सूत उवाच
प्रतीपेऽथ दिवं याते शन्तनुः सत्यविक्रमः ।
बभूव मृगयाशीलो निघ्नन्व्याघ्रान्मृगान्नृपः ॥ १ ॥
स कदाचिद्वने घोरे गङ्गातीरे चरन्नृपः ।
ददर्श मृगशावाक्षीं सुन्दरीं चारुभूषणाम् ॥ २ ॥
दृष्ट्वा तां नृपतिर्मग्नः पित्रोक्तेयं वरानना ।
रूपयौवनसम्पन्ना साक्षाल्लक्ष्मीरिवापरा ॥ ३ ॥
पिबन्मुखाम्बुजं तस्या न तृप्तिमगमन्नृपः ।
हृष्टरोमाभवत्तत्र व्याप्तचित्त इवानघ ॥ ४ ॥
महाभिषं सापि मत्वा प्रेमयुक्ता बभूव ह ।
किञ्चिन्मन्दस्मितं कृत्वा तस्थावग्रे नृपस्य च ॥ ५ ॥
वीक्ष्य तामसितापाङ्गीं राजा प्रीतमना भृशम् ।
उवाच मधुरं वाक्यं सान्त्वयन् श्लक्ष्णया गिरा ॥ ६ ॥
देवी वा त्वं च वामोरु मानुषी वा वरानने ।
गन्धर्वी वाथ यक्षी वा नागकन्याप्सरापि वा ॥ ७ ॥
यासि कासि वरारोहे भार्या मे भव सुन्दरि ।
प्रेमयुक्तस्मितैव त्वं धर्मपत्नी भवाद्य मे ॥ ८ ॥
सूत उवाच
राजा तां नाभिजानाति गङ्गेयमिति निश्चितम् ।
महाभिषं समुत्पन्नं नृपं जानाति जाह्नवी ॥ ९ ॥
पूर्वप्रेमसमायोगाच्छ्रुत्वा वाचं नृपस्य ताम् ।
उवाच नारी राजानं स्मितपूर्वमिदं वचः ॥ १० ॥
स्त्र्युवाच
जानामि त्वां नृपश्रेष्ठ प्रतीपतनयं शुभम् ।
का न वाञ्छति चार्वङ्गी भावित्वात्सदृशं पतिम् ॥ ११ ॥
वाग्बन्धेन नृपश्रेष्ठ वरिष्यामि पतिं किल ।
शृणु मे समयं राजन् वृणोमि त्वां नृपोत्तम ॥ १२ ॥
यच्च कुर्यामहं कार्यं शुभं वा यदि वाशुभम् ।
न निषेध्या त्वया राजन्न वक्तव्यं तथाप्रियम् ॥ १३ ॥
यदा च त्वं नृपश्रेष्ठ न करिष्यसि मे वचः ।
तदा मुक्त्या गमिष्यामि यथेष्टदेशं मारिष ॥ १४ ॥
स्मृत्वा जन्म वसूनां सा प्रार्थनापूर्वकं हृदि ।
महाभिषस्य प्रेमाथ विचिन्त्यैव च जाह्नवी ॥ १५ ॥
तथेत्युक्ताथ सा देवी चकार नृपतिं पतिम् ।
एवं वृता नृपेणाथ गङ्गा मानुषरूपिणी ॥ १६ ॥
नृपस्य मन्दिरं प्राप्ता सुभगा वरवर्णिनी ।
नृपतिस्तां समासाद्य चिक्रीडोपवने शुभे ॥ १७ ॥
सापि तं रमयामास भावज्ञा वै वराङ्गना ।
न बुबोध नृपः क्रीडन्गतान्वर्षगणानथ ॥ १८ ॥
स तया मृगशावाक्ष्या शच्या शतक्रतुर्यथा ।
सा सर्वगुणसम्पन्ना सोऽपि कामविचक्षणः ॥ १९ ॥
रेमाते मन्दिरे दिव्ये रमानारायणाविव ।
एवं गच्छति काले सा दधार नृपतेस्तदा ॥ २० ॥
गर्भं गङ्गा वसुं पुत्रं सुषुवे चारुलोचना ।
जातमात्रं सुतं वारि चिक्षेपैवं द्वितीयके ॥ २१ ॥
तृतीयेऽथ चतुर्थेऽथ पञ्चमे षष्ठ एव च ।
सप्तमे वा हते पुत्रे राजा चिन्तापरोऽभवत् ॥ २२ ॥
किं करोम्यद्य वंशो मे कथं स्यात्सुस्थिरो भुवि ।
सप्त पुत्रा हता नूनमनया पापरूपया ॥ २३ ॥
निवारयामि यदि मां त्यक्त्वा यास्यति सर्वथा ।
अष्टमोऽयं सुसम्प्राप्तो गर्भो मे मनसीप्सितः ॥ २४ ॥
न वारयामि चेदद्य सर्वथेयं जले क्षिपेत् ।
भविता वा न वा चाग्रे संशयोऽयं ममाद्भुतः ॥ २५ ॥
सम्भवेऽपि च दृष्टेयं रक्षयेद्वा न रक्षयेत् ।
एवं संशयिते कार्ये किं कर्तव्यं मयाधुना ॥ २६ ॥
वंशस्य रक्षणार्थं हि यत्नः कार्यः परो मया ।
ततः काले यदा जातः पुत्रोऽयमष्टमो वसुः ॥ २७ ॥
मुनेर्येन हृता धेनुर्नन्दिनी स्त्रीजितेन हि ।
तं दृष्ट्वा नृपतिः पुत्रं तामुवाच पतन्पदे ॥ २८ ॥
दासोऽस्मि तव तन्वङ्गि प्रार्थयामि शुचिस्मिते ।
पुत्रमेकं पुषाम्येनं देहि जीवितमद्य मे ॥ २९ ॥
हिंसिताः सप्त पुत्रा मे करभोरु त्वया शुभाः ।
अष्टमं रक्ष सुश्रोणि पतामि तव पादयोः ॥ ३० ॥
अन्यद्वै प्रार्थितं तेऽद्य ददाम्यथ च दुर्लभम् ।
वंशो मे रक्षणीयोऽद्य त्वया परमशोभने ॥ ३१ ॥
अपुत्रस्य गतिर्नास्ति स्वर्गे वेदविदो विदुः ।
तस्मादद्य वरारोहे प्रार्थयाम्यष्टमं सुतम् ॥ ३२ ॥
इत्युक्तापि गृहीत्वा तं यदा गन्तुं समुत्सुका ।
तदातिकुपितो राजा तामुवाचातिदुःखितः ॥ ३३ ॥
पापिष्ठे किं करोम्यद्य निरयान्न बिभेषि किम् ।
कासि पापकराणां त्वं पुत्री पापरता सदा ॥ ३४ ॥
यथेच्छं गच्छ वा तिष्ठ पुत्रो मे स्थीयतामिह ।
किं करोमि त्वया पापे वंशान्तकरयानया ॥ ३५ ॥
एवं वदति भूपाले सा गृहीत्वा सुतं शिशुम् ।
गच्छन्ती वचनं कोपसंयुता तमुवाच ह ॥ ३६ ॥
पुत्रकामा सुतं त्वेनं पालयामि वने गता ।
समयो मे गमिष्यामि वचनं ह्यन्यथाकृतम् ॥ ३७ ॥
गङ्गां मां वै विजानीहि देवकार्यार्थमागताम् ।
वसवस्तु पुरा शप्ता वसिष्ठेन महात्मना ॥ ३८ ॥
व्रजन्तु मानुषीं योनिं स्थितां चिन्तातुरास्तु माम् ।
दृष्ट्वेदं प्रार्थयामासुर्जननी नो भवानघे ॥ ३९ ॥
तेभ्यो दत्त्वा वरं जाता पत्नी ते नृपसत्तम ।
देवकार्यार्थसिद्ध्यर्थं जानीहि सम्भवो मम ॥ ४० ॥
सप्त ते वसवः पुत्रा मुक्ताः शापादृषेस्तु ते ।
कियन्तं कालमेकोऽयं तव पुत्रो भविष्यति ॥ ४१ ॥
गङ्गादत्तमिमं पुत्रं गृहाण शन्तनो स्वयम् ।
वसुं देवं विदित्वैनं सुखं भुङ्क्ष्व सुतोद्भवम् ॥ ४२ ॥
गाङ्गेयोऽयं महाभाग भविष्यति बलाधिकः ।
अद्य तत्र नयाम्येनं यत्र त्वं वै मया वृतः ॥ ४३ ॥
दास्यामि यौवनप्राप्तं पालयित्वा महीपते ।
न मातृरहितः पुत्रो जीवेन्न च सुखी भवेत् ॥ ४४ ॥
इत्युक्त्वान्तर्दधे गङ्गा तं गृहीत्वा च बालकम् ।
राजा चातीव दुःखार्तः संस्थितो निजमन्दिरे ॥ ४५ ॥
भार्याविरहजं दुःखं तथा पुत्रस्य चाद्भुतम् ।
सर्वदा चिन्तयन्नास्ते राज्यं कुर्वन्महीपतिः ॥ ४६ ॥
एवं गच्छति कालेऽथ नृपतिर्मृगयां गतः ।
निघ्नन्मृगगणान्बाणैर्महिषान्सूकरानपि ॥ ४७ ॥
गङ्गातीरमनुप्राप्तः स राजा शन्तनुस्तदा ।
नदीं स्तोकजलां दृष्ट्वा विस्मितः स महीपतिः ॥ ४८ ॥
तत्रापश्यत्कुमारं तं मुञ्चन्तं विशिखान्बहून् ।
आकृष्य च महाचापं क्रीडन्तं सरितस्तटे ॥ ४९ ॥
तं वीक्ष्य विस्मितो राजा न स्म जानाति किञ्चन ।
नोपलेभे स्मृतिं भूपः पुत्रोऽयं मम वा न वा ॥ ५० ॥
दृष्ट्वाप्यमानुषं कर्म बाणेषु लघुहस्तताम् ।
विद्यां वाप्रतिमां रूपं तस्य वै स्मरसन्निभम् ॥ ५१ ॥
पप्रच्छ विस्मितो राजा कस्य पुत्रोऽसि चानघ ।
नोवाच किञ्चिद्वीरोऽसौ मुञ्चञ्छिलीमुखानथ ॥ ५२ ॥
अन्तर्धानं गतः सोऽथ राजा चिन्तातुरोऽभवत् ।
कोऽयं मम सुतो बालः किं करोमि व्रजामि कम् ॥ ५३ ॥
गङ्गां तुष्टाव भूपालः स्थितस्तत्र समाहितः ।
दर्शनं सा ददौ चाथ चारुरूपा यथा पुरा ॥ ५४ ॥
दृष्ट्वा तां चारुसर्वाङ्गीं बभाषे नृपतिः स्वयम् ।
कोऽयं गङ्गे गतो बालो मम त्वं दर्शयाधुना ॥ ५५ ॥
गङ्गोवाच
पुत्रोऽयं तव राजेन्द्र रक्षितश्चाष्टमो वसुः ।
ददामि तव हस्ते तु गाङ्गेयोऽयं महातपाः ॥ ५६ ॥
कीर्तिकर्ता कुलस्यास्य भविता तव सुव्रत ।
पाठितस्त्वखिलान्वेदान्धनुर्वेदं च शाश्वतम् ॥ ५७ ॥
वसिष्ठस्याश्रमे दिव्ये संस्थितोऽयं सुतस्तव ।
सर्वविद्याविधानज्ञः सर्वार्थकुशलः शुचिः ॥ ५८ ॥
यद्वेद जामदग्न्योऽसौ तद्वेदायं सुतस्तव ।
गृहाण गच्छ राजेन्द्र सुखी भव नराधिप ॥ ५९ ॥
इत्युक्त्वान्तर्दधे गङ्गा दत्त्वा पुत्रं नृपाय वै ।
नृपतिस्तु मुदा युक्तो बभूवातिसुखान्वितः ॥ ६० ॥
समालिङ्ग्य सुतं राजा समाघ्राय च मस्तकम् ।
समारोप्य रथे पुत्रं स्वपुरं स प्रचक्रमे ॥ ६१ ॥
गत्वा गजाह्वयं राजा चकारोत्सवमुत्तमम् ।
दैवज्ञं च समाहूय पप्रच्छ च शुभं दिनम् ॥ ६२ ॥
समाहृत्य प्रजाः सर्वाः सचिवान्सर्वशः शुभान् ।
यौवराज्येऽथ गाङ्गेयं स्थापयामास पार्थिवः ॥ ६३ ॥
कृत्वा तं युवराजानं पुत्रं सर्वगुणान्वितम् ।
सुखमास स धर्मात्मा न सस्मार च जाह्नवीम् ॥ ६४ ॥
सूत उवाच
एतद्वः कथितं सर्वं कारणं वसुशापजम् ।
गाङ्गेयस्य तथोत्पत्तिं जाह्नव्याः सम्भवं तथा ॥ ६५ ॥
गङ्गावतरणं पुण्यं वसूनां सम्भवं तथा ।
यः शृणोति नरः पापान्मुच्यते नात्र संशयः ॥ ६६ ॥
पुण्यं पवित्रमाख्यानं कथितं मुनिसत्तमाः ।
यथा मया श्रुतं व्यासात्पुराणं वेदसम्मितम् ॥ ६७ ॥
श्रीमद्भागवतं पुण्यं नानाख्यानकथान्वितम् ।
द्वैपायनमुखोद्भूतं पञ्चलक्षणसंयुतम् ॥ ६८ ॥
शृण्वतां सर्वपापघ्नं शुभदं सुखदं तथा ।
इतिहासमिमं पुण्यं कीर्तितं मुनिसत्तमाः ॥ ६९ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे देवव्रतोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥