ऋषय ऊचुः – वह्नौ संतर्पिते सूत रेतसा त्रिदिवौकसः सगर्भाः खलुः संजाता देवदेवेन शंभुना १
सौख्यं कथमवापुस्त उदरस्थेन रेतसा किमकुर्वंस्तदा सर्वे नारायणपुरोगमाः २
गर्भनिष्क्रमणं तेषामुत्पन्नेन च किं कृतम् एतत्सर्वं समासेन ब्रूहि नः सूत पृच्छताम् ३
सूत उवाच –
वह्नौ संतर्पितास्तेन रेतसा त्रिदिवौकसः रेतसा चोदरस्थेन संतप्तास्ते सुरादयः ४
दशपञ्चसहस्राणामतीतेषु द्विजोत्तमाः वर्षाणां च तथाऽष्टौ च गूढगर्भा दिवौकसः ५
दुःखिताः पार्वतीकान्तं शंकरं शरणं ययुः ऊचुः प्राञ्जलयः सर्वे सूर्यकोटिसमप्रभम् ६
देवा ऊचुः – भगवन्यदिदं दुःखं गर्भजं देहशोषणम् यथा नश्यति देवेश तदुपायं कुरु प्रभो ७
वह्निना पीतमात्रेण रेतसा तव शंकर वयं सगर्भाः संजाता गर्भकाले च तोयदाः ८
उपहास्यमिदं देव पुंसां यद्गर्भसंभवः सर्वे वै भृशमुद्विग्नास्तव तेजोवशाद्विभो ९
दह्यमाना महादेव नरके पापिनो यथा शरणं भव देवानां करालम्बं ददस्व नः १०
दुःखोदधौ प्रदुस्तारे प्रणतातिंविनाशन एवं श्रुत्वा तु वचनं देवानां पार्वतीपतिः ११
ईषद्विहस्य भगवानुवाचेदं सुरेश्वरः ईश्वर उवाच –
भवद्भिरीदृशं कार्यमिष्टं वै सुरपुंगवाः १२
नेष्टं देव्यो दरस्थं हि तस्माद्गर्भदशां गताः १३
इदानीं यत्प्रकर्तव्यं शृणुध्वं तत्सुरोत्तमाः वह्निं यूयं पुरस्कृत्य मेरुं व्रजत मन्दरात् १४
शरधानवने यूयं हृदोत्सङ्गे प्रसूयत निःसरिष्यत्यसंदेहं ततः सौख्यमवाप्स्यथ १५
ततः शंभोर्वचः श्रुत्वा नारायणपुरोगमाः अग्निमन्विष्य च ययुर्मेरुं गिरिवरोत्तमम् १६
तस्य चोत्तरदिग्भागे शरधानवने शुभे उपविश्य महात्मानो मध्ये संस्थाप्य वेधसम् १७
नारायणं पुरस्कृत्य प्रसूताः सर्वदेवताः गर्भशल्यविनिर्मुक्ता जातास्ते सुखिनो द्विजाः १८
शार्वेण तेजसा तेन रञ्जितो मेरुपर्वतः ततः काञ्चनतां प्राप्तः सशैलवनकाननः १९
शार्वं तेजो धृतं यस्माद्देवैर्वह्निपुरोगमैः तस्माज्जरादिभिर्मुक्ता अमराश्च सुरोत्तमाः २०
सिद्धाश्च मुनयश्चैव ये केचित्तत्र संस्थिताः तृणगुल्मलताश्चैव जलस्थलरुहाश्च ये २१
सर्वे काञ्चनसंकाशाः संजातास्तत्प्रभावतः पार्श्वे मेरोर्विनिर्भिद्य शंभोस्तेजो विनिर्गतम् २२
गङ्गायां निहितं यच्च तदेकस्थमभूद्द्विजाः अथ देवो महादेवस्तेजोराशिरुमापतिः २३
गोपयामास तत्तेजः पिङ्गलं प्रेक्ष्य शंकरः गोप्यमाने तु तस्मिंश्च मेरौ सूर्यायुतप्रभः २४
वर्षाणां च सहस्रेण कठिनं स्कन्दतां गतः स्कन्दः इत्युच्यते तेन तदाप्रभृति सुव्रताः २५
हराज्जातो यतस्तेन कुमार इति कथ्यते स्कन्दः कुमारः षड्वक्त्रस्तथा द्वादशलोचनः २६
भुजैर्द्वादशभिश्चैव शोभमानोऽभवत्तदा इशादेशात्पुनः स्नातुं कृत्तिकाः परमोज्ज्वलाः २७
ताभिः क्षीरं यतो दत्तं कार्तिकेय इति स्मृतः
गर्भपङ्कविलिप्ताङ्गो गङ्गायां स्नापितः प्रभुः २८
तप्तचामीकराभासः शरधानवते तदा नाम्नां सहस्रेण तदा कुमारो वेधसा स्तुतः २९
मुमोच नादमुत्थाय सर्वभूतभयंकरम् पातालं भेदयित्वा तु तच्छृङ्गं शतधा कृतम् ३०
सिंहादयोऽपि तत्रस्थास्तेन नादेन सूदिताः ततस्तं क्रीडमानं तु दृष्ट्वा देवं शिवात्मजम् ३१
पिङ्गलो देवदेवेशं ज्ञापयामास शंकरम् पश्य त्वं देवदेवेश क्रीडमानं कुमारकम् ३२
सूर्यायुतप्रतीकाशमात्मसूनुं षडाननम् ज्ञापितः पिङ्गलेनेशो वाक्यं देव्यै मुदावहम् वरो वरेण्यो वरदो विश्वाकार उवाच ह ३३
ईश्वर उवाच –
गच्छाव एहि देवेशि मेरौ यत्र सुतस्तव पश्यावस्तं वरारोहे कुमारं तु षडाननम् ३४
पुरा त्वयेष्टं कनकावभासं पश्याद्रिजे मानसराजहंसम् प्रधावमानं शतसूर्यकल्पं षडाननं कार्मुकपाणिमग्रे ३५
समागतौ स ज्वलनोऽथ दृष्ट्वा त्रिलोकनायौ जगतः प्रदीपौ उवाच वह्निर्वरदं कुमारं हराम्बिके द्वौ पितरौ तवेतौ ३६
त्वामागतौ द्रष्टुमनन्तवीर्यं व्रजाश्रयेति प्रमथाधिनाथौ ततोऽथ वह्नेर्वचनं निशभ्य ततः सुतत्वाद्गिरिजाङ्कगोऽभूत् ३७
तं सा पिवन्तं मुहुरङ्कसंस्थमतृप्यमानं कलहंसनादिनी उमाङ्संस्थो मदनारिसूनुः करेण तस्यास्तिलकालकौ तु ३८
ममर्द शंभोश्च भुजंगहारं जग्राह चन्द्रं स कपर्दसंस्थम् ३९
पञ्चम्यां स्थापितः सोऽथ षष्ठ्यां षष्ठीप्रियो गुहः चतुष्पादवतीं त्यक्त्वा त्रैलोक्यं हन्तुमुद्यतः ४०
अबोधयत्तदा बालो जन्तून्स्थावरजङ्गमान् क्वचिच्छृङ्गं गिरेः शौर्याय्यत्याशु समानताम् ४१
क्वचित्सिंहान्समाकृष्य पातयामास भूतले आरुह्यान्धहनत्पृष्ठे तानेव भ्रामयन्पुनः ४२
क्वचिन्नागौ गृहीत्वा तु कराभ्यां संमुखावुभौ आस्फोटयत्तदाऽन्योन्यं कुम्भाभ्यां स च लीलया ४३
समुत्पत्य समादाय खेचराणामुमासुतः चिक्षेप सहसा बालो विमानान्यवनीतले ४४
पुनरुत्पत्य वेगेन प्रेक्ष्यमाणः खमण्डले मार्गं रुधोध सूर्येन्द्वोर्ग्रहाणां च तथैव सः ४५
उत्पाट्य मेरुशृङ्गाणि इतश्चेतश्च सोऽक्षिपत् पर्वतांश्च विशेषेण नदीश्चोन्मार्गतोऽनयत् ४६
त्रासितं तु जगत्सर्वे दामोदरपदत्रये ततस्ते भृशमुद्विग्नाः शक्रं शत्रुप्रतापनम् ४७
ऊचुर्गत्वा द्विजश्रेष्ठा भूता वाक्यमिदं तदा अयमर्कायुतप्रख्यो वालो नो हन्ति वृत्रहन् ४८
तवैष राज्यहर्तावैभविष्यति न संशयः पराक्रमाद्बलाच्छक्र तथोत्साहाच्च तेजसः ४९
नूनं शतगुणेनायमधिकश्चेह दृश्यते यदि सूदयसे नाथ तत्त्वं सुखमवाप्रयसि ५०
करिष्यसि वचोऽस्माकं तव राज्यं भविष्यति उपेक्षा नैव कर्तव्या शिशुं मत्वा पुरंधर ५१
एतद्विचार्य यत्नेन ततो बालं निषूदय एवमुक्तस्ततस्तैस्तु भूतव्रातैः पुरंदरः उवाच वचनं श्लक्ष्णं तेषां धर्मपरायणम् ५२
इन्द्र उवाच –
कथमुक्तमिदं भूता बालस्य हननं प्रति धर्मघ्नं पापसंघातं कीर्तिघ्नं वै चराचरे ५३
श्रूयतामभिधास्यामि धर्मशास्त्रस्य निश्चितम् ऋषिभिश्च पुराऽऽख्यातं पुराणेषु चराचराः ५४
आतुरं भीरुमुद्विग्नमेकस्थं शरणागतम् स्त्रियमप्यथवा बालमन्धं पङ्गुं तपस्वितम् ५५
विलपन्तं तथोन्मत्तं काभासक्तं निरायुधम् ५६
पतितं प्रपलायन्तं विश्वस्तं ब्राह्मणं तथा नग्नं दीनं तथा वृद्धं नखरोममन्वितम् मुक्तकेशं तथा मत्तं सुप्तं च भुवनाकैसः ५७
सूदयिष्यन्ति ये नूनं मूढास्ते नरकार्णवात् अनुत्थाना भविष्यन्ति गर्तस्थः कुञ्जरो यथा ५८
तस्माद्व्रजध्वं शरणं यत्र शंभुसुतो गुहः नाहं बालवधं कर्तुमुत्सहे सचराचरे ५९
एवमुक्ते तु शक्रेण भूतास्ते भृशदुःखिताः क्रोधसंदीपनं वाक्यं पुनरूचुश्चराचराः ६०
भूता ऊचुः – गर्भो दितेर्यथा शक्र संरम्भात्सूदितस्त्वया तदा नीतिर्गता कुत्र दारुणे गर्भपातने ६१
अशक्यमिति मत्वैव नीतिमानसि मानद अशक्यकर्मणि विभो नीतिमान्पुरुषो भवेत् ६२
कश्च नाम नरः शूरो यो बालं योधयेद्रणे अपि शक्रशतैस्तस्य वज्रकोटिनिपातनैः ६३
अप्येकमपि रोमाग्रं पातितुं नैव शक्यते एवमुक्तस्ततस्तैस्तु भूतव्रातैः पुरंदरः ६४
आज्यधाराभिषिक्तोऽग्निर्यथैव प्रज्वलंस्तथा उवाचेदं वचस्तान्स क्रोधवह्निप्रदीपितः ६५
वज्रमुद्यम्य हस्तेन वृत्रहा कुलिशायुधः ६६
इन्द्र उवाच –
पुरा मया यथा गर्भो घातितश्च चराचराः दितेः कायं समाविश्य तथेदानीं निहन्यते ६७
अथ गत्वा हनिष्यामि पतङ्गमिव वह्निना वज्रं हस्ते समादाय आहवे प्रसहेत कः ६८
एवमुक्त्वा ततः शक्रः क्रोधानलसमीरितः आज्ञापयत्तदा विप्राः साध्यान्देवान्दिवाकरान् ६९
शरधानं गमिष्यामि वधार्थं बालकस्य च हंसकुन्देन्दुवर्णाभं चतुर्दन्तं महागजम् ७०
आनयध्वं ममाग्रे तु करीन्द्रं मम वल्लभम् जलधेरिव गम्भीरं दीर्घहस्तं घनस्वनम् ७१
दैत्यदानवरक्तेन क्लिन्नदंष्ट्रं भयावहम्
तदादेशात्सुरैस्तूर्णं सर्वायुधसमन्वितः ७२
निवेदितः स शक्राय तमारुह्य पुरंदरः विश्वैर्देवैश्च साध्यैश्च वसुभिश्च मरुद्गणैः ७३
आदित्यैरश्विनीभ्यां च ययौ स्कन्दवधाय सः वियमन्मण्डलगास्थाय स्तूयमानश्चराचरैः ७४
नृत्यमानाप्सरोभिश्च वाद्यमानैश्च किंनरैः गीयमानश्च गन्धर्वैः सनीतैर्गीतशालिभिः ७५
नदद्भिश्च महासिंहैर्गजद्भिश्च गजोत्तमैः हरिभिर्हेयमाणैश्च वायुवेगैर्महारथैः ७६
पताकाभिर्जयन्तीभिर्ध्वजैश्छत्रैश्च चामरैः एवमाद्यैरनेकैश्च नन्दीश्वर इवापरः ७७
दोधूयमानश्चमरैश्च दिव्यैर्जेगीयमानः सुरकिंनरीभिः पेपीयमानः सुरसुन्दरीभिः कामातुराभिर्नयनैरजस्रम् ७८
संपूज्यमानो मुनिसिद्धसंधैर्मुदाऽन्वितो वज्रधरः किरीटी कुमारमुद्दिश्य गतोऽथ वेगाद्धरिर्हरिर्वै मनुजान्यथेव ७९
३५६३
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे परमेश्वरसुरसंवादादिकथनं नाम द्विषष्टितमोऽध्यायः ६२