५१ तिथिनिर्णयादिकथनम्

ऋषय ऊचुः – तिथीनां निर्णयं सूत प्रायश्चित्तविधिं तथा वक्तुमर्हसि चास्माकं व्यासशिष्य महामते १

सूत उवाच –

शृणुध्वमृषयः सर्वे तिथीनां निर्णयं परम् अनिर्णीतासु तिथिषु न किंचित्कर्म सिध्यति २

श्रौतं स्मार्तं व्रतं दानं यच्चान्यत्कर्म वैदिकम् निर्णीतासु तिथिष्वेव कर्म कुर्वीत नान्यथा ३

प्रायः प्रान्तमुपोष्यं स्यात्तिथेर्दैवफलेप्सुभिः मूलं हि पितृतुष्ट्यर्थं पित्र्यं चोक्तं महर्षिभिः ४

यां प्राप्यास्तमुपैत्यर्कः सा चेत्स्यात्त्रिमुहूर्तिका धर्मकृत्येषु सर्वेषु संपूर्णां तां विदुस्तिथिम् ५

क्षये पूर्वां प्रकर्तव्या वृद्धौ कार्या तथोत्तरा तिथेस्तस्यास्त्रिक्षणायाः क्षयवृद्धित्वकारणम् ६

अष्टम्येकादशी षष्ठी तृतीया च चतुर्दशी कर्तव्याः परसंयुक्ता अपराः पूर्वमिश्रिताः ७

बृहत्तपा तथा सम्भा सावित्री वटपैतृकी कृष्णाष्टमी च भूता च कर्तव्या संमुखी तिथिः ८

शुक्ले द्वे द्वे तथा कृष्णे युगादी कवयो विदुः शुक्ले पूर्वाह्णिके कार्ये कृष्णे चैवापराह्णिके ९

नागविद्धा तु या षष्ठी शिवविद्धा तु सप्तमी दशम्यैकादशी विद्धा नोपोष्यैव कथंचन १०

ज्ञात्वैवं सूर्यचन्द्राभ्यां तिथिं स्फुटतरं व्रती एकादशी तृतीयां च षष्ठीं चोपवसेत्सदा ११

फलमेकादशी हन्ति विहितं दशमीयुता पारणं तु त्रयोदश्यामुल्लङ्घ्य द्वादशीव्रतम् १२

पारणाहे न लभ्येत द्वादशी सकलाऽपि चेत् तदानीं दशमीविद्धा ह्युपोष्यैकादशी तिथिः १३

शुक्ले वा यदि वा कृष्णे भवेदेकादशीद्वयम् उत्तरां तु यतिः कुर्यात्पूर्वामेव सदा गृही १४

दर्शं च पौर्णमासं च सप्तमीं पितृवासरम् पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते १५

सिनीवाली द्विजैर्ग्राह्या साग्निकैः श्राद्धकर्मणि कुहूः स्त्रीभिस्तथा शूद्रैरपि चान्यैरनग्निकैः १६

पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता निशाव्रतेषु च ग्राह्या प्रदोषव्यापिनी सदा १७

उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः यच्च वा युज्यते विप्राः प्रदोषे हिमरश्मिना १८

अर्वाक्षोडश नाद्यस्तु परतश्चैव षोडश पुण्यकालोऽर्कसंक्रान्तौ स्नानदानजपादिषु १९

आसन्नसंक्रमं पुण्यं दिनार्धं स्नानदानयोः रात्रौ संक्रमणे भानोर्विषुवत्ययने दिने २०

सूर्येन्द्रुग्रहणं यावत्तावत्कुर्याज्जपादिकम् न स्वप्यान्न च भुञ्जीत स्नात्वा भुञ्जीत मुक्तयोः २१

आदित्यशीतकिरणौ ग्रस्तावस्तं गतौ यदा दृष्ट्वा तदाऽन्यदिवसे स्नात्वा भुञ्जीत वाग्यतः २२

सूतके मृतके वाऽपि नोपवासं त्यजेद्व्रती यस्माद्भग्नव्रतोऽतीव गर्हितो वेदवादिभिः २३

तस्मात्प्रमाददुःखे वा सूतके व्यसनेऽपि च स्नात्वा कार्यं व्रतं विप्रा अन्यथा व्रतलोपभाक् २४

देवार्चनादिकं कर्म कार्यं दीक्षान्वितैः सदा नास्ति शावं यतस्तेषां सूतकं च यदात्मनाम् २५

शिवे देवार्चनं यस्य यस्य वाऽग्निपरिग्रहः ब्रह्मचारियतीनां च शरीरे नास्ति सूतकम् २६

महच्छब्दप्रयुक्ता या या च सोपपदा तिथिः साऽमावास्यासमा ज्ञेया दानाध्ययनकर्मसु २७

मार्गा ह्यपरपक्षे तु पूर्वमध्या तु शब्दिता स्युश्चतुरष्टकास्तिस्रः सप्तम्यादिष्वनुक्रमात् २८

माघे पञ्चदशी कृष्णा नभस्ये च त्रयोदशी तृतीया माधवे शुक्ला नवमी कार्तिके सिता २९

एता युगादयः प्रोक्ताः सर्वाश्चाक्षयपुण्यदाः सिंहवृश्चिकयोः कुम्भसंक्रान्तिषु भवन्त्युत ३०

क्रमात्कृतयुगादीनां युगान्ताश्च महर्षयः श्राद्धपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः ३१

यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते धनुस्त्रीमीनयुग्माङ्काः षडशीतिमुखाः स्मृताः ३२

अश्वयुक्शुक्लनवमी द्वादशी कार्तिके सिता तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ३३

फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा आषाढस्यापि दशमी माधमासस्य सप्तमी ३४

श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा कार्तिकी फाल्गुनी चैव ज्येष्ठे पञ्चदशी सिता ३५

मन्वन्तरादयश्चैता दत्तस्याक्षयकारिकाः संक्रान्तयस्तथा पुण्या भास्वतो द्वादशैव हि ३६

पर्वस्वेतेषु दानानि धेनुशैलादिकानि च प्रयच्छन्ति द्विजेन्द्रेभ्यो लभन्ते चाक्षयां गतिम् ३७

पानीयमप्येषु तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति ३८

२८५२

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे तिथिनिर्णयादिकथनं नामैकपञ्चाशोऽध्यायः ५१