प्रायः प्रान्तमुपोष्यं स्यात्तीर्थे देवफलेप्सुभिः मूलं हि पितृतुष्ट्यर्थं पित्र्यं चोक्तं महर्षिभिः १
यां प्राप्यास्तमुपैत्यर्कः सा चेत्स्यात्त्रिमुहूर्तिका धर्मकृत्येषु सर्वेषु संपूर्णां तां विदुस्तिथिम् २
अष्ठम्येकादशी षष्ठी तृतीया च चतुर्दशी कर्तव्या परसंयुक्ता अपरा पूर्वमिश्रिता ३
बृहत्तपा तथा रम्भा सावित्री वटपैतृकी कृष्णाष्टमी च सभूता कर्तव्या संमुखी तिथिः ४
लिङ्गे स्वायंभुवे बाणे रत्ने च रसनिर्मिते सिद्धप्रतिष्ठिते लिङ्गे न चण्डस्याधिकारतः ५
बाणलिङ्गं स्वयं भूमिश्चन्द्रकान्तिस्तथैव च चान्द्रायणसमं पुण्यं शंभोर्नैवेद्यभक्षणात् ६
वृषं चण्डं वृषं चैव सोमसूत्रं पुनर्वृषम् चण्डं च सोमसूत्रं च पुनश्चण्डं पुनर्वृषम् ७
आरं च आरनालं च कांस्यपात्रं मसूरिका चणकास्तिलतैलं च मन्त्रवीर्यहराणि षट् ८
वामपार्श्वे विनिक्षिप्य गृहीत्वा वामपाणिना धृत्वा च दक्षिणे पाणौ तैले दद्याज्रलाञ्जलिम् ९
गुशब्दस्त्वन्धकारश्च रुशब्दस्तु निरोधकः अन्धकारनिरोधत्वाद्गुरुशब्दो निगद्यते १०
गुरुत्यागी लभेन्मृत्युं मन्वत्यागी दरिद्रताम् गुरुमन्त्रपरित्यागात्सिद्धोऽपि नरकं व्रजेत् ११
एकमर्ध्यं प्रदातव्यं मध्याह्ने भास्करं प्रति उभयोः संध्ययोरापस्त्रिः क्षिपेदसुरक्षयात् १२
भ्रातृद्वयं न कुर्वीत न कर्तव्यं पितासुतम् अनग्निकं न कर्तव्यं न कुर्याद्गर्भिणीपतिम् १३
निरग्निकः स्मृतस्तावद्यावद्भार्यां न विन्दति साग्निको भार्यया युक्त इत्येवं मनुरब्रवीत् १४
प्रणाममेकहस्तेन एकं वाऽपि प्रदक्षिणम् कालसेवा तथाऽकाले अब्दपुण्यं विनश्यति १५
सभायां यज्ञशालायां देवतायतने गुरा प्रत्येकं च नमस्कारो हन्ति पुण्यं पुराकृतम् १६
गोक्षीरं गोघृतं चैव मुद्गधान्यं तिला यवाः एते चैवाक्षारगणा अन्ये क्षारगणाः स्मृताः १७
मक्षिका मशका वेश्या याचकाश्चैव मूषकाः गणका ग्रामणीश्चैव सप्तैते परभक्षकाः १८
३८३६
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे तिथिनिर्णयादिकथनं नामाष्टषष्टितमोऽध्यायः ६८