५९ साम्बविवाहवर्णनम्

सूत उवाच –

अथाऽऽयान्तं शिवं दृष्ट्वा हिमवान्पर्वतेश्वरः मेरुश्चैव यथासंख्यै रविचन्द्रदिवाकरैः १

तथा देवैः स वेधाद्यैर्वृतं छत्रेण संयुतम् जयेत्युक्त्वा नगेन्द्रस्तु ह्यात्तमाल्याम्बरस्तदा २

उत्थितः सहसा विप्राः पुष्पहस्तो महेश्वरः मुदा परमया युक्तो भक्त्या चानन्यया द्विजाः ३

वस्त्रैर्नानाविधैश्चक्रे मार्गभूषां तदा गिरिः पताकाभिर्जयन्तीभिः स्रग्दामैर्दिव्यगन्धिभिः ४

ध्वजैश्च विविधाकारैः पञ्चवर्णैर्मनोरमैः चामरैश्चन्द्ररम्यैस्तु लम्बकैश्च समन्ततः ५

मुक्तानां प्रकरैश्चैव पुष्पाणां तु तथैव च एवमाद्यैरनेकैश्च शोभां कृत्वा नगोत्तमः ६

स्थितस्तु वीक्षमाणोऽसौ विश्वव्यापिनमीश्वरम् संपूर्णचन्द्रवदना मदनानलदीपिताः ७

शतकोट्योऽप्सराणां तु निर्युयुः संमुखाश्च तम् हेमपात्रकरासक्ताः पद्मेन्दीवरहस्तकाः ८

मणिपात्राणि पूर्णानि दूर्वासिद्धार्थकाङ्क्षितैः दधिरोचनमादाय ब्रीहिभिश्चम्पकैर्यवैः ९

हरिचन्दनलिप्ताङ्गा हरिचन्दनहस्तकाः विद्रुमाङ्कुरहस्ताश्च तथैवोत्पलशेखराः १०

चूतमञ्जरिहस्ताश्च पारिजातकराः पराः स्वादूदकेन संपूर्णभृङ्गारकरपल्लवाः ११

हावभावविलासिन्यो मदनातुरविह्वलाः मदनारिं प्रणेमुस्ता गायगानास्त्रिलोचनम् १२

अथासौ भगवाञ्शूली चान्तर्यामी महेश्वरः त्रैलोक्यतिलके तस्मिन्क्षणादाविर्बभूव ह १३

ततो धनैर्बहुविधैः पूजयामास पर्वतः स्तुत्वा च पूजयित्वा च ननाम च पुनः पुनः १४

गीतैश्च विविधैर्वाक्यैः प्रविवेश हरस्तदा भवोऽभवत्तदा बालो द्व्यष्टवर्षाकृतिः स्वयम् १५

हेमाङ्गो भगवाञ्शंभुः किरीटी कुण्डली हरः सुरासुरांश्च विप्रेन्द्रा दृष्ट्वा रूपं पिनाकिनः १६

अवलोक्य मुखाऽभ्योन्यं जहसुस्ते मुदाऽन्विताः आसने हेमजे विप्रा नानारत्नैश्च भूषिते १७

विवेश भगवाञ्शूली महादेवो जगत्पतिः हरस्य दक्षिणे वेधा वामभागे जनार्दनः १८

शैलादिरग्रतः शंभोः कालरुद्रश्च सुव्रताः रुद्रैर्गणेश्वरैर्देवैः सिद्धैश्च मुनिभिस्तथा १९

उपविष्टेषु सर्वेषु गन्धर्वाद्याः समन्ततः जगुर्गीतं च हिन्दोलं तुम्बरुर्नारदादयः २०

मत्तमातङ्गगामिन्यो गेयं ताललयान्वितम् रम्भाद्यप्सरसः सर्वाः किंनर्यो ननृतुर्द्विजाः २१

वीणावल्लकिवेणूनां मृदङ्गानां विशेषतः ध्वनिभिर्मनसस्तुष्टिर्जज्ञे सुमनसां तदा २२

अथ विश्वेश्वरः शंभुर्भूषणं नभसि स्थितम् प्रायच्छद्गिरिजायै तदाह्लादजनकं मुदा २३

अनेनालंकृता देवि मम योग्या भविष्यसि पितुर्दक्षस्य यः कोपः पूर्वजस्य वरानने २४

प्रहास्यसि तमेवाऽऽशु भावं चैव तु तामसम् ततः सा पार्वती देवी गृहीत्वाऽऽकाशमण्डलात् २५

पितुः समीपमगमद्वस्त्राभरणमुत्तमम् महता ह्युत्सवेनाऽऽशु भूषयित्वा शिवां नगः २६

वस्त्रैराभरणैर्देवीं दिव्यैर्वै सिंहवाहिनीम् मेनोत्सङ्गगतां भूयश्चन्द्रलेखेव तोयदे २७

दधती निर्वृता देवी वभौ तामरसेक्षणा अथ देवैः परिवृतो विष्ण्वाद्यैस्त्रिपुरान्तकः २८

बभ्राम मुनिशार्दूलाः क्रीडास्थानानि कृत्स्नशः भगवन्देवदेवेश विश्वेशान्धकसूदन २९

प्रणम्य परया भक्त्या शैलादिरिदमब्रवीत् ३०

नन्दिकेश्वर उवाच्च – वेदीयमिन्द्रनीलाभा भाति विश्वंभरा शिव सेयं जलमयी नाथ निर्मिता विश्वकर्मणा ३१

या चेयं परमा रम्या तोयानां भ्रान्तिकारिणी सेयं भाति महादेव रत्नानामीदृशी प्रभा ३२

इदं च द्वारसंस्थानं दृश्यते लम्बकैर्वृतम् कुड्यस्य रत्नविन्यासे लक्ष्यते द्वाररूपता ३३

इदं चित्ररथाकारं दृश्यते वनमुत्तमम् प्रतिबिम्बं महादेव रत्नभूमेर्न संशयः ३४

इदं च मन्दिराकारं सोपानचयमण्डितम् प्रतिबिम्बमिदं चैव दृश्यते नवमण्डितम् ३५

या चेयं सागराकारा दृश्यते तोयरूपिणी एषाऽपि परमेशान रत्नभूमिर्जलोषिता ३६

यदिदं गगनाभासं मूर्तिद्रव्यैरिवोर्जितम् क्रीडामण्डपमेतस्मिन्प्रदेशे देव तिष्ठति ३७

अन्वराभैर्महारत्नैर्वाह्यदेशे विनिर्मितम् अनेकवाद्यसंयुक्तं रमणीयं ययौ हरः ३८

एवं क्रीडति देवेश सुरासुरमहोरगाः विद्याधरास्तथा यक्षा गन्धर्वाप्सरसादयः ३९

दीर्घिकासु तडागेषु नदीषु च हृदेषु च क्रीडावापीषु ते रम्यैर्यन्त्रैर्नानाविधैर्भृशम् ४०

बभूवृदेवताः सर्वाः क्रीडारतिषु लालसाः अथ संक्रीड्य विश्वात्मा निवृत्तस्तत्प्रदेशतः वेद्याः समीपमगमत्स्तूयमानो मुनीश्वरैः ४१

प्राप्याऽऽरुरोह प्रसभं सुरेशस्तदिन्द्रनीलामलवेदिकान्तम् सहस्रपत्रैर्बकुलैश्च नागैः कीर्णं हि यत्काञ्चनपारिजातैः ४२

ततः प्रविष्टो हरिणाङ्कचिह्नः सरश्मिजालाकुलवेदिकान्तम् विवेश सूर्यायुतसुप्रभासो वृतो विरञ्च्यादिसुरैः समन्तात् ४३

अधोपविष्टं संवीक्ष्य विश्वेशं पर्वतेश्वरः तस्य संस्थाप्य पुरतो देवेशीमब्रवीदिदम् ४४

हिमवानुवाच – त्वमेवैकः परं धाम अर्धनारीश्वरस्ततः देवतानां हितार्थाय जातो ह्यर्धतनुः पृथक् ४५

दक्षस्य दुहिता देवी जगद्धात्री ह्युमा सती विनिन्द्य च ततो दक्षं त्यक्त्वा देहं निजं पुनः ४६

तवैव पत्नी देवेश जाता मम सुता सती ततः श्रुत्वा गिरीन्द्रस्य वचस्त्रिभुवनेश्वरः प्रसन्नो वरदः शंभुरब्रवीत्पर्वतेश्वरम् ४७

ईश्वर ऊवाच – जानाम्यहं येन ममैव माया शक्तिर्वरैषा नगराजसिंह संत्यज्य देहं तव धाम्नि जाता योगात्स्वयं चारुशशाङ्कवक्त्रा ४८

आचारार्थं गिरिश्रेष्ठ दत्तां गृह्णामि पार्वतीम् अदत्तां यदि गृह्णामि तथा लोकेऽपि वर्तते ४९

अथ दिव्योदकैः पूर्णमादाय कलशं गिरिः परिपूर्णस्य नित्यानुग्रहकारिणः ५०

प्रक्षाल्य पादौ शिरसा प्रणम्य भृङ्गारमादाय स शैलराजः मुमोचं तोबं भवपाणिपद्मे दत्तेति दत्तेति तदा प्रजल्पन् ५१

ततो मङ्गलनिर्घोषः समभूत्त्रिदिवौकसाम् वीणावेणुमृदङ्गानां काहलानां च निःस्वनः ५२

सा हारकण्ठी कटिसूत्रदामा सुभ्रूलता चारुविलोलनेत्रा मेरोर्यथैवोपरि चन्द्रलेखा तथा बभौ पर्वतराजपुत्री ५३

अथ वेद्यां गतो ब्रह्मा विश्वमायां स्मरारणिम् ददर्शोदकपात्रेण विभावसुपुरस्थितः ५४

माहेश्वरीं काममयीं दृष्ट्वा तां तु पितामहः अक्षरत्सहसा शुक्रं भग्नकुम्भादिमोदकम् ५५

पादेन तन्ममर्दाऽऽशु शुक्रं तत्पद्मसंभवः पद्मजोऽपि महातेजा देवदेवस्य पश्यतः ५६

मैवं मर्देति तं दृष्ट्वा त्रिपुरारिः पितामहम् कुरुष्वेतीति होवाच भगवान्नीललोहितः ५७

अमोघं तत्तदा विप्राः शुक्रमग्नौ प्रजापतिः जुहोति वचनाच्छंभोर्वामेनाऽऽदाय पाणिना ५८

हवनाञ्च ततः प्राप्ताः सवितारं वियद्गतम् तेजोभयाश्च ते सर्वे तपोनिष्ठाः समन्ततः ५९

अष्टाशीतिः सहस्राणि मुनयस्तूर्ध्वरेतसः माने त्वङ्गुष्ठमात्रास्तु जाता ह्यथ सुवर्चसः ६०

बभूवुस्ते महात्मानः पतङ्गसहचारिणः निस्पृहा रश्मिपाः सर्वे सर्वे ज्वलनसंनिभाः ६१

ततो देवाः सगन्धर्वाः सिद्धाश्च मुनयस्तथा पिशाचा दानवा दैत्याः किंनराश्च महोरगाः ६२

विद्याधराश्चाप्सरसस्तथा चान्ये सुरासुराः प्रहृष्टाः सर्व एवैते पार्वत्या हरसंगमात् ६३

मुमोच वृष्टिं क्रतुराट्सुतुष्टः पुष्पैरनेकैर्भ्रमराकुलैश्च वाद्यैर्विचित्रैर्वरशङ्खनादैः सुगीतगानैर्वरमङ्गलैश्च ६४

वीणारवैर्दुन्दुभिवेणुनादैः समन्ततः कर्णसुखं प्रजज्ञे आनृत्यतीभिः सुरसुन्दरीभिर्जेगीयतीभिर्वरकिंनरीभिः ६५

दैत्याङ्गनाभिश्च वसीदतीभिः कामायतेऽतीव तदुत्सवं च काञ्चीरवेणाथ नितम्बिनीनां मनोभिरामेण च नूपुराणाम् ६६

तासां स्मितेताथ मुनीन्द्रवर्या बभूव कामानलदीपचर्या होमावसाने मधुपर्कयुक्तं देवाय तस्मै मधुभाजनं च ६७

ततो निवेद्य प्रमथाधिपाय चकार तुष्टिं परमां विरञ्चिः ६८

अथ देवेषु विश्वेशो वरदोऽभूद्द्विजोत्तमाः वरांश्च विविधान्दत्त्वा ब्रह्मादिभ्यो महेश्वरः ६९

व्यसर्जयत्ततः सर्वान्स्थावराञ्जङ्गमांस्तथा विसर्जिताः प्रणम्येशं प्रीतिं ते परमां गताः ७०

एवं संक्षेपतो विप्रा विवाहो गिरिजापतेः कथितो रविणा पूर्वं यथावत्समुदीरितः ७१

शृणोति श्रद्धया यस्तु पठेद्वा प्रयतात्मवान् सर्वान्कामानवाप्नोति वर्षादर्वाङ्न संशयः ७२

सर्वपापविनिर्मुक्तस्तेजस्वी प्रियदर्शनः जीवेद्वर्षशतं साग्रं गच्छेद्ब्रह्मपदं ततः ७३

३२७८

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे साम्बविवाहवर्णनंनामैकोनषष्टितमोऽध्यायः ५९