नारद उवाच –
हेतुना केन भगवान्कालकालो महेश्वरः श्रोतुमिच्छामि भगवन्ब्रूहि मे कमलोद्भव १
ब्रह्मोवाच – आसीन्मुनिवरः पूर्वं नाम्ना श्वेत इति स्मृतः तीर्थोदकानि सेवेत यमांश्च नियमांस्तथा २
माहेश्वराग्रणीः शान्तो महादेवार्चने रतः तं नेतुमागतः कालो दण्डहस्तो भयंकरः ३
दृष्ट्वा कालं स विप्रेन्द्रो भयव्याकुलितेन्द्रियः स्पृष्ट्वा कराभ्यां तल्लिगं ध्यायमानो महेश्वरम् ४
प्रहसन्नब्रवीत्कालः श्वेतं मुनिवरं मुने प्राप्ते मयि कथं ब्रह्मन्स्वस्थास्तिष्ठान्ति जन्तवः ५
चरन्ति मद्भयात्सर्वे ब्रह्मचर्यं तपांसि च तीर्थं दानं प्रशंसन्ति निरताः स्वेषु कर्मसु ६
यजन्ति मद्भयाद्देवान्यज्ञांश्च विविधांस्तथा तस्मादुत्तिष्ठ नेष्यामि मम पाशवशं गतः ७
दातारं नैव पश्यन्ति तवाद्य मुनिपुंगवाः एवं निशम्य वचनं स वै कालस्य नारद ८
अथाब्रवीद्यमं भीतः पाशहस्तं करालिनम् कथमीशार्चनरतं त्वं मां नेतुमिहार्हसि ९
शिवार्चनरतानां च त्वत्तः कस्माद्भयं वद एवमुक्तो यमः कोपादुद्बन्ध्य मुनिपुंगवम् १०
पाशैर्दृढतरैः शीघ्रं ध्यायमानं महेश्वरम् अथ देवो महादेवः प्रादुर्भूतस्त्रिलोकभृत् ११
तं दृष्ट्वा देवदेवेशं प्रहृष्टोऽभूत्तदा मुनिः शंकरोऽथाब्रवीत्कालं मम भक्तं विमोचय १२
स्वतन्त्र एव मद्भक्तः स कथं नीयते त्वया यदुक्तं देवदेवेन तदतिक्रम्य सूर्यजः १३
पुनर्बबन्ध नृपतिं स्वपुरीगमनोद्यतः अथ देवो महादेवो विश्वेश्वर उमापतिः १४
अकरोद्भस्मसात्कालं श्वेतः पाशैर्विमोचितः दत्तं भगवता तस्मै गाणपत्यं च शाश्वतम् १५
देव्या सह महादेवः क्षणादन्तर्हितोऽभवत् अनेन हेतुना शंभुः कालकाल इति स्मृतः १६
अहं च विष्णुना सार्धं स्तुत्वा देवं महेश्वरम् प्रसाद्याथ पुनर्जातः कालः शंभोरनुग्रहात् १७
अन्यतीर्थं पुण्यतमं ज्वालेश्वरमिति स्मृतम् रेवातीरे मुनिश्रेष्ठ महापातकनाशनम् १८
कोटिशः सन्ति तीर्थानि तस्मिञ्ज्वालेश्वरे शिवे तत्र स्नात्वा देवऋषे दृष्ट्वा ज्वालेश्वरं शिवम् १९
कुलैकविंशमुद्धृत्य शिवलोके महीयते अन्यं श्रीपर्वत श्रेष्ठं सिद्धानामालयं शुभम् २०
तत्र सिद्धाश्च मुनयो दृश्यन्ते सर्वतो गिरौ सदा संनिहितः शंभुर्लिङ्गे श्रीमल्लिकार्जुने २१
दृष्टे तस्मिन्परे लिङ्गे जीवन्मुक्तो नरो भवेत् मनुष्याः पशवः कोटिमृगाश्वमशकादयः २२
श्रीपर्वते मृताः सर्वे यान्ति शंभोः परं पदम् केदारे परमं तीर्थं प्रियं देवस्य शूलिनः २३
तत्र स्नात्वोदकं पीत्वा संपूज्य च पिनाकिनम् गाणपत्यमवाप्नोति देवानामपि दुर्लभम् २४
वृषध्वजे परं तीर्थं देविकायास्तटे मुने यत्र स्नात्वा शिवं दृष्ट्वा ब्रह्महत्यां व्यपोहति २५
गोदावरी नदी यत्र निर्गता पापहारिणी तत्र देवाधिदेवेशस्त्रियम्बक इति स्मृतः २६
तत्र स्नानं जपो दानं ब्रह्मयज्ञमखः कृतः सर्वं तदक्षयं प्रोक्तं नूनं ब्रह्मगिरौ मुने २७
तत्र स्नात्वा शिवं दृष्ट्वा देवदेवं त्रियम्बकम् स्कन्दनन्दिसमो भूत्वा क्रीडते शिवसंनिधौ २८
रेवाया नातिदूरे तु गोकर्ण इति विश्रुतः अनुग्रहार्थं लोकानां तत्र संनिहितः शिवः २९
नियतोऽनियतो वाऽपि यो वा को वाऽपि मानवः यस्तु पश्यति गोकर्णं रुद्रस्यानुचरो भवेत् ३०
देवस्य वायुदिग्भागे देवेशी भद्रकालिका योगसिद्धिप्रदा नित्यं दर्शनात्प्राणिनां मुने ३१
महाबलश्च भगवान्यत्राऽऽस्ते गिरिजापतिः तस्य दर्शनमात्रेण गोसहस्रफलं लभेत् ३२
अन्यद्दक्षिणगोकर्णं सिन्धुतीर्थे महेश्वरः तस्य दर्शनमात्रेण राजसूयफलं लभेत् ३३
अन्यद्दारुवनं पुण्यं शंकरस्यातिवल्लभम् गिरिजापतिना यत्र मोहिता मुनिपत्नयः ३४
नारद उवाच –
कथं भगवता तात मोहिता मुनिपत्नयः आचक्ष्व तत्समासेन कौतुकं हृदि वर्तते ३५
ब्रह्मोवाच – शृणु नारद वक्ष्यामि भवस्य चरितं शुभम् श्रवणादेव मनुजः शिवस्य दयितो भवेत् ३६
भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः जमदग्निर्भरद्वाजो गौतमो भागुरिस्तथा ३७
वामदेवोऽङ्गिराः शङ्खो लिखितश्च बृहच्छ्रवाः विश्वामित्रोऽथ जाबालिरन्ये च मुनयस्तथा ३८
यज्ञैर्यजन्ति देवेशं तपन्ति च तपस्तथा अज्ञात्वैव परं भावं देवदेवस्य शूलिनः ३९
तेषां मूर्धोत्थितो धूमस्तपसा क्लेशितात्मनाम् तेन धूमेन महता व्याप्तौ ब्रह्माण्डमण्डपः ४०
शंभोरुत्सङ्गगा देवी धूमव्याप्तं जगन्त्रयम् दृष्ट्वा पप्रच्छ विश्वेशं कौतुकादीश्वरेश्वरी ४१
देव्युवाच – आश्चर्यमिव मे भाति धूमव्याप्तमिदं जगत् धूमस्य कारणं ब्रूहि देवदेव महेश्वर ४२
ईश्वर उवाच –
यत्र दारुवनं पुण्यं मम चातीव वल्लभम् तत्र तिष्ठन्ति मुनयस्तपोनिष्ठा जितेन्द्रियाः ४३
अविदित्वैव मां देवि शरीरक्नेशकारिणि तेषां मूर्ध्नि स्थितो धूमो व्याप्नोति सचराचरम् ४४
कर्माणि यानि लोकेषु पुष्कलानि बहूनि च सर्वाणि निष्फलान्येव मामज्ञात्वैव पार्वति ४५
एवं देवस्य मचनं श्रुत्वा शर्वमथाब्रवीत् ४६
देव्युवाच – देवदेव महादेव मुनीनां भावितात्मनाम् अज्ञानस्य यथा व्याप्तिस्तामहं द्रष्टुमुत्सहे ४७
एवं देव्या वचः श्रुत्वा भगवान्नीललोहितः विटवेषमथाऽऽस्थाय ययौ दारुवनं प्रति ४८
स्त्रीरूपधारी विष्णुश्च शंकरेण समागतः विष्णुना सह विश्वेशो देवदारुवनौकसः ४९
मोहयन्मायया शंभुर्विचचार वने तदा मुनिस्त्रियः शिवं दृष्ट्वा मदनानलदीपिताः ५०
त्यक्तलज्जा विवस्राश्च ययुस्ता अनुं शंकरम् स्त्रीरूपधारिणं विष्णुं सर्वे मुनिकुमारकाः ५१
अम्बगच्छन्त देवर्षे कामबाणप्रपीडिताः तदद्भुतं तदा ज्ञात्वा कुपिता मुनयस्तदा ५२
लिङ्गहीनं हरं कृत्वा गोपवेषधरं हरिम् तदा प्रभृति विप्रेन्द्र शिवा मेखलसंज्ञिता ५३
उभयोश्चैव संयोगः सर्वपापहरः शिवः इति श्रुत्वा तु देवर्षिर्ब्रह्मणो वचनं तदा ५४
जगाम कर्तुं तीर्थानि शिवभक्तिपुरस्कृतः एतत्सौरं पुराणं ते यथावत्समुदीरितम् ५५
यच्छ्रुत्वा मनुजः सम्यग्गोसहस्रफलं लभेत् किं तीर्थैस्तु प्रयागाद्यैः किं यज्ञैर्मूरिदक्षिणैः ५६
यदि श्रुतं श्रद्दधानैः पुराणमिदमुत्तमम् यत्र देवाधिदेवस्य माहात्म्यं कथ्यते विभोः ५७
गिरीशस्य तु योगीन्द्राः किं तेन सदृशं भवेत् श्रद्दधानः शिवे भक्तो नियतः शृणुयादिदम् ५८
ब्राह्मणाञ्शिवभक्तांश्च पुरस्कृत्य समाहितः समाप्य सकलं वेदं पूजयेद्वाचकं नरः ५९
कनकेन सुशुद्धेन तथा चन्दनखण्ढकैः विश्वेश्वरो महादेवः प्रीयतामिति भावतः ६०
दद्यात्स्वर्णं यथाशक्ति वाचकाय सचन्दनम् यद्येकशी शरमात्राऽपि दत्ता भूमिः शिवार्थिना ६१
सा तारयति दातुर्हि पूर्वजान्सकलानपि श्रुत्वा ग्रन्थमिमं सम्यग्दद्याद्दानानि शक्तितः ६२
तान्यक्षयफलान्याहुर्मुनयो वेदवादिनः ६३
३८९९
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवतीर्थकथनं मुनिपत्नीमोहनं नामैकोनसप्ततितमोऽध्यायः ६९
समाप्तमिदं सौरपुराणम्