ब्रह्मोवाच – उज्जयिन्यां महाकालं ये वै पश्यन्ति मानवाः अवाप्नुयुः परं लोकं यत्र गत्वा न शोचति १
महाकालस्य लिङ्गस्य दिव्यलिङ्गं तदुच्यते स्पर्शनात्तस्य लिङ्गस्य सशरीराः शिवं ययुः २
तज्ज्ञात्वा च मया तत्र पाषाणः कुक्कुटाकृतिः निक्षिप्तश्च महाकाले ततोऽभूत्कुक्कुटेश्वरः ३
तच्चैव नगरे रम्ये शूलेश्वर इति स्मृतः तस्य दर्शनमात्रेण हयमेधफलं लभेत् ४
शूलेश्वरस्य पूर्वे तु ॐकारं लिङ्गमुत्तमम् तत्र कुण्डं महादिव्यं पूरितं पुण्यवारिणा ५
स्नानं समाचरंस्तत्र प्रयतात्मा समाहितः द्वितीयेऽह्नि तृतीयेऽह्नि दशमे वाऽपि नारद ६
पक्षे मासेऽथ षण्मासे स्वप्ने पश्यति शंकरम् दिव्यं ज्ञानमवाप्नोति देवानामपि दुर्लभम् ७
यः पश्येल्लिङ्गमॐकारं स्नात्वा कुण्डे समाहितः दीक्षासहस्रस्य फलं प्राप्य याति परां गतिम् ८
तत्रैवागस्त्यमुनिना तपसाऽऽराधितः शिवः प्रादुर्भूतश्च भगवानगस्त्येश्वरनामतः ९
प्रसिद्धो दर्शनात्तस्य ब्रह्महत्यां व्यपोहति तत्रैव शक्तिभेदाख्यं तीर्थं मुनिनिषेवितम् १०
तत्र स्नात्वा भद्रवटं यस्तु पश्यति मानवः सर्वपापविनिर्मुक्तः स्कन्दलोके महीयते ११
तीर्थानि कोटिशः सन्ति उज्जयिन्यां समन्ततः तेषां माहात्म्यमखिलं स्कन्दे स्कन्देन भाषितम् १२
कुरुक्षेत्रे तु देवर्षे स्थाणुर्नाम महेश्वरः तपस्तप्त्वा मया तत्र प्राप्तं ब्रह्मत्वमुत्तमम् १३
वालखिल्यादयस्तत्र सिद्धिं प्राप्ताः परां द्विजाः तत्राऽऽसीत्पुलहः पूर्वं मशकः स्थाणुमन्दिरे १४
मृतस्तु विविधान्भोगान्भुक्त्वा दिव्यमनोरथान् तदन्ते मत्सुतो जातः स्थाणुमूढर्तिप्रभावतः १५
सर्वदेवमयो यत्र स्थाणुर्नाम महेश्वरः इष्टः सकृच्च मनुजः शैवं पदमवाप्नुयात् १६
तीर्थराज इति ख्यातः प्रयागो मुनिसत्तमाः गङ्गायमुनयोस्तत्र संगमो लोकविश्रुतः १७
तत्र स्नात्वा दिवं गत्वा भोगान्भुक्त्वा यथेप्सया आस्ते महेश्वरो यत्र सर्वानुग्राहकः परः १८
दर्शनादक्षयाल्ँलोकान्प्राप्नोति मनुजोत्तमः अन्यत्तीर्थं परं गुह्यं गयातीर्थमिति स्मृतम् १९
यत्र शंभोर्भगवतश्चरणौ सुप्रतिष्ठितौ पितॄणामक्षया तृप्तिस्तत्र पिण्डप्रदानतः २०
महानद्यां नरः स्नात्वा रुद्रपादं स्पृशेद्यदि शिवलोकमवाप्नोति पितृभिः सह मोदते २१
महाकालं महातीर्थं कालकालस्य वल्लभम् तत्रापि देवदेवेन विन्यस्तश्चरणो भुवि २२
तत्र स्नात्वा तु मेधावी चरणं पार्वतीपतेः यः पश्यति नरो भक्त्या शैवं पदमवाप्नुयात् २३
३८१८
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे महाकालमहात्म्यकथनं नाम सप्तषष्टितमोऽध्यायः ६७