सूत उवाच –
मण्डपं निर्मितं श्रुत्वा शंकरो विश्वकर्मणा शैलादिमब्रवीद्देवो विश्वेशो विश्वपूजितः १
श्रीभगवानुवाच – हितार्थं सर्वदेवानामस्माकं च विशेषतः विवाहयज्ञ आरब्धो नगराजेन धीमता २
दानार्थमद्रिकन्यायाः प्रस्थितो हिमवान्स्वयम् अहं तत्र गमिष्यामि सुरैर्ब्रह्मादिभिः सह ३
त्वमिहाऽऽयाहय सुरान्कालाग्न्यादीन्द्विजांस्तथा द्वीपांश्च सागरांश्चैव पर्वतांश्च नदीस्तथा ४
मण्डपं सुन्दरं यत्र निर्मितं विश्वकर्मणा तत्र तिष्ठत्युमा देवी मम ध्यानपरायणा ५
विद्युल्लतेव भासन्ती चन्द्रकोटिनिभानना एवमुक्तो महेशेन नन्दी सूर्यायुतप्रभः ६
नत्वा विश्वेश्वरं देवं ध्यानारूढस्तदाऽभवत् ध्यातः क्षणात्समायातः कालाग्निर्विश्वदाहकः ७
रुद्रैः परिवृतो देवः कोटिकोटिगणेश्वरैः ततोऽब्रवीत्स कालाग्निः सर्वज्ञं नन्दिकेश्वरम् ८
किमर्थमहमाहूतो देवदेवेन शंभुना उपस्थितो वा प्रलयः संहरिष्यामि तत्क्षणात् ९
एवमुक्तस्तदा तेन शैलादिस्तमथाब्रवीत् प्रलयार्थं न चाऽऽहूतस्त्वं विश्वेशेन शंभुना १०
ग्रहीष्यति गिरेः पुत्री पत्नीत्वेन महेश्वरः तदर्थं त्वमिहाऽऽहूतो ब्रह्माद्याश्च दिवौकसः ११
नन्दिनो वचनं श्रुत्वा कालाग्निरिदमब्रवीत् द्रष्टुकामा वयं सर्वे ब्रह्माद्याः शूलपाणिनम् १२
शीघ्रं दर्शय शैलादे निर्वृताः स्मो यथा वयम् विज्ञापय महादेवं ब्रह्माद्याश्चाऽऽगता इति १३
सर्वे त्वद्ध्याननिरताः सर्वे त्वदर्शनोत्सुकः कालाग्निप्रमुखाणां च वचः श्रुत्वा गणाग्रणीः १४
नन्दिकेश्वर उवाच –
ब्रह्माद्याश्चाऽऽगताः सर्वे शूलपाणे तवाऽऽज्ञया द्रष्टुमिच्छन्ति ते सर्वे नमस्कर्तुं तथा मुदा १५
दिशाऽऽदेशं पुरारे मां किं वक्ष्यामि सुरासुरान् वारिता द्वारमूलेषु द्रष्टुकामाश्चा संस्थिताः १६
यत्ते निरुपयं रूपं तेजोमयमनिन्दितम् यदधोभागमाश्रित्य रुद्रः कालाग्निसंज्ञितः १७
पश्यन्तु चैते भूतेशं शूलं चैव सदोज्ज्वलम् ततो विवेश कालाग्निर्विष्णुर्ब्रह्मा शतक्रतुः १८
अन्ये च देवगन्धर्वा ऋषयो मनवस्तथा सर्वे कोलाहलं कृत्वा देवासुरमहोरगाः १९
विविशुर्हरसंस्थानं नद्याद्या इव सागरम् प्रविश्य भवने रम्ये नानाधातुविचित्रिते २०
गणकोटिसमाकीर्णे रुद्रकोटिसुसेविते अग्रजन्मगुरुः पूर्वं रुद्रैर्देवैर्वृतस्तदा २१
भवारिमन्धकारिं तमपश्यदन्तकानलः मुक्ताचलप्रतीकाशं जगदानन्दकारिणम् २२
नीलकण्ठं त्रिनेत्रं च शूलिनं सर्वतोमुखम् कोटिसूर्यप्रतीकाशं जगदानन्दकारिणम् २३
कपालमालिनं देवं कपर्दकृतभूषणम् दशबाहुं दशार्धास्यमनन्तं तेजसां निधिम् २४
जगदुत्पत्तिसंहारस्थित्यनुग्रहकारिणम् अप्रमेयमनाकारमप्रपञ्चमनाकुलम् २५
सिंहासनस्थमचलं चराचरविभूतिदम् क्षीरोदमिव निष्कम्यं त्रैलोक्यप्रभवं शिवम् २६
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् सर्वतःश्रुतिमल्लोके सर्वमावृत्य संस्थितम् २७
सुरासुरैर्वन्द्यमानं ध्यायमानं मुमुक्षुभिः इदं रूपं समालोक्य देवदेवस्य शूलिनः २८
अग्रे स्थितः स कालाग्निर्मेरौ मेरुरिवाषरः अथोवाच स शैलादिः प्रणिपत्य सनातनम् २९
नरकाणामधोभागे पुरत्रयं प्रतिष्ठितम् योजनायुतविस्तीर्णं कामदं शुभलक्षणम् ३०
यस्यैवोर्ध्वं निरालम्बं शतयोजनमानतः ज्वालामालाकुलं दिव्यं सर्वलोकभयंकरम् ३१
प्राकाराट्टालकैर्युक्तं गोपुरैस्तोरणान्वितम् रक्तनीलसमानाभैर्भीमघोषैर्दुरासदैः ३२
वृतो रुद्रसहस्रैस्तु सिंहरूपैर्महाबलैः नियम्य च स्वकं तेजः प्रीत्यर्थं तेऽधुनाऽऽगतः ३३
ध्वान्तचामीकराभासश्चन्दनागरुगन्धयुक् नीलकण्ठस्त्रिनेत्रश्च बृषकेतुर्महाबलः ३४
द्वीपिचर्मपरीधानः पञ्चवक्त्रेन्दुभूषणः अनन्तमेखलाधारी कुण्डलीकृतवक्षकः ३५
दशबाहुर्महातेजाः पीनवक्षा महाभुजः प्रलयोदनिधेर्घोषो रक्तनीलमहातनुः ३६
आगतः सौम्यरूपेण तव देव समीपतः पश्यतां मृदुभावेन देवदेव जगत्पते ३७
एते चैव महावीर्याः कालाग्नेस्तु समीपतः तिष्ठन्ति ज्वलनाभासा रुद्राश्च शतकोटयः ३८
त्वन्नियोगान्महादेव कालाग्न्यादेशकारिणः तिष्ठन्ति स्वपुरे रम्ये क्रीडमाना मनोस्मे ३९
तवानुज्ञागता ह्येते शशाङ्कमौलिनोऽमलाः शुद्धस्फटिकसंकाशाः पद्मरागसमप्रभाः ४०
तडिद्भ्रमरसंकाशाः वज्रशूलधनुर्धराः नीलकण्ठास्त्रिनेत्राश्च सुखदुःखविवर्जिताः ४१
सर्वाभरणसंपन्ना अनन्तबलविक्रमाः जरामरणनिर्मुक्ताः शार्दुलचर्मवाससः ४२
इमानपि महादेव पश्यन्प्रीतिकरो भव हरिचन्दनलिप्ताङ्गानशोककमलार्चितान् ४३
दैत्याधिपतयश्चैव प्रह्लादाद्या महाबलाः समागता महादेव नागाः शेषादयः शिव ४४
सर्वाः पातालवासिन्यो रूपयौवनगार्विताः आगता देवदेवेश द्वीपैश्च सह सागराः ४५
गन्धर्वाः किंनरा यक्षाः सिद्धविद्याधराः शिव उर्वश्याद्याश्चाप्सरसो नद्यः पापहराः शुभाः ४६
एते च मुनयो देव भृग्वाद्याः प्रथितौजसः संप्राप्तानि पुराणीह शक्रादीनां महात्मनाम् ४७
एते लोकाः समायाताः सत्यान्ताः सप्त शंकर मूर्तयस्तव द्रेवेश भवाद्याश्च समागताः ४८
आदित्या वसवो रुद्राः साध्याश्चैव मरुद्वणाः सनकाद्या महात्मानः सत्यलोकनिवासिनः ४९
पद्मरागनिभो देवो बन्धूककुसुमद्युतिः जटाभिस्तु शिरोनद्धो रत्नमालाविभूषितः ५०
कमण्डलुधरः श्रीमान्दण्डहस्तः सुलोचनः कृष्णाजिनोत्तरीयेण रक्तमाल्याम्बरेण च ५१
सुवर्णमेखलाधारी रौक्मकुण्डलमण्डली हंसध्वजश्चतुर्बाहुः सुरासुरनमस्कृतः ५२
सावित्र्या सहितो देवः पद्मयोनिरिहाऽऽगतः अतसीपुष्पसंकाशस्तमालदलवर्चसः ५३
पीताम्बरधरः श्यामः पीतगन्धानुलेपनः शार्ङ्गीवक्रगदाधारी शार्ङ्गी गरुडवाहनः ५४
किरीटी कुण्डली हारी कौस्तुभाभरणान्वितः केयूरबलयापीडः पीनवक्षा मदान्वितः ५५
चामीकरसुमालाभिर्दीप्यमानो विराजते सूर्यायुतप्रतीकाशो नीलोत्पलदलेक्षणः ५६
क्षीरोदार्णवशायी च नीलजीमूतनिःस्वन रमामर्दितसर्वाङ्गः शेषपर्यङ्कलालसः ५७
गुरुणां च गुरुर्देव ईश्वराणामपीश्वर वरदो भव वात्सल्यो दैत्यकोटिक्षयंकरः ५८
आगतोऽयं महादेव विष्णुः प्रियतरस्तव तप्तचामीकरप्रख्यो वज्रहस्तो महाबलः पट्टांशुकपरीधानो हेममालाविभूषितः ५९
प्रख्यातवीर्यो बलवृत्रहन्ता बालार्कभासो हरिचन्दनाङ्कः पुत्रागणैर्गवकुलैश्च जुष्टो मुक्ताफलालंकृतकण्ठदेशः ६०
अयं समागतः शक्रो वह्निर्वैवस्वतस्तथा निरृतिर्वरुणो वायुः कुबेरश्च समागतः ६१
ईशानश्च महाभागस्त्रिंशत्कोटिगणैर्वृतः आगतस्त्रिणगद्योने पिनाकी च गणेश्वरः ६२
दशकोटिगणैर्युक्तः कालकण्ठस्तथैव च सप्तकोटिगणैर्युक्तो घण्टाकर्णो महाबलः ६३
दशकोटिगणैर्युक्ते वसुघोषो महाबलः चतुष्कोटिगणैर्दण्डी शिखण्डी दशकोटिभिः ६४
षड्भिर्मयूरवदनः सिंहास्यो दशकोटिभिः सप्तकोटिगणैर्युक्तः किरीटी च समागतः ६५
कालान्तकस्तु दशाभिर्नकुली दशकोटिभिः षड्भिस्तु मुण्डमाली च त्रिशुली पञ्चकोटिभिः ६६
अष्टाभिर्विश्वमाली च त्रिमूर्तिर्नवकोटिभिः एते गणेश्वराः सर्वे तथा चान्ये गणेश्वराः ६७
येषां संख्या न जानन्ति ब्रह्माद्या देवतागणाः आगतानां महादेव शृणु कोलाहलं विभो ६८
अमरेशः प्रभासश्च पुष्करो नैमिषस्तथा आषाढी दण्डी मुण्डी च भारभूतिस्तथा कुली ६९
तीर्थाधिपतयो देवा आगता दिव्यमूर्तयः एते गुह्याष्टका देव कामरूपा महाबलाः ७०
तवाऽऽज्ञयाऽऽगता देव ब्रह्माण्डान्तरवासिनः कोटिकोटिगणैर्युक्ता देवदेव महेश्वर ७१
विश्वेश्वरजटोद्भूता सिन्धुश्चैव सरस्वती यमुना गण्डकी नागा विपाशा नर्मदा शिवा ७२
रुक्मा घण्टा च निर्विन्ध्या देविका च दृषद्वती शतद्रुश्च पयोष्णी च चन्द्रभागा च गोमती ७३
चर्मण्वती च कावेरी सरयूश्च परावती धूतपापा च सारथ्या माणा माला सुगन्धिका ७४
जम्बू तापी वनी शूरा कौशिकी कुमुदा करा मन्दाकिनी चन्द्रलेखा चम्पकाऽऽमोदवाहिनी ७५
ऐरावती कामवेगा प्रेङ्खला कामचारिणी पूर्णभद्रा महामोदा गम्भीरावर्तिनी स्मृता ७६
मेघमाला मेघवर्णा सदानीरा च नन्दिनी वेदा वेदवती वीणा सीता चित्रोत्पला तथा ७७
वेत्रवती च वृत्रघ्नी पिप्पला जञ्जली तथा खरजा कुमुदा शिक्षा कौशिकी निषधा सिता ७८
वैतारणी सिनीवाली वेगवती पुनःपुना गौरी कृष्णा तथा दुर्गा तुङ्गभद्रोत्पलावती ७९
स्वर्णां भीमरथी शुद्धा कृतमाला तरङ्गिणी एता देवा महानद्यः पावनाः कल्मषापहाः ८०
मूर्तिमत्यस्तवेशान उत्सवे त्विह आगताः सर्वा एता महादेव पश्य कारुण्यवारिधे ८१
भवन्ति कृतिनः सर्वे त्वयि दृष्टे महेश्वर एवमुक्त्वा तदा नन्दी देवदेवस्य चाग्रतः ८२
पपात दण्डवद्भूमौ भक्त्या परमया युतः नन्दिनं तं महात्मानं दृष्ट्वा विश्वेश्वरः प्रभुः ८३
प्रीतो भूत्वाऽऽह कालारिर्मन्दरे चारुकन्दरे ८४
इदं यः पठते नित्यं शृणुयाद्वाऽपि भक्तितः प्रीताः स्युर्देवताः सर्वास्तस्याभीष्टफलप्रदाः ८५
३१६६
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे कालाग्न्याद्यागमनकथनं नाम सप्तपञ्चाशोऽध्यायः ५७