सूत उवाच –
अथासौ हिमवान्विप्रा देवीमात्मसुतामुमाम् प्रदानार्थं महेशाय संप्राप्तो मन्दरं क्षणात् १
आह दृष्ट्वा गिरिं नन्दी देवदेवं पिनाकिनम् वक्तुकामः समायातो भगवान्पर्वतेश्वरः २
श्रुत्वा तु वचनं श्लक्ष्णं व्यक्तं नन्दीमुखात्तदा मेधगम्भीरया वाचा महादेवोऽब्रवीदिदम् ३
वदत्वयं गिरिश्रेष्ठो हृदये यत्प्रतिष्ठितम् कामस्तस्य चिरादेव भविष्यति न संशयः ४
एवमुक्तस्तदा विप्रा देवदेवेन शंभुना उवाच गिरिशार्दूलो भूत्वाऽग्रेऽवनताञ्जलिः ५
हिमवानुवाच – याऽऽसीत्पूर्वं च ते पत्नी साऽवतीर्णा गृहे मम तामेव तव दानार्थमागतोऽस्मि महेश्वर ६
अमी ब्रह्मादयो देवास्त्वत्समीपमिहाऽऽगताः किं गोत्रमिति पृच्छामि ह्येषामग्रे विभो वद ७
श्रुत्वा तु भारतीं तस्य विश्वेशो विश्ववन्दितः किं गोत्रमिति संचिन्त्य नोत्तरं प्रससर्ज ह ८
दृष्ट्वा निरुत्तरं शंभुं जहसुर्देवदानवाः एष एव जगद्योनिर्गोत्रमस्य कथं भवेत् ९
इत्यूचुर्विबुधाः सर्वे हिमवन्तं नगोत्तमम् देवानां च वचः श्रुत्वा गिरिराजोऽब्रवीदिदम् १०
विश्वेश्वरं परं धाम परमात्मानमव्ययम् शाश्वतं गिरिशं स्थाणुं विश्वाकारं सनातनम् ११
दत्ता दत्ता पुनर्दत्ता उमा सत्येन ते प्रभो ततो महान्रवो विप्रा जयशब्दादिमङ्गलैः १२
दुन्दुभीनां च वाद्यानामभवत्सागरोपमः गृहीतेति शिवः प्राह पार्वती पर्वतेश्वरम् १३
तद्धरते भगवाञ्शंभुरङ्गुलीयं प्रवेशयत् इमं च कलशं हैममादाय त्वं नगोत्तम १४
याहि गत्वा त्वनेनैव तामुमां स्नापय त्वरा अन्येषां परिहारार्थमेष एव विधिः सदा १५
जगत्त्रयेऽपि नूनं स्याद्व्रज तूर्णं नराधिप ततस्तुष्टो महाशैलोऽभोजयत्सुसमाहितः १६
एवं यज्ञरतो विप्रास्तर्पणाय चराचरान् अभवद्देवमुद्दिश्य शंकरं स गिरिस्तदा १७
तथाऽस्मिन्नन्तरे देवो धर्मकेतुर्महेश्वरः उत्थितो मुनिशार्दूलाः समालोक्य च शार्ङ्गिणः १८
अभवज्जयशब्दानां तुमुलो हि महांस्तदा पुष्पवृष्टिनिपातश्च सत्यलोकाद्द्विजोत्तमाः १९
नानावनाधिपाश्चैव क्रतवश्च मुदान्विताः कुसुमैर्दिव्यगन्धाढ्यैर्ववृषुर्मेघवृन्दवत् २०
वीणावेणुमृतङ्गानां दुन्दुभीनां ततो रवः हरिर्विरञ्चिशक्राद्याः पूरयन्ति सुरास्तदा २१
विप्रास्त्रैलोक्यनादेन वेदघोषं प्रचक्रिरे गायत्री चैव सावित्री रुद्रकन्यास्तथैव च २२
विद्याधर्योऽथ नागिन्यो देवानां च तथाऽङ्गनाः सिद्धकन्या मनोहार्यां यक्षकन्यास्तथैव च २३
मातरः सप्त याश्चैव याश्च नक्षत्रमातरः गिरीणां च तथा नार्यः समुद्राश्च सरांसि च २४
मङ्गलं गायमानाश्च अर्घमष्टाङ्गसंयुतम् सुप्रहृष्टा ददुः सर्वा देवदेवस्य पादयोः २५
एतस्मिन्नन्तरे विप्रा हिमवत्संप्रणोदितः मैनाकस्तत्र संप्राप्तो हेमकुम्भकरः सधीः २६
सालङ्कायनपौत्रस्य गत्वा तस्याग्रतः स्थित तेनापि देवदेवस्य ज्ञापितो गिरिरव्रतः २७
अथासौ भगवान्देवो मङ्गलेशो जलाशयः स्नापयद्वेधसा युक्तः समुद्रैः शूलपाणिनम् २८
स्नाप्यमाने तदा देवे नद्यो वै सागरा द्विजाः बभूवुः सलिलैर्युक्ताः कृशाङ्गाः स्वेदसंयुताः २९
अथ ते त्रिदशाः सर्वे सनारायणका द्विजाः परं विस्मयमापन्ना भवं पश्यन्ति चाद्भुतम् ३०
ततो निलीयमानास्तु शरीरे शंकरस्य तु नद्यः सर्वाः समुद्राश्च प्रपश्यन्ति सुविस्मिताः ३१
योगमायाहतं वीक्ष्य तत्तोयं जगति स्थितम् अस्तुवन्पशुभर्तारं ब्रह्माद्या देवतागणाः ३२
ततस्तैस्तु स्तुतो देवः प्रहस्य भगवान्भवः विसृज्य ष तदा तोयमभवत्पूर्वरूपधृत् ३३
एवं साम्ये स्थिते तस्मिन्देवदेवे पिनाकिनि स्नापितोऽसौ विरञ्चाद्यैस्त्रिमूर्तिर्भगवान्भवः ३४
मैनाकोऽप्यञ्जलिं कृत्वा देवदेवस्य चाग्रतः संस्थितो हर्षसंयुक्तो निधिं लब्ध्वा यथाऽधनः ३५
विसर्जितस्ततस्तेन देवदेवेन शंभुना त्रैलोक्यतिलके तस्मिन्ययौ तूर्णं नगात्मजः ३६
तदंशुकं परिधाप्य देवीं तामरसेक्षणाम् स्नापयंस्तेन कुम्भेन हराङ्घ्रिपतितेन च ३७
नीरपातं द्विजश्रेष्ठाः कृतमेतत्कपर्दिना पार्वतेयविधिर्नूनं कुलजानां सदाऽनघः ३८
ततो भगवती देवी हृष्टपुष्टा तपोमयी पितुरभ्याशगा भूत्वा विवेश परमासने ३९
३२०५
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे साम्बविवाहवर्णनं नामाष्टपञ्चाशोऽध्यायः ५८