सूत उवाच –
दग्धे रतिपतौ शंभुरुवाचाचलकन्यकाम् किमहं तव दैवेशि करोमि मनसि स्थितम् १
वरं ब्रूहि महादेवि दास्याम्यद्य सुरेश्वरि मयि प्रसन्ने देवेशि किं दुर्लभमिहास्ति ते २
श्रीपार्वत्युवाच – हते तु कामे वद नीलकण्ठ वरेण किं देव करोमि तेऽद्य विनैव कामेन न चास्ति भावः स्त्रीपुंसयोर्भास्करकोटिकल्पः ३
भावस्य हानेः सुखसंनिकर्षः कथं भवेद्ब्रूहि सुरेशवन्द्य उवाच भूयो मदनान्तकारी देहे न चाहं मदनं सुनेत्रे नेत्रस्य चैव ज्वलनात्मकस्य स्वरूपमेतद्वद किं करोमि ४
देव्युवाच – बालेति मत्वा भव भूतनाथ व्यामुह्यसे किं त्वमनिन्द्यवर्य स्वतन्त्रवृत्तिर्यदि वा तवैषा तदा दहेर्मामपि चाग्रसंस्थाम् ५
यदि विश्वेश्वरो देवो ब्रह्मादीनां हरः शिवः प्रतारणे प्रवृत्तश्चेत्को निवारयितुं क्षमः ६
नाहं प्रतार्या भगवंस्त्वामहं शरणं गता गतिर्नान्याऽस्ति मे देव तस्मान्मां त्रातुमर्हसि ७
त्वमेव चक्षुर्जगतस्त्वमेव वचसां पतिः त्वमेव धाता जगतो विधाता विश्वतोमुखः ८
नमाम्यहं देववरं पुराणमृपेन्द्रवेधोमरराजजुष्टम् शशाङ्कसूर्याग्निमयं त्रिनेत्रं ध्यानाधिगम्यं जगतः प्रकाशम् ९
त्वां वाङ्मयाधारमनन्तवीर्यं ज्ञानार्णवं चैव गुणार्णवं च परापरं धामनिधिं सुसूक्ष्ममनादिमध्यान्तविहीनरूपम् १०
हिरण्यगर्भं जगतः प्रसूतिं नमामि देवं हरिणाङ्कचिह्नम् पिनाकपाशाङ्कुशशूलहस्तं कपर्दिनं मेघसहस्रघोषम् ११
तमालकण्ठं स्फटिकावदातं नमामि शंभुं भुवनैकसिंहम् दशार्धवक्त्रं सुरसिन्धुशीर्षं शशाङ्कचिह्नं नरसिंहदारुणम् १२
त्वां नमामि शरभरूपधरोरगेन्द्रराजहारं चलद्वलयभूषणं हरम् वरविबुधमुकुटार्चिताङ्घ्रिं नमामि हि हरिचर्मवसनं त्वाम् १३
यदक्षरं निर्गुणमप्रमेयं यज्ज्योतिरेकं प्रवदन्ति सन्तः दूरंगमं देवमनन्तमूर्तिं नमामि सूक्ष्मं परमं पवित्रम् १४
नमामि रुद्रं प्रमथाधिनाथं धर्मासनस्थं प्रकृतिद्वयस्थम् तेजोनिधिं बालशशाङ्कमौलिं कालेन्धनं वह्निरवीन्दुनेत्रम् १५
सूत उवाच –
प्रसन्नोऽथाब्रवीद्देवीं कालीं त्रिपुरहा हरः वरयस्व वरं देवि ददामि तव सुव्रते १६
देव्युवाच – जीवत्वयं महादेव कामो लोकप्रतापनः विना कामेन भगवन्नाहं याचे कथंचन १७
ईश्वर उवाच –
भवत्वनङ्गो मदनस्त्वत्प्रिवार्थं सुलोचने तेन रूपेण लोकस्य क्षोभणाय भवत्वलम् १८
तदोत्थितो वायुरिवाप्रमेयस्त्वनङ्गरूपो मकरध्वजश्च हरस्य वाक्यादुमयेरितश्च सचापबाणः सरतिर्बभूव १९
इति प्रीत्या महेशानो वरं दत्त्वा हरः स्वयम् स्मरस्य पञ्चवाणस्य तत्रैवान्तरधीयत २०
यः पठेदिममध्यायं भक्त्या देवस्य संनिधौ सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते २१
३०१८
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे महादेववरप्रदानं नाम चतुष्पञ्चाशोऽध्यायः ५४