५० पार्वतीप्रभावकथनम्

सूत उवाच –

अथोपविश्य सुरराट् पूज्यमानो वरासने अप्सरोगणगन्धर्वसिद्धविद्याधरोरगैः १

सहस्रानुचराणां च देवतानां महौजसाम् निर्जराणां त्रयस्त्रिंशत्कोटिभिः परिवारितः २

सोऽभिषिक्तस्तदा द्रष्टुं प्राप्तराज्यं सुराधिपम् त्रैलोक्येऽस्मिन्पुनः शक्रश्चक्रे राण्यमकण्टकम् ३

समाजग्मुस्तदा द्रष्टुं प्राप्तराज्यं सुराधिपम् मुनयश्चाङ्गिरा दक्षवसिष्ठक्रतुगौतमाः ४

पुलस्त्यपुलहागस्त्यविश्वामित्रात्रिशौनकाः जमदग्निभरद्वाजभृगुभागुरिगालवाः ५

ऋभुः शाण्डिल्य दुर्वासोमर्गजैमिनिनारदाः दात्यूहोद्दालबाम्नव्यशरभङ्गनिशाकराः ६

मरीचिच्यवनोत्तङ्ककात्यायनपराशराः संवर्तशङ्खलिखितदेवभागसुषेणकाः ७

त्रितरैभ्ययवक्रीतश्वेतकेतूपमन्यवः शाकटायनकौण्डिन्यकचगृत्समदासिताः ८

देवरातश्च जावालिर्हारीतश्चैव कश्यपः बृहदश्वाम्बिकौतथ्या जातूकर्ण्यः पराशरः ९

पैठीनसिर्व्याघ्रपादो वीतिहोत्राश्वलायनौ शातातपो मधुच्छन्दा ऋचीकक्रतुदेवलाः १०

वामदेवश्च मैत्रेयमार्कण्डेयपुरोगमाः कृष्णाजिनोत्तरीयास्ते जटिला भस्मभूषिताः ११

रुद्रा इव महात्मानो वेदवेदाङ्गपारगाः तानागतासुसंपूज्य कृतासनपरिग्रहान् १२

ब्रह्मकल्पानृषीन्सर्वान्पप्रच्छेदं पुरंदरः कथमाराध्यते देवी वरदाऽचलकन्यका १३

ते धन्यास्ते कृतार्थास्ते यैः सम्यक्पूजिता शिवा यस्याः प्रसादाद्भूयोऽपि राज्यं प्राप्तमिदं मया १४

भवान्याः सर्वमेवैतद्वक्तुमर्हथ सत्तमाः ते चैवमुक्ताः शक्रेण मुनयो मुनिपुंगवाः १५

प्रत्यूचुरतां नमस्कृत्य शर्वाणीं शिवरूपिणीम् ते धन्यास्ते कृतार्थाश्च साधवस्ते शचीपते १६

भक्त्या यजन्ति ये नित्यं पार्वतीं परमेश्वरीम् कुर्वन्तोऽपीह कर्माणि चण्डिकार्पितमानसाः १७

सूर्यांशव इव जालैर्न बाध्यन्तेऽत्र किल्बिषैः
आयुरारोग्यसौख्यानि सौभाग्यं च वरस्त्रियः १८

भवन्ति तेषां ये नित्यं स्तुवन्ति परमेश्वरीम् संवत्सरास्तथा मासा विफला दिवसाश्च ते १९

नराणां विषयान्धानां येषां गेहे न पार्वती यत्र यत्रार्च्यते देवी वरदा परमेश्वरी २०

तत्र तत्राक्षयं पुण्यं स्यादित्याह प्रजापतिः नामोच्चारणमात्रेण यस्याः क्षीणोघंसचयः २१

भवत्यवाप्तकल्याणः कस्तां नाऽऽराधयेच्छिवाम् पशुभिस्त्विह तुल्यास्ते मूढैर्वा ते शवा इव २२

ये मूढा नार्चयन्त्यार्यां पार्वतीं परमेश्वरीम् अविन्त्यां सत्स्वरूपां तां शाश्वतीं विश्वतोमुखीम् २३

ये यजन्तीह धन्यास्ते शिवां स्वर्गापवर्गदाम् तपस्तीर्थप्रदानैश्च यज्ञैर्वा बहुदक्षिणैः २४

न तां गतिं लभन्तेऽत्र यां स्तुत्वाऽचलकन्यकाम् सर्वान्कामानवाप्नोति यान्यानिच्छति मानवः २५

व्रतोपवासपूजाभिः समाराध्य महेश्वरीम् व्रतेन येन देवेन्द्र प्रसीदत्याशु पार्वती २६

यच्चोल्कानवमीसंज्ञं शृणु सर्वफलप्रदम् तस्यां नवम्यां शर्वाणी महिषादीन्महासुरान् २७

जघान समरे शक्र तेन सा नवमी प्रिया अश्वयुक्शुक्लपक्षस्य नवम्यां प्रयतात्मवान् २८

स्नात्वाऽभ्यर्च्य पितृन्देवान्मनुष्यांश्च यथाक्रयम् यजेत्पश्चान्महादेवीं महिषासुरघातिनीम् २९

पुष्पैर्धूपैश्च नैवेद्यैः पयोदधिफलादिभिः भक्त्या संपूजयित्वैवं स्तुत्वा संप्रार्थयेत्ततः ३०

मन्त्रेणानेन वृत्रारे श्रद्धावान्प्रयतो व्रती महिषघ्नि महामाये चामुण्डे मुण्डघातिनि ३१

द्रव्यमारोग्यविजयं देहि देवि नमोऽस्तु ते भूतप्रेतपिशाचेभ्यो रक्षोभ्यश्च महेश्वरि ३२

देवेभ्यो मानुषेभ्यश्च भयेभ्यो रक्ष मां सदा सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ३३

उमे ब्रह्माणि कौमारि विश्वरूपे प्रसीद मे कुमारीर्भोजयित्वा वा कुर्यादाच्छादनादिभिः ३४

यथावर्णं कुमारीश्च भोजयित्वा क्षमाषयेत् नव सप्ताथ एकां वा चित्तवित्तानुसारतः ३५

श्रद्धया प्रीतिमाप्नोति देवी भगवती शिवा अनेन विधिना वर्षं मासि मासि समाचरेत् ३६

ततः संवत्सरस्यान्ते भोजयित्वा कुमारिकाः वस्त्रैराभरणैः पूज्याः प्रणिपत्य विसर्जयेत् ३७

सरुक्मशृङ्गां गां दद्यात्सुविप्राय सुशोभनाम् नरो वा यदि वा नारी व्रतमेतत्करोति च ३८

उल्कावत्सा सपत्नीनां तेजसा भाति भूतले श्रीमहानवमीत्येषा ख्याता सुरपतेऽधुना ३९

सर्वसिद्धिकरी पुण्या सर्वोषद्गवनाशिनी नाऽऽध्यात्मिकं तस्य भयं दैवं स्यान्नाऽऽधिभौतिकम् ४०

रक्षत्येव सदा शक्र सर्वापत्सु च चण्डिका शान्तिपुष्टिकरी पुण्या पुत्रारोग्यार्थलाभदा अनुष्ठेया सदा पुंभिश्चतुर्वर्गफलार्थिभिः ४१

यच्छद्मनाऽपि कुरुते व्रतमेतदित्थं चण्डीप्रियं सुरपते मुनिसिद्धजुष्टम् रुद्राङ्गनाकुलवराकुलितं विमान मारुह्य याति स सुखेन शिवस्य लोकम् ४२

शूलाग्रभिन्नमहिषासुरपादपीठा मुत्खातखड्गरुचिराङ्गदवाहुदण्डाम् येऽभ्यर्चयन्ति हि तु नक्तभुजो नवम्यां दुर्गार्तिदुर्गगहनं न विशन्ति मर्त्याः ४३

अन्यद्यदाह कपिलो भगवान्महात्मा मेरौ च दैत्यगुरवे भृगुनन्दनाय तत्त्वं शृणुष्व सुमनामभवन्महान्त- माराधनं कियदपि त्रिजगज्जनन्याः ४४

या कामधेनुसदृशी किल भक्तिभाजां या कल्पपादपसमा सुकृतार्थिनां च चिन्तामणीत्यवगता धनलिप्सुभिर्वा कस्मान्न तां भुगुसुतात्र यजन्ति गौरीम् ४५

ये तां स्मरन्ति निगडैरपि बद्धपादा व्याघ्राहिचौरनृपवह्निभयेषु दुर्गाम् तेषां न किंचिदपि शत्रुभयं नृणां स्या- द्बद्धास्तु मुक्तिमुपलभ्य सुखं लभन्ते ४६

हे भार्गवार्य गिरिजाप्रणतिप्रसादे दैवं निरुद्धमपि न प्रभवत्यवश्यम् आसन्नमेघसमयां वनराजिमुच्चै- ग्रीष्मोऽपि पल्लवचयोपचितां करोति ४७

धात्रा स्वहस्तलिखितानि ललाटपट्टे दैवाक्षराणि दुरितैकनिबन्धनानि गौरीप्रसादजनितेन जनः समस्त– स्तान्येकतः सपदि मार्जयतीति चित्रम् ४८

ते संमता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति बन्धुवर्गः धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाऽभ्युदयदा गिरिजा प्रसन्ना ४९

यः कारयेद्वरपताकसिताभ्रगौरं तद्गोपुरं च सुधयाऽऽयतनं भवान्याः चन्द्रावदातभवने विपुले च सौख्यं राज्यं श्रियं च भुवि काममुपैति सत्यम् ५०

ये कारयन्ति भवनं भृगुनन्दनाऽऽर्याः शक्त्या सुवर्णरजतायसताम्रशैलम् सामन्तमौलिमणिरश्मिसमुज्ज्वले ते सिंहासनेऽङ्गदकिरीटभृतो रमन्ते ५१

ये मेरुमूर्ध्नि सुरसंघकृताभिषेकां पञ्चामृतैर्गिरिसुतामभिषेचयन्ति ते दिव्यकल्पमनुभूय सुरेन्द्रराज्यं राज्याभिषेकमतुलं पुनराप्नुवन्ति ५२

ये देवदारुमलयोद्भवचन्दनेन ये कुङ्कुमेन च शिवामुपलेपयन्ति ते दिव्यगन्धपटवाससुगन्धदेहा नन्दन्ति नन्दनवनेषु सहाप्सरोभिः ५३

दिव्यैश्च पद्मकरवीरकजातिपुष्पै- र्गौरीं शुभैरनुदिनं ननु येऽर्चयन्ति ते भूतले नरपतित्वमवाप्य योगा- द्यास्यन्ति सौख्यमचिरेण परां च सिद्धिम् ५४

आमोदिभिर्मरुकपुष्पसुगन्धधूपै- र्येलोकनाथदयितामिह धूपयन्ति कर्पूरसारसमगन्धवराः सुरामा आलिङ्गयन्ति दयिताः सुरराजलोके ५५

दोधूयते कनकदण्डविराजितैश्च सच्चामरैः प्रचलकुण्डलसुन्दरीभिः दिव्याम्बरस्रगनुलेपनभूषिताङ्गः कृत्वा मृडानिभवने वरवस्त्रपूजाम् ५६

देदीप्यते स कनकोज्ज्वलपद्मराग- रत्नप्रभाभरणहेममये विमाने दिव्याङ्गनापरिवृतो मनसोऽभिरामः प्राज्वाल्य दीपममलं भवने भवान्याः ५७

यो जागरं गिरिसुताभवने ददाति चैत्रोत्सवादिदिवसेऽभ्यधि तूर्यनादम् वीणामृदङ्गमधुरस्वरभाषिणीभिः संगीयते स हि कृशोदरिकिंनरीभिः ५८

कुर्वन्ति ये सदुपलेपनवासचित्रं संमार्जनं गिरिसुतायतनेऽनुरक्ताः मुक्ताकलापमणिकाञ्चनभित्तिचित्रै- र्वैदूर्यकुट्टिमतले भवने वसन्ति ५९

दद्याच्च यः परमभक्तियुतो भवान्या घण्टावितानमथ चामरमातपत्रम् केयूरहारमणिकुण्डलमण्डितोऽसौ रत्नाधिपो भवति भूतलचक्रवर्ती ६०

अभ्यर्चयन्ति विधिवद्विविधोपचारै- र्गन्धर्वसिद्धविबुधस्तुतपादपद्माम् भक्त्या प्रहृष्टमनसः प्रणमन्ति देवीं ते भूर्भुवःस्वमहिमाप्तफला भवन्ति ६१

गायन्ति ये गिरिसुतां च विलोकयन्ति ध्यायन्ति वाऽमलधियश्च शिवां स्मरन्ति गौरीमुमां भगवतीं जगदेकदेवीं ते वै प्रयान्ति परमं पदमिन्दुमौलेः ६२

देवीं समस्तभुवनादिविचित्रदेहां सूर्याग्निचन्द्रनयनामिह कालचक्त्राम् दीर्घाष्टदिग्भुजचयां मृदुभावहासां येऽभ्यर्चयन्ति हृदि हन्त त एव धन्याः ६३

इक्ष्वाकुपूरुपृथुराधवधुन्धुमार- मांधातृहैहयययात्यजमीढमुख्यैः आरोग्यसंततिधराजयसौख्यलुब्धैः संपूजिता भगवती मनुजैर्भवानी ६४

यागेश्वरीं वेदवतीं भवानीं ब्राह्यीं कुमारीं सुभगां च वाणीम् नारायणीं हैमवतीमनन्तां विश्वादिभूतां भज भार्गवाऽऽर्याम् ६५

यशांसि विद्याः सुखमर्घ्यमायुर्विभूतयः पुष्टिरनर्थहानि तद्भक्तिभाजां भविनां विमुक्तये भवन्ति योगानुगताः समाधयः ६६

नीचोऽपि मन्दमतिरल्पकुलोद्भवोऽपि भीरुः शठोऽपि चपलोऽपि निरुद्यमोऽपि गौरीपदाब्जयनार्थमिहोद्यतश्च संदृश्यते ननु सुरैरपि गौरवेण ६७

तावत्कृताकृतमपि प्रतिघातमेति कर्मार्जितेन विधिनाऽपि कृतोद्यमेन आर्यापदाम्बुजरजो विरजः प्रणभ्य यावन्न वत्स शिरसा ध्रियते जनेन ६८

विद्या तपः कुलजनिर्विविधं च शिल्पं शौर्यं मतिश्च विनयस्तु विदग्धता च एते गुणा गुणवतां परमे च भद्रा गौरीप्रसादरहितस्य तृणी भवन्ति ६९

तावन्न सिध्यति रसो न रसायनानि मन्त्रा महादेयफला विलसत्प्रवादाः क्लिश्यन्ति साधकजना भुवि वर्तिकाश्च यावन्न तुष्यति कवे वरदा भवानी ७०

गौब्राह्मणार्चनपराश्च रताः स्वधर्मे ये मद्यमांसविमुखाः शुचयश्च शैवाः सत्यप्रियाः सकलभूतहिते रताश्च तेषां च तुष्यति सदा सुमते मृडानी ७१

भूतादिभूतां विषयेन्द्रियाणां परां तथाऽन्तःकरणात्मरूपाम् सदाऽक्षयां कायमनोवचोभिः संचिन्तयाऽऽर्थां सकलार्थदात्रीम् ७२

अजामेकां लोहितशुक्लवर्णां बह्वीः प्रजाः सृजमानां सुरूपाम् अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ७३

प्रभावमेनं त्रिजगज्जनन्यास्तवोदितं भार्गव वेदगुह्यम् श्रोतुं यदिच्छा तदुदरियस्व विप्रेषु किं वाऽकथनीयमस्ति ७४

शृण्वन्ति ये वाऽथ पठन्ति मर्त्याः स्तवान्विताख्यानमिदं भवान्याः भुक्त्वाऽक्षयान्कामसुखांश्च तेऽत्र प्रयान्ति शंभोः परमं पदं च ७५

सूत उवाच –

एवं मुनीनां गदितं भवान्याश्चरितं शुभम् श्रुत्वा पुरंदरः श्रीमान्भक्त्या परमया द्विजाः ७६

आराधयामास तदा पार्वतीं परमेश्वरीम् वरांश्च विविधाल्लँन्ध्वा चक्रे राज्यमकण्टकम् ७७

२८१४

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे पार्वतीप्रभावकथनं नाम पञ्चाशोऽध्यायः ५०