्यक्तव्यः सर्वथा बुधैः ।
तस्माद्रोषं परित्यज्य प्रसादं कुरु सुव्रत ॥ ३७ ॥
यदि न त्यजसि क्रोधं त्यजस्यस्मान्सुदुःखितान् ।
त्वया त्यक्ता महाभाग गमिष्यामो रसातलम् ॥ ३८ ॥
व्यास उवाच
प्रह्लादस्य वचः श्रुत्वा भार्गवो ज्ञानचक्षुषा ।
विलोक्य सुमना भूत्वा तानुवाच हसन्निव ॥ ३९ ॥
न भेतव्यं न गन्तव्यं दानवा वा रसातलम् ।
रक्षयिष्यामि वो याज्यान्मन्त्रैरवितथैः किल ॥ ४० ॥
हितं सत्यं ब्रवीम्यद्य शृणुध्वं तत्तु निश्चयम् ।
वचनं मम धर्मज्ञाः श्रुतं यद् ब्रह्मणः पुरा ॥ ४१ ॥
अवश्यम्भाविनो भावाः प्रभवन्ति शुभाशुभाः ।
दैवं न चान्यथा कर्तुं क्षमः कोऽपि धरातले ॥ ४२ ॥
अद्य मन्दबला यूयं कालयोगादसंशयम् ।
देवैर्जिताः सकृच्चापि पातालं प्रतिपत्स्यथ ॥ ४३ ॥
प्राप्तः पर्यायकालो व इति ब्रह्माभ्यभाषत ।
भुक्तं राज्यं भवद्भिश्च पूर्णं सर्वं समृद्धिमत् ॥ ४४ ॥
युगानि दश पूर्णानि देवानाक्रम्य मूर्धनि ।
दैवयोगाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्जितम् ॥ ४५ ॥
सावर्णिके मनौ राज्यं पुनस्तत्तु भविष्यति ।
पौत्रस्त्रैलोक्यविजयी राज्यं प्राप्स्यति ते बलिः ॥ ४६ ॥
यदा वामनरूपेण हृतं देवेन विष्णुना ।
तदैव च भवत्पौत्रः प्रोक्तो देवेन जिष्णुना ॥ ४७ ॥
हृतं येन बले राज्यं देववाञ्छार्थसिद्धये ।
त्वमिन्द्रो भविता चाग्ने स्थिते सावर्णिके मनौ ॥ ४८ ॥
भार्गव उवाच
इत्युक्तो हरिणा पौत्रस्तव प्रह्लाद साम्प्रतम् ।
अदृश्यः सर्वभूतानां गुप्तश्चरति भीतवत् ॥ ४९ ॥
एकदा वासवेनासौ बलिर्गर्दभरूपभाक् ।
शून्ये गृहे स्थितः कामं भयभीतः शतक्रतोः ॥ ५० ॥
पृष्टश्च बहुधा तेन वासवेन बलिस्तदा ।
किमर्थं गार्दभं रूपं कृतवान्दैत्यपुङ्गव ॥ ५१ ॥
भोक्ता त्वं सर्वलोकस्य दैत्यानां च प्रशासिता ।
(न लज्जा खररूपेण तव राक्षससत्तम ।) ॥
तस्य तद्वचनं श्रुत्वा दैत्यराजो बलिस्तदा ॥ ५२ ॥
प्रोवाच वचनं शक्रं कोऽत्र शोकः शतक्रतो ।
यथा विष्णुर्महातेजा मत्स्यकच्छपतां गतः ॥ ५३ ॥
तथाहं खररूपेण संस्थितः कालयोगतः ।
यथा त्वं कमले लीनः संस्थितो ब्रह्महत्यया ॥ ५४ ॥
पीडितश्च तथा ह्यद्य स्थितोऽहं खररूपधृक् ।
दैवाधीनस्य किं दुःखं किं सुखं पाकशासन ॥ ५५ ॥
कालः करोति वै नूनं यदिच्छति यथा तथा ।
भार्गव उवाच
इति तौ बलिदेवेशौ कृत्वा संविदमुत्तमाम् ॥ ५६ ॥
प्रबोधं प्रापतुः कामं यथास्थानञ्च जग्मतुः ।
इत्येतत्ते समाख्याता मया दैवबलिष्ठता ॥ ५७ ॥
दैवाधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ ५८ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
चतुर्थस्कन्धे प्रह्लादेन शुक्रकोपसान्त्वनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥