५५ माहेश्वरज्ञानकथनम्

सूत उवाच –

शंकराच्च वरं लब्ध्वा देवी त्रैलोक्यपूजिता उमा भगवती काली संप्राप्ता पितृमन्दिरम् १

अपश्मद्गिरिराजस्तां चन्द्रकान्तिनिभाननाम् दीपयन्तीं जगत्सर्वं विद्युत्पुञ्जसमप्रभाम् २

अङ्के कालीं समाधाय शिरस्याध्राय च द्विजाः उवाच परया प्रीत्या विश्वेशीं पर्वतेश्वरः ३

हिमालय उवाच –

तपसा तोषितः शंभुरमेयात्मा सनातनः कीदृशश्च वरो लब्धस्त्वया देवान्महेश्वरात् ४

देव्युवाच – तपसाऽऽराध्य विश्वेशं गोपतिं शूलपाणिनम् तमेवेशं पतिं लब्ध्वा कृतार्थाऽस्मीति मे वरः ५

भेदोऽस्ति तत्त्वतो राजन्न मे देवान्महेश्वरात् सिद्धमेवाऽऽवयोरैक्यं वेदान्तार्थविचारणात् ६

यदेतदैश्वरं तेजस्तन्प्तां विद्धि नगेश्वर सर्वभूतात्मकं शान्तं विश्वं यत्र प्रतिष्ठितम् ७

अहं सर्वान्तरा शक्तिर्माया मायी महेश्वरः अहमेका परा शक्तिरेक एव महेश्वरः ८

नाऽऽवयोर्विद्यो राजन्भेदो वै परमार्थतः एकाऽहं विश्वगाऽनन्ता विश्वरूपा सनातनी ९

पिनाकपाणेर्दयिता नित्या गिरिवरोत्तम ज्ञातुं न शक्ता ब्रह्माद्या मत्स्वरूपं हि तत्त्वतः १०

इच्छाशक्तिरहं राजञ्ज्ञानशक्तिरंहे पुनः क्रियाशक्तिः प्राणशक्तिः शक्तिमान्भगनेत्रहा ११

कूटस्थमचलं सूक्ष्मं सत्यं निर्गुणमव्ययम् आनन्दमक्षरं ब्रह्म तात जानीहि मत्पदम् १२

तत्पदं ते प्रपश्यन्ति येषां भक्तिर्मयि स्थिरा नान्यथा कर्मकाण्डैश्च तपोभिश्चापि दुष्करैः १३

शिवस्य परमा शक्तिर्नित्याऽऽनन्दमयी ह्यहम् ब्रह्मणो वचनाद्राजन्नभवं दक्षकन्यका १४

शूलिनो देवदेवस्य निन्दकं परमेष्ठिनः विनिन्द्य पितरं दक्षं जाताऽस्मि तव कन्यका १५

स्वेच्छयैवावतारो मे नैव चान्यवशात्पितः तस्मान्मां परमां शक्तिमिति ज्ञात्वा सुखी भव १६

नाशयामि तवाज्ञानं भवबन्धनकारणम् दिव्यं ददामि ते ज्ञानं दुःखत्रयीवनाशकृत् १७

एवं देव्याः प्रसादेन हिमवान्पर्वतेश्वरः लब्ध्वा माहेश्वरं ज्ञानं जीवन्मुक्तस्तदाऽभवत् १८

अपश्यदखिलं विश्वमुमामहेश्वरात्मकम् नित्यानन्दं निर्विभागमात्मानं च तदात्मकम् १९

मानमेयादिरदितं भेदाभेदाविवर्जितम् बाह्यान्यन्तरनिर्मुक्तं शुद्धं निर्गुणमव्ययम् २०

न समीपं न दूरस्थं न स्थूलं नापि वा कृशम् न दीर्घं नापि वा ह्रस्वं न पीतं नापि लोहितम् २१

न नीलं न च कृष्णं च न शुक्लं नापि कर्बुरम् माणिपादविनिर्मुक्तं न श्रौत्रं न च चाक्षुषम् २२

अनासिकमजिह्वं च मनोबुद्धिविवर्जितम् बन्धमोक्षविनिर्मुक्तं बोधाबोधविवर्जितम् २३

नाऽऽधारस्थं न नाभिस्थं न हृदिस्थं न कण्ठगम् नापि नासात्रगं विप्रा न म्रूमध्यगतं हि तत् २४

न नाडीत्रयमध्यस्थं द्वादशान्तगतं न च नोर्णातन्तुनिभं तत्तु विद्युत्पुञ्जनिभं न च २५

सर्वोपाधिविनिर्मुक्तं चैतन्यं सर्वगं शिवम् तदेवेदमिदं विश्वं तस्मादन्यन्न विद्यते २६

अस्थाय परमां भक्तिं शिवयोः पादपङ्कजे पित्रोर्हिरण्यगर्भस्य शार्ङ्गिणश्चापि सुव्रत २७

३०४५

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे माहेश्वरज्ञानकथनं नाम पञ्चपञ्चाशोऽध्यायः ५५