ब्रह्मोवाच – पञ्चाक्षरेण मन्त्रेण पत्रं पुष्पमथापि वा यः प्रयच्छति शर्वाय तदनन्तफलं सकृत् १
सप्तकोटिमहामन्त्राः शिववक्त्राद्विनिर्गताः पञ्चाक्षरस्य मन्त्रस्य कलां नार्हन्ति षोडशीम् २
दीक्षितोऽदीक्षितो वाऽपि विधानादन्यथाऽपि वा पञ्चाक्षरं जपेद्यस्तु शिवस्यानुचरो भवेत् ३
अपि कृत्वा भ्रूणहत्यां पापानि सुबहून्यपि पञ्चाक्षरजपात्सद्यो मुच्यते नात्र संशयः ४
न हि पञ्चाक्षरजपाच्छ्रेयोऽस्ति भुवनत्रये एवं ज्ञात्वा जपेद्विद्वान्विद्यां पञ्चाक्षरीं शुभाम् ५
पञ्चाक्षरेण मन्त्रेण बिल्वपत्रैः शिवार्चनम् करोति श्रद्धया यस्तु स गच्छेदैश्वरं पदम् ६
दर्शनाद्बिल्ववृक्षस्य स्पर्शनाद्वन्दनादपि अहोरात्रकृतं पापं नश्यते ऋषिसत्तम ७
अन्तकाले नरो यस्तु बिल्वमूलस्य मृत्तिकाम् आलिम्पेत्सर्वगात्राणि मृतो याति परां गतिम् ८
बिल्ववृक्षं समाश्रित्य द्वादशाहमभोजनम् यः कर्याद्भ्रूणहा पापान्मृक्तो भवति नारद ९
बिल्ववृक्षं समाश्रित्य त्रिरात्रोपोषितः शुचिः हरनाम जपल्लँक्षां भ्रूणहत्यां व्यपोहति १०
मातृहा पितृहा वाऽपि युक्तो वा सर्वपातकैः माघे कृष्णचतुर्दश्यां पूजयेदिन्दुशेखरम् ११
भक्त्या बिल्वदलैर्मौनी हरनाम जपन्निशि सर्वपापविनिर्मुक्तो याति शैवं परं पदम् १२
शुष्कैः पर्युपितैः पत्रैरपि बिल्वस्य नारद पूजयेद्गिरिजानार्थं मुच्यते सर्वपातकैः १३
अर्ध्यं पुष्पफलोपेतं यः शिवाय निवेदयेत् युगानामयुतं साग्रं शिवलोके वसेन्नरः १४
आपः क्षीरं कुशाग्राणि सघृतं दधि तण्डुलाः तिलैश्च सर्पपैः सार्धमध्योऽष्टाङ्ग इति स्मृतः १५
पलकोटिं सुवर्णस्य गो दद्याद्वेदपारगे शिवाय रक्तिकामात्रं प्रदत्त्वा वाऽधिकं भवेत् १६
तस्मात्पत्रैः फलैः पुष्पैस्तौयैरपि यजेच्छिवम् तदनन्तफलं प्रोक्तं भक्तिरेवात्र कारणम् १७
लिङ्गस्य लेपनं कुर्याद्दिव्यैर्गन्धैर्मनोरमैः वर्षकोटिशतं दिव्यं शिवलोके महीयते १८
सुगन्धालेपनात्पुण्यं द्विगुणं चन्दनस्य तु चन्दनाच्चागरोर्ज्ञेयं पुण्यमष्टगुणाधिकम् १९
कृष्णागरोर्विशेषेण द्विगुणं फलमिष्यते तस्माच्छतगुणं पुण्यं कुङ्कुमस्य विधीयते २०
चन्दनागरुकर्पूरैर्नाभिरोचनकुङ्कुमैः लिङ्गमेतैः समालिप्य गाणपत्यमवाप्नुयात् २१
संवीज्य तालवृन्तेन लिङ्गं गन्धैः सुलेपितम् दशवर्षसहस्राणि शिवलोके महीयते २२
मयुरब्यजनं दद्याच्छिवायातीव शोभनम् वर्षकोटिशतं दिव्यं शिवलोके महीयते २३
चामरं यः शिवे दद्यान्मणिरत्नविभूषितम् हेमरूप्यादिदण्डं वा तस्य पुण्यफलं शृणु २४
चामरासक्तहस्ताभिर्दिव्यस्त्रीपरिवारितः विमानं वरगारुह्य गणैर्याति शिवं पदम् २५
अरण्यसंभवैः पुष्पैः पत्रैर्वा गिरिसंभवैः अपर्युषितनिश्छिद्रैररक्तैर्जन्तुवर्जितैः २६
आत्मारामोद्भवैर्वाऽपि पुष्पैः संपूजयेच्छिवम् पुष्पजातिविशेषेण भवेत्पुण्यमथोत्तरम् २७
तपःशीलगुणाढ्याय वेदवेदाङ्गगामिने दश दत्त्वा सुवर्णस्य फलं हि तदवाप्नुयात् २८
अर्कपुष्पैः कृता पूजा यदि देवाय शंभवे अर्कपुष्पसहस्रेभ्यः करवीरं प्रशस्यते २९
करवीरसहस्रेभ्यो बिल्वपत्रं विशिष्यते बिल्वपत्रसहस्रेभ्यः शमीपत्रं विशिष्यते ३०
अर्कपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते शमीपुष्पसहस्रेभ्यः कुशपुष्पं विशिष्यते ३१
कुशपुष्पसहस्रेभ्यः पद्मपुष्पं विशिष्यते पद्मपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते ३२
बकपुष्पसहस्रेभ्य एकं धत्तूरकं तथा धत्तूरकसहस्रेभ्यो बृहत्पुष्पं विशिष्यते ३३
बृहत्पुष्पसहस्रेभ्यो द्रोणपुष्पं विशिष्यते द्रोणपुष्पसहस्रेभ्यः अपामार्गं विशिष्यते ३४
अपामार्गसहस्रेभ्यः श्रीमन्नीलोत्पलं वरम् नीलोत्पलसहस्रेण यो मालां संप्रयच्छति ३५
शिवाय विधिवद्भक्त्या तस्य पुण्यफलं शृणु कल्पकोटिसहस्राणि कल्पकोटिशतानि च ३६
वसेच्छिवपुरे श्रीगाञ्शिवतुल्यपराक्रमः करवीरसमा ज्ञेया जाती विजयपाटला ३७
श्वेतमन्दारकुसुमं सितपद्मं च तत्समम् नागचम्बकपुंनागा धत्तूरकसमाः स्मृताः ३८
बन्धूकं केतकीपुष्पं कुन्दयूथीमदन्तिकाः शिरीषं चार्जुनं पुष्पं प्रयत्नेन विवर्जयेत् ३९
कनकानि कदम्बानि रात्रौ देयानि शंकरे दिवा शेषाणि पुष्पाणि दिवा रात्रौ च मल्लिकाः ४०
प्रहरं तिष्ठते जाती करवीरमहर्निशम् केशकीटापविद्धानि शीर्णपर्युषितानि च ४१
स्वयं पतितपुष्पाणि त्यजेदुपहतानि च मुकुलैर्नार्चयेदीशं यस्य कस्यापि नारद ४२
कलिकैर्नार्चयेद्देवं चम्पकैर्जलजैर्विना न पर्युषितदोषोऽस्ति जलजोत्पलचम्पकैः ४३
पुष्पाणामप्यलाभे तु पत्राण्यपि निवेदयेत् फलानामप्यलाभे तु तृणगुल्मौषधैरपि ४४
औषधानामभावे तु भक्त्या भवति पूजितः बिल्वपत्रैरखण्डेस्तु सकृत्पूजयते शिवम् ४५
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते धत्तूरकैस्तु यो लिङ्गं सकृत्पूजयते नरः ४६
गोलक्षस्य फलं प्राप्य शिवलोके महीयते बृहतीकुसुमैर्भक्त्या यो लिङ्गं सकृदर्चयेत् ४७
गवामयुतदानस्य फलं प्राप्य शिवं ब्रजेत् मल्लिकोत्पलपुष्पाणि नागपुंनागचम्पकैः ४८
अशोकश्वेतमन्दारकर्णिकारवकानि च करवीरार्कमन्दारशमीतगरकेसरम् ४९
कुशापामार्गकुमुदकदम्बकुरवैरपि पुष्पैरेतैर्यथालाभं यो नरः पूजयेच्छिवम् ५०
स यत्फलमवाप्नोति तदेकाग्रमनाः शृणु सूर्यकोटिप्रतीकाशैर्विमानैः सार्वकामिकै ५१
पुष्पमालापरिक्षिप्तैर्गीतवादित्रनिःस्वनैः
तन्त्रीमधुरनादैश्च स्वच्छन्दगमनैस्तथा ५२
रुद्रकन्यासमाकीर्णैः समन्तादुपशोभितैः दोधूयमानश्चमरैः शिवलोके महीयते ५३
अनेकाकारविन्यासैः कुमुदैश्च शिवं गृहम् यः कुर्यात्पर्वकालेषु विचित्रकुसुमोज्वलम् ५४
स पुष्पकविमानेन सहस्रपरिवारितः दिव्यस्त्रीसुखसौभाग्यक्रीडारतिसमन्वितः ५५
अक्षयाल्ँलभते लोकानतिरस्कृतशासनः शिवादिसर्वलोकेषु यत्रेष्टं तत्र याति सः ५६
पूजादिभक्तिविन्यासैरर्चनादिषु सर्वतः फलमेकं समं ज्ञेयं फलं वित्तानुसारतः ५७
स्वयमुत्पाद्य पुष्पाणि यः स्वयं पूजयेच्छिवम् तानि साक्षात्प्रगृह्णाति देवदेवो महेश्वरः ५८
कृष्णागरोः सकर्पूरधूपं दद्याच्छिवाय वै नैरन्तर्येण मासार्धं तस्य पुण्यफलं शृणु ५९
कल्पकोटिसहस्राणि कल्पकोटिशतानि च भुक्त्वा शिवपुरे भोगांस्तदन्ते पृथिवीपतिः ६०
गुग्गुलं घृतसंयुक्तं साक्षाद्गृह्णाति शंकरः मासार्धं धूपदानेन शिवलोके महीयते ६१
कृष्णपक्षे चतुर्दश्यां यः साज्यं गुग्गुलं दहेत् स याति परमं स्थानं यत्र देवः पिनाकघृत् ६२
श्रीफलं चाऽऽज्यसंमिश्रं दत्त्वाऽऽप्नोति परां गतिम् एभिः सुगन्धितो धूपः षट्सहस्रगुणोत्तरः ६३
यस्त्वर्कसंपुटे कृत्वा गधु चार्घस्य मन्त्रतः निवेदयति शर्वाय सोऽश्वमेधफलं लभेत् ६४
शालितण्डुलप्रस्थेन कुर्यादन्नं सुसंस्कृतम् शिवाय तच्चरुं दत्वा चतुर्दश्यां विशेषतः ६५
यावन्तस्तण्डुलास्तस्मिन्नैवेद्ये परिसंख्यया तावद्वर्षसहस्राणि शिवलोके महीयते ६६
गुडखण्डघृतानां च भक्ष्याणां च निवेदनात् घृतेन पाचितानां तु दत्त्वा शतगुणं भवेत् ६७
घृतदीपप्रदानेन शिवाय शतयोजनम् विमानं लभते दिव्यं सूर्यकोटिसमप्रभम् ६८
यः कुर्यात्कार्तिके मासि शोभनां दीपमालिकाम् घृतेन च चतुर्दश्याममावास्यां विशेषतः ६९
सूर्यायुतप्रतीकाशस्तेजसा भासयन्दिशः तेजोराशिर्विमानस्थः सूर्यवद्द्योतते सदा ७०
शिरसा धारयेद्दीपं सर्वरात्र्यां विशेषतः ललाटे वाऽथ हस्तभ्यां शिरसा वाऽथ नारद ७१
सूर्यायुतप्रतीकाशैर्विमानैः सार्वकामिकैः कल्पायुतशतं दिव्यं शिवलोके महीयते ७२
शिवस्य पुरतो दत्त्वा दर्पणं च सुनिर्मलम् चन्द्रांशुनिर्मलः श्रीमान्सुभगः कामरूपधृत् ७३
कल्पायुतसहस्रं तु शिवलोके महीयते कृत्वा प्रदक्षिणं भक्त्या शिवस्याऽऽयतनं नरः ७४
अश्वमेधसहस्रस्य फलमाप्नोति नारद कूपारामप्रपाद्यैस्तु शिवायतनकर्मणि ७५
उपयुक्तानि भूतानि खननोत्पातनादिषु कामतोऽकामतो वाऽपि स्थावराणि चराणि च ७६
शिवं यान्ति न संदेहः प्रसादात्परमेष्ठिनः कोशमात्रं शिवक्षेत्रं समन्तात्परमेष्ठिनः ७७
देहिनां तत्र पञ्चत्वं शिवसायुज्यकारणम् मनुष्यस्थापिते लिङ्गे क्षेत्रमानमिदं स्मृतम् ७८
स्वायंभुवे योजनं स्यादार्षे चैव तदर्धकम् पापाचारोऽषि यस्तत्र पञ्चत्वं याति नारद ७९
सोऽपि याति शिवस्थानं यद्देवैरपि दुर्लभम् तस्मात्सर्वप्रयत्नेन तत्र स्नानादिकं चरेत् ८०
तस्मादावसथं कुर्याच्छिवक्षेत्रसमीपतः शिवलिङ्गसमीपस्थं यत्तोयं पुरतः स्थितम् ८१
शिवगङ्गेति संज्ञेयं तत्र स्नानादिना व्रजेत् यः कुर्याद्दीर्घिकां वाऽपि कूपं वाऽपि शिवाश्रमे त्रिःसप्तकुलसंयुक्तः शिवलोके महीयते ८२
३७२२
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे पञ्चाक्षरमन्त्रप्रभावादिकथनं नाम पञ्चषष्टितमोऽध्यायः ६५