ऋषय ऊचुः – श्रुतमस्माभिरखिलं ज्ञानं माहेश्वरं महत् वर्णाश्रमविधिश्चैव प्रायश्चित्तमशेषतः इदानीं श्रोतुमिच्छामो विवाहं गिरिजापतेः १
सूत उवाच –
यदुवाच पुरा देवः पृष्टो मार्तण्डसूनुना स्तुत्वा च स्तोत्रवर्येण तच्छृणुध्वं ऋजोत्तमाः २
मनुरुवाच – भगवन्यद्यथा पृष्टं तत्तथैव त्वयोदितम् श्रुतं तदखिलं तात हृदि तच्च स्थिरीकृतम् ३
जानासि त्वं भगवतो माहात्म्यं पार्वतीपतेः भवतो नापरः कश्चिद्वेत्ताऽस्तीत्यब्रवीच्छ्रुतिः ४
त्वमीशस्यापरा मूर्तिर्यतोऽसि परमेश्वरः अतस्त्वमेव जानासि महिमानं महेशितुः ५
त्वामेव रुद्रं वरदं शिवं परमकारणम् तपनं शरणं यामि सहस्राक्षं हिरण्मयम् ६
सूर्यं प्रभाकरं भानुं ज्योतिषां ज्योतिरव्ययम् अम्बिकापतिमीशानं ज्योतिष्मन्तं दिवाकरम् ७
हिरण्यबाहुं जटिलमॐकाराख्यं प्रचेतसम् ब्रूहि मे देवदेवेश विवाहं परमेष्ठिनः ८
काली हैमवती गौरी पुनर्जाता कथं विभो ९
भानुरुवाच – पृष्टं यत्तत्प्रवक्ष्यामि शृणुष्व मनुजेश्वर सर्वपापक्षयकरं परं ब्रह्म सनातनम् १०
नीलग्रीवो महादेवः शरण्यो गोपतिर्विराट् प्रपद्ये त्वां महेशानमुग्रं शर्वं कपर्दिनम् ११
त्वां नमामि परं हंसं पशुभर्तारमीश्वरम् सर्वेषां स्मरणादेव देहिनां मोक्षसाधनम् १२
य एतैर्नामभिः स्तौति प्रातः संप्रयतात्मवान् तस्य पापं क्षयं याति लक्ष्मीश्चैव प्रवर्धते १३
सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः सूत उवाच –
एवं मनोर्वचः श्रुत्वा यदुवाच दिवाकरः १४
तदहं संप्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः १५
या सा दक्षसुता देवी सती त्रैलोक्यपूजिता त्यक्त्वा दाक्षं शरीरं च बभूवाचलकन्यका १६
नाम्ना कालीति विख्याता विश्वरूपा महेश्वरी जगच्चैतन्यरूपा च जगच्चैतन्यबोधिनी १७
अधिष्ठितस्तया काल्या हिमवान्पर्वतोत्तम पुण्यस्थानमभूद्विप्रा मोक्षदः सर्वदेहिनाम् १८
सिद्धानां च मुनीनां च गन्धर्वाणां दिवौकसाम् आवासः किंनराणां च स्मरणात्पुण्यदो नृणाम् १९
शिवं भर्तारमिच्छन्ती तस्मिन्गिरिवरोत्तमे तपस्तप्तुं गता काली शिवा पित्रोरनुज्ञया २०
अथास्मिन्नन्तरे दैत्यस्तारको लोककण्टकः जातो दैत्यकुले वीरो मृत्युरूपो दिवौकसाम् २१
ब्रह्माणं तपसाऽऽराध्य वरं तस्मादवाप ह देवाः पलायितास्तेन तारकेण बलीयसा २२
देवानां योषितो याश्च बलादपहृताश्च ताः दुःखाग्निना सुसंतप्ताः शक्राद्याः प्रथितौजसः २३
गताः सशक्राः शरणं ब्रह्माणं त्रिदशेश्वरम् आगतांश्च सुरान्दृष्ट्वा ततः प्रोवाच पद्मजः २४
ब्रह्मोवाच – कस्मात्त्रस्ताः सुरा यूयमागता वै ममान्तिके ब्रूत तत्सकलं देवा उपायं वच्मि वः स्फुटम् २५
देवा ऊचुः – तारकाद्भयसंत्रस्ताः शरणं देवमागताः यथा मृत्योर्भयं देव तस्मान्नस्त्रातुमर्हसि २६
अपि क्षणं सुरश्रेष्ठ न लभामो वयं सुखम् त्रिंशब्दर्षसहस्राणि हरितारकयोस्तदा २७
अहर्निशमविश्रान्तं युद्धमासीत्सुदारुणम् तथाऽपि न जितस्तेन देवदेवेन चक्रिणा २८
अवध्योऽयमिति ज्ञात्वा ययौ त्यक्त्वा महोदधिम् भ्रान्तचित्तस्तदा शार्ङ्गी गतस्तूर्णं महाबलः २९
वयमप्येवमेवं हि भीतास्त्वां शरणं प्रभो आगतास्त्राहि नस्तस्मात्सुखदो भव पद्मज ३०
ब्रह्मोवाच – शृणुध्वं मेऽमराः सर्वे युष्माकं सुखदं महत् योऽसौ दृप्तस्तारकाख्यस्तताप परमं तपः ३१
तस्य दैत्यस्य तपसा दह्यमानं चराचरम् दृष्ट्वा तद्वरदानार्थं गतोऽहं तारकान्तिकम् ३२
उक्तं मया वरं वत्स वरयेति महासुरः अब्रवीद्दैत्यराजो मामभिवन्द्य कृताञ्जलिः ३३
तारक उवाच –
अवध्योऽहं सुरैः सर्वैर्विष्ण्वाद्यैः पद्मसंभव भवाम्यहं यथा देव तथा त्वं देहि मे वरम् ३४
एवमस्त्वित्यहं तस्मै वरं दत्त्वा सुरोत्तमाः अन्यच्चोक्तं हितार्थं वः कस्माद्वध्योऽसि तद्वद ३५
तारक उवाच –
योऽयं देवाधिदेवेशः कपर्दी नीललोहितः तस्य रेतः सुराः पीत्वा सगर्भा विष्णुना सह ३६
भविष्यन्ति ततो जातान्मृत्युरिष्टो न वाऽपरः तथाऽस्त्विति ततश्चोक्त्वा ततोऽहं मेरुमूर्धनि ३७
गच्छध्वं शरणं तस्माच्छरण्यं सर्वदेहिनाम् विश्वेश्वरमुमाकान्तं शंकरं लोकशंकरम् ३८
मुक्त्वा हरात्मकं देवं त्रैलोक्ये सचराचरे न तं पश्यामि भो देवास्तारकं यो वधिष्यति ३९
ब्रह्मणो वचनं श्रुत्वा सहस्राक्षः शचीपति कथं भविष्यतीत्येवमालोक्य मनसा द्विजाः ४०
गुरुणा दैवतैः सार्धं पुनरेव स देवराट् हरस्यैव सुतोत्पत्तावुपायश्चिन्त्यतां सुराः ४१
इत्युक्त्वा प्रययुर्देवाः शकाद्या ब्रह्मणा सह मेरोरुत्तरतः शृङ्गं यत्र तिष्ठति माधवः ४२
गुप्तस्तिष्ठत्यमेयात्मा तारकाद्भयपीडितः सब्रह्मकान्सुरां दृष्ट्वा हृष्टः प्रोवाच माधवः ४३
माधव उवाच –
उषायश्चिन्तितः कोऽत्र वधार्थं तारकस्य हि अस्ति चेदुच्यतां देवाः शर्म नो जायते यथा ४४
सूत उवाच –
एवं विष्णोर्वचः श्रुत्वा ब्रह्मद्याः सुरसत्तमाः यथोक्तं ब्रह्मणा तेभ्यस्तथोक्तं विष्णवे सुरैः ४५
किमिदानीं तु कर्तव्यमिति संचिन्त्य देवराट् सोऽस्मरन्मनसा काममजेयमसुरैः सुरैः ४६
शक्रस्य चिन्तितं ज्ञात्वा कामो रतिपतिः स्वयम् शचीपतिं समागम्य प्राह पुष्पधनुर्धरः ४७
काम उवाच –
किं कार्यं त्रिदशश्रेष्ठ कर्तव्यं किं मया प्रभो तीव्रेण तपसा को हि स्थानमीहेत तावकम् ४८
किं वा काचित्तवाऽऽदेशं कर्तुं नेच्छति चाङ्गना तां कामिनीं करोम्यद्य तव ध्यानपरायणाम् ४९
न कश्चिदस्ति मे शूरो न मानी न च पण्डितः व्यापयामि जगत्कृत्स्नं ब्रह्माद्यं स्तम्बगोचरम् ५०
अथ किं बहुनोक्तेन दुर्वासा वा महामुनिः सोऽपि विद्धः पतत्याशु मद्बाणैर्मरुतां पते ५१
इन्द्र उवाच –
जानाम्यहं रतेर्नाथ सामर्थ्यं पुष्पधन्विनः नूनं हि सर्वकार्याणि त्वत्तः सिध्यन्ति नान्यथा ५२
गच्छ पाश्वं महेशस्य सुराणां हितकाम्यया चित्तं हरस्य संक्षोभ्य पार्वत्याः संगमं कुरु ५३
एतदेव हि मे कार्यमेष एव मनोरथः एतस्मात्कारणात्त्वं हि स्मृतः पुष्पधनुर्धर ५४
एवं शक्रवचः श्रुत्वा बलवान्मकरध्वजः मधोः सखा रतीयुक्तः पञ्चबाणो मनोभवः ५५
यत्राऽऽस्ते भगवाञ्शंभुर्ध्यानदृष्ट्या समाहितः निष्कम्पः स्वात्मनाऽऽस्मानं चिन्तयानो महेश्वरः ५६
प्राप्य शंभोरायतनमपश्यन्मकरध्वजः शैलादिं द्वारदेशे तु मेरुशृङ्गमिवोदितम् ५७
सर्वाभरणसंयुक्तं सहस्रादित्यवर्चसम् शूलहस्तं त्रिनेत्रं च चन्द्रावयवभूषणम् ५८
वज्रपाणिं चतुर्बाहुं द्वितीयमिव शंकरम् तं दृष्ट्वा मदनो विप्राश्चिन्ताक्रान्तस्तदाऽभवत् ५९
कथं प्रविश्य वक्ष्यामि शंभुं त्रिदशवन्दितम् कथं कार्यं करिष्यामि सुराणां प्रीतिवर्धनम् ६०
चिन्तयित्वा तु बहुधा वञ्चनाथाय नन्दिनः वायुरूपं ततः कृत्वा सुगन्धं मृदुशीतलम् ६१
प्रविवेश तदा कामो दक्षिणां दिशमाश्रयम् तेन याम्यां दिशि गतो वायुर्वाति सुखावहः ६२
अद्यापि कारणात्सोऽयं सुगन्धो मृदुशीतलः अपश्यत्तत्र मदनः सूर्यकोटिमिवोदितम् ६३
सहस्रनयनं देवं सहस्रतनुमीश्वरम् नीलकण्ठं सुधाभासं शुभ्रखण्डेन्दुधारिणम् ६४
जगदुत्पत्तिसंहारस्थित्यनुग्रहकारिणम् शुद्धस्फटिकसंकाशं विधूममिव पावकम् ६५
रुण्डमालाचितं देवं सूर्यमालाविभूषितम् अनौपभ्यमसादृश्यमप्रमेयमनाकुलम् ६६
जगच्चक्षुर्जगद्बाहुं जगच्छीर्षं जगन्मयम् जगत्पादं जगच्छ्रोत्रं सूक्ष्मस्थूलं परात्परम् ६७
रुद्रं शर्वं पशुपतिमुग्रं भीमं भवं द्विजाः गहादेवं महेशानमष्टमूर्तिं जगत्पतिम् ६८
व्यक्ताव्यक्तं त्रिलोकेशं पूजितं च सुरासुरैः अथ दृष्ट्वा महादेवं प्रहृष्टो मकरध्वजः ६९
निकृष्य चापमापूर्य स्थितः पश्यन्भवोद्भवम् एवं स्थितस्य कामस्य सहस्राण्ययुतानि षट् ७०
गतानि तस्य वर्षाणि मुनीन्द्राश्चित्तजन्मनः ततः स भगवान्देवो नेत्रे उन्मील्य शंकरः ७१
अपश्यद्गिरिजां देवीमग्रे विश्वेश्वरः शिवः गिरीन्द्रपुत्री तपसः प्रसक्तां लज्जयाऽन्विताम् ७२
दृष्ट्वा किमत्रेति विकल्पबुद्ध्या कामोऽयमत्रेति विचिन्त्य शर्वः ज्ञात्वा विलोक्य प्रविकृष्टचापं नेत्राग्निनाऽसौ मदनोऽपि दग्धः ७३
९९७
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे मदनदहनंनाम त्रिपञ्चाशोऽध्यायः ५३