सूत उवाच –
आह्वानयत्ततो विश्वकर्माणं पर्वतेश्वरः विवाहमण्डपं कर्तुं नानाश्चर्यविभूषितम् १
तेनाऽऽहुतस्ततः शीघ्रं विश्वकर्मा महामतिः प्रययौ हिमवत्पार्श्वं कुशलो विश्वकर्मणि २
दृष्ट्वाऽथ विश्वकर्माणं हृष्टः पर्वतराट् स्वयम् स्वागतासनपाद्याद्यैः सादरस्तमपूजयत् ३
विधिवत्पूजयित्वा तु विश्वकर्माणमब्रवीत् ४
पर्वतराडुवाच – विश्वकर्मन्महाप्राज्ञ सर्वशास्त्रविशारद यत्कारणादिहाऽऽहूतो मया त्वं तद्ब्रवीम्यहम् ५
विश्वेश्वरो महादेवो भगवान्नीललोहितः आगमिष्यति विश्वेशीं परिणेतुं शिवः स्वयम् ६
मण्डपस्तत्र कर्तव्यो यज्ञार्थं हि हिरण्मयः योजनायुतविस्तीर्णमनेकाश्चर्यसंयुतम् ७
दृष्टमात्रेण सर्वस्य प्रीतिर्भवति वै यथा तथा त्वं मण्डपं शीघ्रं कुरु विश्वेश्वरप्रियम् ८
एवमुक्तस्तदा तेन गिरिणा विश्वकर्मकृत् वैवाहं मण्डपं शीघ्रमसृजद्रत्नविग्रहम् ९
स्तम्भैर्हेममयैश्चित्रैर्मणिभिः सूर्यसंनिभैः
इन्द्रनीलमयैर्दिव्यैर्वैदूर्यैर्विद्रुमैरपि १०
मौक्तिकैर्वज्रनीलैश्च चन्द्रकान्तमयैरपि स्फटिकैर्विद्रुमैश्चापि मुक्तादामविलम्बितैः ११
चामरालकृतैरुच्चैर्दपणैर्विविधैरपि सूर्यबिम्बप्रतीकाशैश्चन्द्रबिम्बसमप्रभैः १२
ध्वजमालाकुलं दिव्यं पताकानेकशोभितम् रत्नजैः सिंहशार्दूलैर्गजवणैर्निरन्तरम् १३
रचितं मण्डपं दिव्यं प्रियं त्रिपुरविद्विषः रुद्राणां च तथा रूपैर्गन्धर्वाप्सरसां तथा १४
देवैश्चैव मनोहार्यैर्मर्त्यजैश्च तथा परैः मालाभिः स्तम्बकैर्विप्रा रत्नजैः कुसुमैर्भृशम् १५
क्वचिच्चामीकरेणाथ हृद्यां भूमिं विनिर्ममे क्वचित्पद्मदलाकारामिन्द्रायुधसमप्रभाम् १६
क्वचिन्नीलोत्पलाभासां नीलजीमूतसप्रभाम् मनसैव यथा ब्रह्मा विश्वमेतद्धि निर्ममे १७
क्वचिद्बन्धूकसंकाशां दीप्तां विद्रुमसंनिभाम् अनेकाकारविन्यासैस्ततो धात्रीं विनिर्ममे १८
क्वचित्कलशविन्यासैः क्वचित्स्वस्तिकभूषितैः हरिचन्दनगन्धाद्यैः कर्पूरोद्गारगन्धिभिः १९
जातीपाटलपद्मानां चम्पकानां सुगन्धिभिः आसनैर्विविधैः पूतैश्चन्द्रजीमूतसंनिभैः २०
उदयार्कसमाकारैर्मेरुशृङ्गोपमैर्भृशम् तमालचम्पकाभैश्च इन्द्रनीलमयैस्तथा २१
सिन्दूरचयसंकाशैर्जपाकुसुमसंनिभैः
संध्यारागनिभैश्चान्यैर्दाडिमीकुसुमप्रभैः
हेमकुम्भनिभैश्चान्यैर्मुक्ताफलनिभैरपि २२
तारकापुञ्जसंकाशैः पद्मनीलेन्द्रनीलजैः तत्रैव मण्डपे दिव्ये तोयस्थानान्यकल्पयत् २३
दीर्घिकास्तोयपूर्णाश्च क्षीरपूर्णास्तथैव च दधिहृदाननेकांश्च सुधासंपूरितानि वै २४
घृतपूर्णा महानद्यो रत्नसोपानमण्डिताः वृक्षांश्च कामिकान्दिव्यान्दीर्घिकाणां तथोभयोः २५
असृजत्क्रीडनार्थाय सदा पुष्पफलान्वितान् भक्ष्यैर्नानाविधैर्दिव्यैः फलितान्मुनिपुंगवाः २६
कदलीखण्डमध्ये तु तमालगहनेष्वपि क्रीडावाप्यः सुशोभाढ्यास्तथैवाशोकसंकुलाः २७
दीर्घिकाणां तटे रम्ये तरुणाः स्निग्धशाखिषु दोलाश्चाऽऽबन्धयामासुर्मुक्तादामभिरुज्ज्वलैः २८
रमणीयानि दिव्यानि मनस्तुष्टिकराणि च उद्यानवनखण्डानि स्थाने स्थाने ह्यकल्पयत् २९
त्रैलोक्यतिलके तस्मिन्हेमपीठस्य मध्यगाम् सिंहैश्च विधृतां श्वेतैः सहस्रदलमण्डिताम् ३०
पारिजातद्रुमाणां च मञ्जरीभिरलंकृताम् इन्द्रनीलमयीं वेदिं चारुसोपानभूषिताम् ३१
शतयोजनविस्तीर्णां स्तम्भैश्च कलशान्विताम् नानानेकाप्सरोभिश्च रत्नजां दिव्यरूपिणीम् ३२
पीनोरुजघनास्ताश्च पीनोन्नतपयोधराः चामराग्रकरास्तास्तु हारावलिविभूषिताः ३३
वीणावेणुकराश्चान्याः काञ्चीगुणविराजिताः चञ्चलायतनेत्राश्च तिलकालकमण्डिताः ३४
मध्यक्षामाश्च बिम्बोष्ठीः कमलोत्पलमालिकाः अनेकाकारविन्यासैर्निर्ममे ताः पृथक्पृथक् ३५
एवं हि दिव्यैः सुरसुन्दरीभिर्नानाप्रयोगैर्विविधैश्च चित्रैः मनोभिरामैर्नयनाभिरामैर्युक्तान्तवेदिं त्वरितश्चकार ३६
३०८१
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे साम्बविवाहमण्डपवर्णनं नाम षट्पञ्चाशोऽध्यायः ५६